| YouTube Channel

गुरुतल्पग (gurutalpaga)

 
शब्दसागरः
English
गुरुतल्पग
m.
(-गः) A violator of his teacher's bed.
E.
गुरु as above तल्प a
bed and who goes.
Capeller Eng
English
गुरुतल्पग
a.
violating the teacher's bed.
Yates
English
गुरु-तल्प-ग (गः) 1.
m.
A violator of
his teacher's bed.
Wilson
English
गुरुतल्पग
m.
(-गः) A violator of his teacher's bed.
E.
गुरु as above, तल्प a bed, and who goes.
Monier Williams Cologne
English
गुरु—तल्प—ग
mfn.
one who violates his teacher's bed,
TĀr.
x, 64
Gaut.
Mn.
ix, xi, xii
Yājñ.
&c.
Benfey
English
गुरुतल्पग गुरु-तल्प-ग,
m.
A vio-
lator of the bed of his guru, i. e. his
father or teacher, Man. 9, 63.
Apte Hindi
Hindi
गुरुतल्पगः
पुं*
गुरु-तल्पगः -
गुरु-पत्नी के अनुचित संबंध रखने वाला
Shabdartha Kaustubha
Kannada
गुरुतल्पग
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಗುರುಪತ್ನಿಯೊಡನೆ ಸಂಭೋಗ ಮಾಡುವವನು
निष्पत्तिः - > गम्लृ (गतौ) - "डः" (वा० ३-२-४८)
व्युत्पत्तिः - > गुरोः तल्पं भार्यां गच्छति
प्रयोगाः - > "पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि मातुः सपन्तीं भगिनीमाचार्यतनयां तथा आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥"
उल्लेखाः - > याज्ञ० ३-२३२, ३३
L R Vaidya
English
guru-talpaga {% m. %} 1. one who defiles his step-mother
2. a violator of his preceptor’s bed. (these are regarded as अतिपातकानि in Hindu religious law), M.xi.103.
शब्दकल्पद्रुमः
Sanskrit
गुरुतल्पगः,
पुं,
(गुरोः पितुराचार्य्योपाध्याया-देर्वा तल्पं शय्यां पत्नीमितियावत्ः गच्छति इतिगम् + डः ।) विमातृगन्ता यथा, --“गरुतल्पगः सुरापश्च रुक्मस्तेय्यथ विप्रहा ।महापातकिनस्त्वेते संसर्गी चैव पञ्चमः
इति प्रायश्चित्तविवेकः
(यथा, मनुः २३५ ।“ब्रह्महा सुरापश्च स्तेयी गुरुतल्पगः ।एते सर्व्वे पृथग्ज्ञेया महापातकिनो नराः
”एतस्य नरकभोगावसाने पुनर्गृहीतमनुष्यदेहस्यफलं यथा, तत्रैव ११ ४९ ।“ब्रह्महा क्षयरोगित्वं दौश्चर्म्म्यं गरुतल्पगः ।”)
वाचस्पत्यम्
Sanskrit
गुरुतल्पग
पु०
गुरोः पितुस्तल्पं भार्य्यां गच्छति गम--ड ।विमातृगन्तरि महापातकी महापातकमध्येगुरुतल्पगमनमुक्तं तत्र गुरुतल्पशब्दार्थनिर्ण्णये बहूनिमतानि सन्ति तानि पूर्वपक्षीकृत्य निरस्य विमा-तृगमनपरत्वं प्रा० विवेके गिर्ण्णीतं यथा“तत्र को गुरुः का चाङ्गना तत्र कश्चित् पितैवगुरुः तथा मनुः “निषेकादीनि कर्म्माणि यः करोतियथाविधि सम्भावयति चान्नेन विप्रो गुरुरुच्यते ।याज्ञवलक्यः “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रय-च्छति उपनीय ददद्वेदमाचार्य्यः उदाहृतः” क्रि-यानिषेकादिकाः आभ्यां गर्भाधानादिक्रियाकर्त्तरिगुरुशब्दस्य सङ्केतितत्वात् पिता गुरुस्तस्याङ्गना स्त्री मातातत्सपत्नी सा सवर्णा चोत्तमवर्णा हीनवर्णातद्गमने गुरुतल्पगमनसमानत्वस्य वक्ष्यमाणत्वात् तदगमनंन महापातकमिति तदसङ्गतम् आचार्य्यादेरपि गुरुत्व-श्रवणात् एतयोर्वचनयोरन्यनिषेधार्थत्वाभावात् तथाच मनुरेवान्यं गुरुमाह “पिता वै गार्हपत्योऽग्नि-र्माताग्निर्दक्षिणः स्मृतः गुरुराहवनीयस्तु साग्नि-त्रेता गरीयसी इमं लोकं मातृभक्त्या पितृभक्त्यातु मध्यमम् गुरुशुश्रूषया त्ववं ब्रह्मलोकं समश्नुते ।अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः तमपीहगुरु विद्यात् श्रुतोपक्रियया तया” तथा गोतमः“आचार्य्यः श्रेष्ठो गुरूणां मतः” इत्येके पितरि सङ्केतितत्वादाचार्य्ये गौणं गुरुपदामति चेन्न आचार्य्यादा-वपि सङ्केतदर्शनात् यथा विष्णुः “त्रयः पुरुषस्याति-गुरवो भवन्ति माता पिता आचार्य्यश्चेति” तथादेवलः “आचार्य्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ वर्णज्येष्ठःपितृव्यश्च पुंस्येते गुरवो मताः” त्राता प्राणरक्षकःवर्णश्रेष्ठः क्षत्रियादीनां ब्राह्मणः अनेनैकादश गुरवःसङ्केतिताः कथमनेकेषामेकगुरुशब्दवाच्यत्वमेकस्यप्रवृत्तिनिमित्तस्याभावादिति “चेन्न गुरुरनुगन्तव्यः” इ-त्यादि श्रुत्या सदापरितोषणीयत्वादिधर्मस्यैकस्योपाधित्वात्यद्यप्याचार्य्यस्यैव परितोषणीयत्वं श्रूयते तथाप्यन्येष्वतिदिश्यते ततोऽतिदिष्टघर्माऽप्येकपदप्रवृत्तावुपाधिर्भवतिइष्टिपदप्रवृत्ताविव तद्धर्मसम्बन्धः शास्त्रीयगुरुशब्दप्रवृ-त्तिविषयत्वं वोपाधिः भवतु वा विशेषाग्रहात् अक्षा-दिशब्दवदनेकार्थत्वे को दोषः अथाचार्य्यपरत्वे गुरु-शब्दस्य कथमाचार्य्यपत्न्यभिगमने गुरुतल्पातिदेशः तथाच गोतमः “आचार्य्यपुत्रशिष्यभार्य्यासु चैवमिति” तथायाज्ञवल्क्यः “मातुःसपत्नीं भगिनीमाचार्य्यतनयान्तथा ।आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः” इति, नएतस्य हीनजातीयपत्न्यभिप्रावेणाप्युपपत्तेः अतिदेशस्योप-देशसापेक्षत्वात् प्रथमावगतोपजीव्यगुरुशब्दसङ्कोचे हेत्वभावात् “पितृभार्य्यां समारुह्य मातृवर्ज्जं नरा-धमः भगिनीञ्च निजां गत्वा निष्कृतिर्न विधीयते” इतिसंवर्त्तवचने पितृशब्ददर्शनात् सामान्यवाचिगुरुशब्दे स-ङ्कोचोऽस्त्विति वाच्यम् एतस्य प्रायश्चित्तविधिपरत्वेनाचा-र्य्यादिव्य दासपरत्वाभावात् अन्यथोभयपरत्वे वाक्यभेदा-पत्तेः पितृपदस्य गुरोर्विशेषणरूपत्वाभावात् सा-मान्यवचनसङ्कोचकत्वम् किञ्च याज्ञवल्क्यस्वरसात् निषे-कादिवेददानान्तकर्मकर्त्तुरेवाङ्गना गुर्वङ्गना तद्गमने म-हापातकं क्षत्रियादीनां भवत्तेषां वेदाध्यापकत्वाभावात्किञ्चैवमवेददातुर्ब्राह्मणस्य पितुर्गुरुत्वाभावात् तदङ्गना-गसनं महापातकं स्यात् किञ्चैवं मातृगमनस्यमहापातकत्वे “मातृगमनं दुहितृगमनं स्नुषागधनमि-त्यतिपातकानीति” विष्णुहारीतवचनविरोधश्च स्यात् त-स्मान्मातृव्यतिरेक्तैकादशगुर्वङ्गनागमनमेव महापातकमितियुज्यते देवलवचनादिति अत्र भवदेवेनोक्तं नात्रगुरोरङ्गना गुर्वङ्गनेति” षष्ठीसमासः षष्ठीतत्पुरुषस-मासस्याश्रयणे निषादस्थपतिवत् षष्ठ्यर्थलक्षणापत्तेः ।अतो गुरुश्चासावङ्गना चेति कर्म्मधारयः गुरुत्वञ्च मातुरेव मातुः सपत्न्याः शरीरीत्पादकत्वेनोपाधिनामातापित्रोरेव गुरुशब्दाभिधेयत्वात् अतएवाचार्य्यादि-षु गुरुशब्दो गौणस्तद्धर्म्मप्रतिपत्त्यर्थः गगच्छदित्यत्रागत्या षष्ठीसमासः पत्नीशब्दस्य स्वपरिणीता-वचनत्वात् गुरुश्चासौ पत्नी चेतिं यदपेक्षया गुरुत्वंतदपेक्षया पत्नीत्वायोगात् कर्म्मधारयः इहत्व-ङ्गनाशब्दस्य स्त्रीमात्रवचनत्वात् युज्यत एवेति अतो-ऽत्र गुरुशब्दस्य मातृपरत्वे गुरुपत्नीं गच्छे-दित्यत्रापि मातृपरत्वमेव सामानाधिकरण्याभावात् ।“गुरुतल्पोऽभिभाष्यैनः” इत्यत्र गुरुः तल्पं तल्पं क-लत्रं यस्येति मातुरेव ग्रहः अतएव मातुः सपत्नी-मिति याज्ञवल्क्यवचने मातुः सपत्न्यामाचार्य्यपत्न्याञ्चगुरुतल्पातिदेशो घटते एवेति, तदसङ्गतम् “मातृमगनंदुहितृगमनं स्नुषागमनमित्यतिपातकानीति” विष्णुहारीताभ्यां मातृगमनस्यातिपातकत्वाभिधानात् चात्र मावृसपत्नीपरत्वं मातृशब्दस्य मुख्यार्थत्यागापत्तेजननीवचनत्वात् षष्ठीसमासे लक्षणायामपिमुख्यार्थत्यागः किञ्च कर्म्मधारयसमासे अङ्गनापदवैयर्थ्या-पत्तिः गुरुगमनमित्येतावतैवार्थसिद्धेः दुहितुश्च पि-तृगमनमतिपातकमेव यथा पितुर्दुहितृगमनेऽतिपातकपितृनिष्ठं, तथा दुहितुरपि पितृगमनेऽतिपातकं दुहितृ-निष्ठम् एवं सर्वत्र उभयनिष्ठमेव किञ्च गुरुपत्नीं नगच्छेदित्यादिषु बहुषु वचनेषु गुरुपत्नी गुरुतल्पगुरुभा-र्य्यादिपदस्थपत्न्यादिपदानामनर्थकता स्यात् गुरुपदेनैवमातुः प्राप्तेः किञ्च निःसन्दिग्धार्थम् मातृपदमेव प्रयोक्तुमुचितं मुनीनां तु गुरुपत्न्यादिपदं सन्दिग्धार्थम् ।एवं गौरवातिशयोऽपि वक्ष्यते अतएव “सहस्रेण पितु-र्माता गौरवेणातिरिच्यते” इति जिकनस्तु आचार्य्यपितृमहीपतीनामत्र गुरुशब्देनोपादानम् यथा देवलः“उपाध्यायराजपितृभार्य्यागमनानि गुरुतल्पगमने कष्टत-मानि” पापातिशययुक्तार्नात्यर्थः उपाध्यायोऽत्राचार्य्यःयथा बौधायनः “पितुर्गुरोर्नरेन्द्रस्य भार्य्यां गत्वा प्रमादतः ।गुरुतल्पी भवेत्तेन पूर्वोक्ता तत्र निष्कृतिः” पूर्वोक्ता निष्-कृतिः तप्तलौहशय्याशयनादिः गुरुरत्राचार्य्यः “नरेन्द्र-ग्रहणाद्राजाऽत्राभिषिक्तक्षत्रियः अतएव “राज्ञी प्र-व्रजिता धात्री” इत्यादिषु राक्षीपदं वैश्यनृपतिपत्नीपरम्“आचार्य्याणीं स्वाञ्च सुतामित्याचार्य्याणीपदं हीनवर्णत-त्पत्नी परमिति तच्चिन्त्यम् उच्यते यद्यपि देवलवचनेनैकादशगुरवो दर्शिताः तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्य्यादिःततपत्नीगमनस्य गुरुतल्पगमनसमत्वानुपपत्तेः अनुपा-तकत्वश्रुतेश्च तथा विष्णुः “पितृपितृव्यमातामहमा-तुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमं पितृस्वसृमा-तृस्वसृश्रोत्रियर्त्विगुपध्यायमित्रपत्न्यभिगमनञ्चेत्यभिधाय“अनुपातकिनस्त्वेते महापातकिनो यथा अश्वमेधेनशुद्ध्यन्ति तीर्थानुसरणेन वा” चात्राचार्य्यादिपत्नी-नां हीनवर्णानां ग्रहणं नृपस्य क्षत्रियेतरस्य पत्न्याइति युज्यते आचार्य्यभार्य्यादेर्विशेषत्वात् गुर्वङ्गनाश-ब्दस्य सामान्यत्वात् सामान्यविशेषन्यायेन गुर्वङ्गनाशब्द-एव सङ्कोचस्य युक्तत्वात् पितृपत्न्यास्तु हीनवर्णायायुक्तमेव मातृगमनस्यातिपातकत्वात् सपत्नीमातृगमनस्यगुर्वङ्गनीगमनत्वेन महापातकत्वात् अर्थादनुपातके ल-घुनि हीनवर्णायाः पितृपत्न्याग्रहणं तथा याज्ञ-बल्क्यः “मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा ।आचार्य्याणीं स्वाञ्च सुतां गच्छंस्तु गुरुतल्पगः” गुरु-तल्पगो गुरुतल्पगवदित्यर्थः भगिन्यादिषु गुरुतल्प-गत्वानुपपत्तेः अत्र सुताऽसवर्णा ग्राह्या सवर्णासु-तागमनस्यातिपातकत्वात् संवर्त्तः “पितृव्यदारगमनेभ्रातृमार्य्यागमे तथा गुरुतल्पव्रतं कुर्य्यान्नान्या नि-ष्कृतिरुच्यते” अत्र गुरुतल्पव्रतातिदेशात् पितृव्या-दिभार्य्यागमनं गुरुतल्पगमनमित्यवगम्यते अतएवविष्णुवचने नृपाचार्य्यपत्नीगमनस्यानुपातकत्वश्रुतेःपितुर्गुरोर्नरेन्द्रस्य” इति बौधायनवचनेऽपि गुरुतल्पपदंगौणम् अत्रापि पितृभार्य्या हीनवर्णा ग्राह्या विष्णु-वचनैकवाक्यत्वात् अतः पितैव गुरुर्मनुवचनात् तत्पत्न्येवगुर्वङ्गना सा तु माता किन्तु सपत्नीमाता साच सवर्णोत्तमवर्णा तु हीनवर्णा विष्णुव-चनेऽनुपातकत्वश्रुतेः एतेनैकादशानामेव गुरूणां मुख्य-पत्नीगमनं महापातकं विष्णुवचने तु पत्नीपद-ममुख्यस्त्रीपरमिति कल्पतरूक्तं निरस्तमेव यद्यपिपञ्चानां पितृत्वं श्रूयते यथा “जनकश्चोपनेता यश्च वि-द्यां (कन्यां) प्रयच्छति अन्नदाता भयत्राता पञ्चैतेपितरः स्मृताः” इति तथापि जनकव्यतिरिक्ते त-द्गौणं लोके जनक एवाभिधानात् एकस्य प्रवृ-त्तिनिमित्तस्याभावात् ननु जनकस्यापि संस्कारकर्त्तुरेवमनुना गुरुत्वमुक्तं याज्ञवल्क्येन “वेददातृत्वेनेतिकर्थ संस्काराकर्त्तुः पितुरवेददातॄणां क्षत्रियादीनाञ्चगुरुत्वमिति देवलवचनेन पितृमात्रेण गुरुत्वाव-गतेः संस्कारकर्तृत्वं वेददातृत्वञ्चातिशयार्थमिति” प्रा० वि०