| YouTube Channel

गुडि (guDi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुण्ड्
मूलधातुः:
गुडि
धात्वर्थः:
वेष्टने (रक्षण इत्येके)
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
गुण्डयति-ते
धातुप्रदीपः
Sanskrit
गुडिँ गुडि वेष्टने
- गुण्डयति 52
क्षीरतरङ्गिणी
Sanskrit
गुडिँ गुडि रक्षणे
- गुण्डयति कुडि इत्येके अत एव कुडि दाहे (1173) कुडि वैकल्ये (1220) इति सिद्धे चन्द्रो नैनमध्यैष्ट 45
धातुवृत्तिः
Sanskrit
गुडिँ गुडि (अर्थः) वेष्टने
( गुण्डयति गुण्डति ) रक्षणइत्येके प्रथमादिं द्वितीयान्तमेके पठन्ति ( अवकुण्ठयति अवकुण्ठति ) 50
कृदन्तरूपमाला
Sanskrit
1 {@“गुडि वेष्टने”@} 2 गुण्डकः-ण्डिका, जुगुण्डयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि 3 चौरादिककुण्ठयतिवत् 4 ज्ञेयानि।
5 गुण्डितः।
प्रासङ्गिक्यः
01
=>
(४०२)
02
=>
(१०-चुरादिः-१५८४। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०३९१+ २३]
04
=>
(२१०)
05
=>
[[आ। ‘अश्वं व्यखण्डदचखण्डदघासुरादीन् धेनूरकुण्ठदभिगुण्डितपीतचेलः।’ धा। का। ३-१९।]]