गुणीभूतव्यङ्ग्य (guNIbhUtavyaGgya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiगुणीभूतव्यङ्ग्यम्
गुणीभूत-व्यङ्ग्यम् -
काव्य के तीन भेदों में से दूसरा - मध्यम
Shabdartha Kaustubha
Kannadaगुणीभूतव्यङ्ग्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗುಣೀಭೂತ ವ್ಯಂಗ್ಯಕಾವ್ಯ
प्रयोगाः - > "अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये"
उल्लेखाः - > सा० द०
शब्दकल्पद्रुमः
Sanskritगुणीभूतव्यङ्ग्यः, (गुणीभूतमप्रधानीभूतं व्यङ्ग्यंव्यञ्जना शक्तिर्यत्र ।) काव्यविशेषः । यथा, --“अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ॥
*तस्याष्टौ भेदाः यथा ।“अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ।व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदा मताः ॥
* ॥
अगूढं यथा ।स्फुटतया वाच्यायमानमिति अपराङ्गम् । यथाअपरस्य रसादेर्वाच्यस्य वा वाक्यार्थीभूतस्यअङ्गं रसादि अनुरणनरूपं वा ॥
* ॥
वाच्यसिद्ध्यङ्गं यथा ।आपाततः प्रतीतस्य वाच्यार्थस्य प्रतिसन्धीय-मानानुपपत्तिनिरासकं व्यङ्ग्यम् ॥
* ॥
अस्फुटं यथा ।विदग्धैरपि क्लेशगम्यं सन्दिग्धप्राधान्यं यथाप्राधान्यमत्र रसादिव्यञ्जकत्वेन तथा च प्रती-तस्य रसादेर्व्यञ्जकं किं वाच्यं किंवा व्यङ्ग्यमितौ-त्तरकालिकसन्देहविषयत्वं तत्त्वम् ॥
* ॥
तुल्यप्राधान्यं यथा ।अत्रापि रसादिव्यञ्जकत्वेनैव प्राधान्यं व्यङ्ग्यस्यनिश्चितत्वेन तेन तेन वाच्येन तुल्यार्थो बोध्यः ॥
*काक्राक्षिप्तं यथा ।आक्षिप्तमत्र प्रागेव पदार्थविधया उपस्थानम् ॥
*असुन्दरं यथा ।“रसादिव्यञ्जने वाच्यमुखनिरीक्षकं व्यङ्ग्यम् ।”इति काव्यप्रकाशः ॥
(इत्यत्र साहित्यदर्पणकारेण काव्यभेदमाश्रित्ययदुक्तं तद्यथा । ४ । १ ।“काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यञ्चेति द्बिधा मतम् ।वाच्यातिशयिनि व्यङ्गे ध्वनिस्तत् काव्यमुत्तमम् ॥
”तत्रैव च । ४ । १६ ।“अपरन्तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।“अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन चसम्भवति ॥
” ततस्तत्र स्यादितराङ्गं काक्वाक्षिप्त-ञ्चेत्याद्यष्टौ भेदानुक्त्वा इतरस्य रसादेरङ्गं रसादि-व्यङ्ग्यं यथेत्यभिधाय क्रमश इतराङ्गादेरुदाहर-णानि प्रदर्शितानि । यथा, --“अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः ।नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥
अत्र शृङ्गारः करुणस्याङ्गम् ।“मानोन्नतां प्रणयिनीमनुनेतुकाम-स्त्वत्सैन्यसागररवोद्गतकर्णतापः ।हा ! हा ! कथं नु भवतो रिपुराजधानी-प्रासादसन्ततिषु तिष्ठति कामिलोकः ॥
अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राज-विषयरतावङ्गभावः ।जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधियावचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।कृता लङ्काभर्त्तुर्वदनपरिपाटीषु घटनामयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥
”अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेवरामत्वमवगम्यते । वचनेन तु सादृश्यहेतुक-तादात्म्यारोपणमाविष्कुर्व्वता तद्गोपनमपा-कृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोप-पादकतयाऽङ्गतां नीतम् । काक्वाक्षिप्तं यथा, --मथ्नामि कौरवशतं समरे न कोपात्दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।सञ्चूर्णयामि गदया न सुयोधनोरूसन्धिं करोतु भवतां नृपतिः पणेन ॥
अत्र ‘मथ्नाम्येवेत्यादि’ व्यङ्ग्यं वाच्यस्य निषेधस्यसह भावेनैव स्थितम् ।दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्व्वतः ।प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः ॥
अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः । प्रता-पस्य दवानलत्वारोपसिद्ध्यङ्गम् । ‘हरस्तु किञ्चित्परिवृत्त्येत्यादौ’ विलोचनव्यापारचुम्बनाभि-लाषयोः प्राधान्ये सन्देहः ।ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।जामदग्न्यश्च वो मित्रमन्यथा दुर्म्मनायते ॥
अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीतिव्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।सन्धौ सर्व्वस्वहरणं विग्रहे प्राणनिग्रहः ।अल्लापदीननृपतौ न सन्धिर्न च विग्रहः ॥
अत्र अल्लापदीनाख्ये नृपतौ दानसामादिमन्तरेणनान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपिझटित्य-स्फुटम् ।अनेन लोकगुरुणा सतां धर्म्मोपदेशिना ।अहं व्रतवती स्वैरमुक्तेन किमतः परम् ॥
अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक् योषितिबलात्कारोपभोगः स्फुटतया वाच्यायमान इत्य-गूढम् ।वाणीरकुडुङ्गुड्डीणसौणिकोलाहलंसुणन्तीए ।घरकम्मबाब्बाडाए बहूए सीअन्ति अङ्गाइं ॥
”अत्र दत्तसङ्केतः कश्चिल्लतागृहं प्रविष्टः इतिव्यङ्ग्यात् ‘सीदन्त्यङ्गानि’ इति वाच्यस्य चमत्-कारः सहृदयसंवेद्य इत्यसुन्दरं किञ्च योदीपकतुल्ययोगितादिषु उपमाद्यलङ्कारो व्यङ्ग्यःस गुणीभूतव्यङ्ग्य एव । काव्यस्य दीपकादि-मुखेनैव चमत्कारविधायित्वात् । तदुक्तं ध्वनि-कृता ।अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः ॥
यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्यविपर्य्यासः । यथा, --दृष्ट्या केशवगोपरागहृतया किञ्चिन्न दृष्टं मयातेनात्र स्खलितास्मि नाथ ! पतितां किं नामनालम्बसे ?एकस्त्वं विषमेषु खिन्नमनसां सर्व्वाबलानां गति-र्गोप्यैवं गदितःसलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥
”अत्र गोपरागादिशब्दानां गोपे राग इत्यादि-व्यङ्ग्यार्थानां ‘सलेशमिति’ पदेन स्फुटतयाव-भासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव ।किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसा-भ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्य-व्यवहारः । तदुक्तं तेनैव ।प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् ।धत्ते रसादितात्पर्य्यालोचनया पुनरिति ॥
यत्र च ।यत्रोन्मादानां प्रमदाजनाना-मभ्रंलिहः शोणमणीमयूखैः ।सन्ध्याम्रमं प्राप्नुवता मकाण्डे-ऽप्यनङ्गनेपथ्यविधिं व्यधत्त ॥
इत्यादौ रसादीनां नगरीवृत्तादि वस्तुमात्रे-ऽङ्गत्वम् । तत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरेगुणीभूतैः काव्यव्यहारः । तदुक्तमस्मत्सगोत्र-कविपण्डितमुख्यश्रीचण्डिदासपादैः । काव्यार्थ-स्याखण्डबुद्धिवेद्यस्य तन्मयीभावेनास्वाददशायांगुणप्रधानभावावभासस्तावन्नानुभूयते काला-न्तरे तु प्रकरणादिपर्य्यालोच्नया भवन्नप्यस्रौ नकाव्यव्यपदेशं व्याहन्तुमीशस्तस्यास्वादमात्रायत्तत्वादिति ॥
”)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritगुणीभूतव्यङ्ग्य गुणीभूतं व्यङ्ग्यं यत्र । काव्यभेदेतल्लक्षणाभेदादि सा० द० उक्तं यथा“अपरन्तु गुणीभूतव्यङ्ग्य वाच्यादनुत्तमे व्यङ्ग्ये । अपरंकाव्यं अनुत्तमत्वम् न्यूनतया साम्येन च संभवति । तत्रस्यादितराङ्गं १ काक्वाक्षिप्त २ ञ्च वाच्यसिद्ध्यङ्गम् ३ संदिग्ध-प्राधान्यं ४ तुल्यप्राधान्य ५ मस्फुट ६ मगूढम् ७ । व्यङ्ग्यासुन्द-र ८ मेवं मेदास्तस्योदिता अष्टौ । इतरस्य रसादेरङ्गंरसादि व्यङ्गं १ यथा । “अयं स रसनोत्कर्षी पीनस्तन-विमर्द्दनः । नाभ्यूरुजधनस्पर्शी नीवीविश्रंसनः करः” ।अत्र शृङ्गारः करुणस्याङ्गम् । “मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत्सैन्यसागररवोद्गतकर्ण्णतापः । हाहाकथं नु भवतोरिपुराजधानीप्रासादसन्ततिषु तिष्ठतिकामिलोकः” । अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्यराजविषयरतावङ्गभावः । “जनस्थाने भ्रान्तं कनकमृग-तृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।कृता लङ्काभर्त्तुर्वदनपरिपाटीष्रघटना मयाप्तं रामत्वंकुशलवसुता न त्वधिगता” । अत्र रामत्वं प्राप्तमित्य-वचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते वचनेन तु सादृश्यहेतुकतादात्म्यारोषणमाविष्कृत्य तद्गोपनमपाकृतं तेनव्यङ्ग्यं सादृश्य वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम् ।काक्वाक्षिप्तं २ यथा । “मथ्नामि कौरवशतं समरे नकोपाद्दःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्ण-यामि गदया न सुयोधनोरू सन्धिं करोतु भवतांनृपतिः पणेन” । अत्र मथ्नाम्ये वेत्यादि व्यङ्ग्यं वाच्यस्यनिषेधस्य सहभावेनैव स्थितम् । “दीपयन् रोदसीरन्ध्रमेषज्वलति सर्वतः । प्रतापस्तव राजेन्द्र! वैरिवंशदवानलः” ।अत्रान्वयस्य वेणुत्वारोपणरूपोव्यङ्ग्यः प्रतापस्य दवानल-त्वारोपसिद्ध्यङ्गम् ३ । “हरस्तु किञ्चित् परिवृत्तेत्यादौ” ।विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः ४ ।“ब्राह्मणातिक्रमत्यागोमवतामेव भूयते । जामदग्न्यश्चयोमित्रमन्यथा दुर्मनायते” । अत्र वाच्यस्य परशुरामोरक्षः-कुलक्षयं करिष्यतीति व्यङ्ग्यस्य च समं प्राधान्यम् ५ ।“सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अश्वपदीन-नृपतौ न सन्धिर्न च विग्रहः” । अत्राश्वपदीनाख्ये नृपतौदानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यंव्युत्पन्नानामपि झटित्यस्फुटम् ६ । “अनेन लोकगुरुणासतां धर्मोपदेशिना । अहं व्रतवती स्वैरमुक्तेन किमतःपरम्” । अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषितिबलात्कारोपभोगः स्थुटतया वाच्यायमानैत्यगूढम् ७ ।“वाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए । वरकम्मव्वाबडाए सीअन्ति अङ्गाइम्” । अत्र दत्तसंकेतःकश्चिल्लतागृहं प्रविष्टैति व्यङ्ग्यात् शृण्वन्त्याः सीदन्त्यङ्गानिइति वाक्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् ८ ।किञ्च योदीपकतुल्ययोगितादिषु उपमाद्यलङ्कारोव्यङ्ग्यःम गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्का-रविधायित्वात् तदुक्तं ध्वनिकृता “अलङ्कारान्तरस्यापिप्रतीतौ यत्र भासते । तत्परत्वं तु काव्यस्य नासौमार्गोध्वनेर्म्मतः” । यत्र च शब्दान्तरादिना गोपन-कृतचारुत्वस्य विपर्य्यासः यथा “दृष्ट्या केशवगोपरा-गहृतया किञ्चिन्नवृष्टं मया तेनात्र स्खलितास्मि नाथ!पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसांसर्वाबलानां गतिर्मोप्यैवं गदितः सलेशमवताद्गोष्ठेहरिर्वश्चिरम्” । अत्र गोपरागादिशव्दानां गीपे राग-इत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयाऽ-वभासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव । किञ्चयत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसान्तरे गुणी-भावः तत्र प्रधानकृतएव काव्यव्यवहारः तदुक्तं तेनैव“प्रकारोऽयं गणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् । धत्तेरसादितात्पर्य्यपर्य्यालोचनया पृथक्” यत्र च “यत्रो-न्मदानां प्रमदाजनानामब्भ्रंलिहः शोणमणीमयूखः ।सन्ध्याभ्रमं प्राप्नुवतामकाण्डेऽप्यनङ्गनेपथ्यविधिं व्य-धत्त” इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वंतत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः” । अस्य भेदसंख्याविस्तरभयात् नाक्तास्ततएवावासेयाः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
