| YouTube Channel

गुणीभूतः (guNIbhUtaH)

 
शब्दकल्पद्रुमः
Sanskrit
गुणीभूतः, त्रि, (अगुणो गुणोभूतः गुण + भू +क्तः अभूत तद्भावे च्वि ।) अप्रघानीभूतः ।यथा कृतपूर्व्वीकटमित्यत्र समासनिविष्टत्वाद्-गुणीभूताद्विशेषबोधिका द्वितीया नोक्ता इतिसुसेनकविराजः
(तथाच महाभारते ।१५ ११ ।“सर्व्वैरपि गुणैर्युक्तो निर्व्वीर्य्यः किं करिष्यति ।गुणीभूता गुणाः सर्व्वे तिष्ठन्ति हि पराक्रमे
”)