| YouTube Channel

गुदभ्रंशः (gudabhraMzaH)

 
Apte Hindi
Hindi
गुदभ्रंशः
पुं*
गुदम्-भ्रंशः -
कांच निकलना
शब्दकल्पद्रुमः
Sanskrit
गुदभ्रंशः,
पुं,
(गुदस्य भ्रंशोऽस्मात् गुदं भगंभ्रश्यतेऽस्मादिति वा ।) मलद्वारनिर्गमरोगः ।तस्य लक्षणम् ।“प्रवाहनातिसाराभ्यां निर्गच्छति गुदं वहिः ।रूक्षदुर्ब्बलदेहस्य गुदभ्रंशं तमादिशेत्
”इति माधवकरः
तच्चिकित्सा यथा, --“गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत् ।प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्रचर्म्मणा
पद्मिन्याः कोमलं पत्रं यः खादेच्छर्करान्वितम् ।एतन्निश्चित्य निर्द्दिष्टं तस्य गुदनिर्गमः
मूषकाणां वसाभिर्व्वा गुदभ्रंशे प्रलेपनम् ।सुस्विन्नमूषिकामांसेनाथवा स्वेदयेद्गुदम्
वृक्षाम्लानलचाङ्गेरीविल्वपाठायवाग्रजम् ।तक्रेण शीलयेत् पायुं भ्रंशार्त्तोऽनलदीपनम्
मूषकान् दशमूलानि गृह्णीयादुभयं समम् ।तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम्
अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति ।विनश्यति तथा तेन गुदमूलं भगन्दरः
”इति मूषकतैलम् इति भावप्रकाशः
(यदा गुह्यं निरस्येत तदा कुर्य्यात् क्रियामिमाम् ।सहचर्य्याबलानाञ्च रसो ग्राह्यो घृतं पयः
पक्त्रा घृतेन लेपः स्यात् तस्य चेदं प्रशस्यते ।अरणीपल्लवक्वाथो वाप्यं लोष्ट्रं सचन्दनम्
प्रोत्तप्य वह्निसदृशं सहसा नरस्यनिर्व्वाप्य काञ्जिकमथो विदधीत तद्वत् ।सौख्यञ्च साम्यगुदसेचनकं प्रशस्तंसंवेश्यमध्यगुदतो दृढबन्धनं स्यात्
”इति गुदभ्रंशः
इति हारीते चिकित्सितस्थाने तृतोयेऽध्याये
*
अथास्य चिकित्सा ।“गुदनिःसरणे शूले पानमम्लस्य सर्पिषः ।प्रशस्यते निरामाणा मथवाप्यनुवासनम्
चाङ्गेरी कोलदध्यम्लनागरक्षारसंयुतम् ।घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्
”इति चाङ्गेरीघृतम्
*
“सत्तव्यपिप्पलीमूलं सव्योषविडदाडिमम् ।पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्
दशमूलोपसिद्धं वा सविल्वमनुवासनम् ।शताह्वा शटी विल्वैर्व्वा वचया चित्रकेण वा
स्तब्धभ्रष्टगुदे पूर्व्वं स्नेहस्वेदौ प्रयोजयेत्
”इति चरके चिकित्सास्थाने दशमेऽध्याये
)