| YouTube Channel

गुप्तं (guptaM)

 
शब्दकल्पद्रुमः
Sanskrit
गुप्तं, त्रि, (गुप्यते स्म गुप् + कर्म्मणि क्तः ।)कृतरक्षणम् तत्पर्य्यायः त्रातम् त्राणम् ३रक्षितम् अवितम् गोपायितम् (यथा, महाभारते १८८ ।“यदाश्रौषं व्यूहमभेद्यमन्यै-र्भारद्वाजेनात्तशस्त्रेण गुप्तम्
”)कृतगोपनम् तत्पर्य्यायः गूढम् इत्यमरः ।३ १०६ (यथाह वशिष्ठः ।“आहारनिर्हारविहारयोगाःसुसंवृता धर्म्मविदा तु कार्य्याः ।वाग्गुप्तिकार्य्याणि तपस्तथैवधनायुषी गुप्ततमे तु कार्य्ये
”“हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा-श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् ।मुक्ता विद्रुमयो रसेन समता गोक्षुरवासेक्षुणासर्व्वं वन्यकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा
”इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाधिकारे
)सङ्गतम् इति शब्दरत्नावली
वैश्यशूद्राणांपद्धतिविशेषे पुं यथा, इत्युद्वाहतत्त्वम्
“गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।”