गुडाचल (guDAcala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaगुडाचल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದಾನಕ್ಕಾಗಿ ಬೆಲ್ಲದಿಂದ ತಯಾರಿಸಲ್ಪಟ್ಟ ಬೆಟ್ಟ
व्युत्पत्तिः - > गुडेन निर्मितोऽचलः
वाचस्पत्यम्
Sanskritगुडाचल दानार्थं कल्पिते गुडनिर्मिते मेरुरूपे पर्वते“प्रथमो धान्यशैलः स्यात् द्वितीयो लवणाचलः ।गुडाचलस्तृतीयस्तु” पद्मपु० दश मेरूक्तौ । गुड-पर्वतादयोऽप्यत्र । तद्विधिः हेमा० दा० ब्रह्मपु० ।“पुलस्त्य उवाच । “अथात संप्रवक्ष्यामि गुडपर्वतमु-त्तमम् । यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितम् ।उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः । त्रिभिर्भारैःकनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान्” । भारः, परिभाषायव्याख्यातः । “तद्वदामन्त्रणं पूजाहैमवृक्षसुरार्चनम् ।विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः । होमं जागरणंतद्वल्लोकपालाधिवासनम् । धान्यपर्वतवत् कुर्य्यातृमं म-न्त्रमुदीरयेत् । यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः ।सामवेदस्तु वेदानां महादेवस्तु योगिनाम् । गुणवः स-र्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानांप्रवरः सदैवेक्षुरसो मतः । मम तस्मात् परां लक्ष्मींददस्व गुडपर्वत! । यस्मात् सौभाग्यदायिन्या भ्राता त्वंगुडपर्वत! । निवासश्चापि पार्वत्यास्तस्मान्मां पाहिसर्वदा । अनेन विधिना यस्तु दद्यात् गुडमयं गिरिम् ।पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते । पुनः कल्प-शतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नःशत्रुभिश्चापराजितः” इति पद्मपुराणोक्तो गुडपर्वत दान-विधिः । “श्रीभगवानुवाच । अतः परं प्रवक्ष्यामिगुडपर्वतमुत्तमम् । सर्वपापहरं पुण्यं सौभाग्यजननंपरम् । पुष्टिदं शान्तिदञ्चैव सुखदं दिव्यभोगदम् । भा-रैस्तं दशभिः कुर्य्याद्यथाशक्त्यापि वा भवेत् । पूर्ववत्मण्डपं कृत्वा सर्वोपकरणानि च” । पूर्ववदिति, ब्रह्माण्ड-पुराणोक्तधान्यपर्वतवदित्यर्थः । लोकपालसमोपेतं तथाकाञ्चनशृङ्गिणम् । मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्र-हम् । प्रबालकलतोपेतं इक्षुखण्डोपवेणुकम् । नितम्बंराजतन्तस्य मेखलाकारसंस्कृतम् । कुर्य्यात्ताम्रमयं स्कन्धंनानाधातुविभूषितम् । कृत्वा तमीदृशं शैलं सर्वधान्यस-मावृतम् । सर्वौषधिसमोपेत सशृङ्गं समहाद्रुमम् ।कल्पयित्वा विधानेन सवितानं विचक्षणैः । कुण्डमेकततः कृत्वा चतुःकोणं स्वलङ्कृतम् । नियोज्यास्तत्र वि-द्वांसो व्राह्मणाः शंसितव्रताः । पञ्चमो गुरुरत्रोक्तस्तान्सर्वान् पूजयेत्ततः । पूजितास्ते यथान्यायं होमं कुर्य्यु-रतन्द्रिताः । लोकपालान् ग्रहांश्चैव व्रह्मादींश्च विधा-नतः । स्वलिङ्गोक्तेश्च मन्त्रैश्च होमयेयुर्द्विजोत्तमाः ।महाव्याहृतिभिश्चैव अयुतं तत्र होमयेत् । आचार्य्यःसह विप्रैस्तैर्मौनेन सुसम हितः । ब्रह्मघोषरतस्तस्मिन्कारयित्वा महोत्सवम् । एवं विधिं तदा कृत्वा पूर्वेद्युःश्रद्धयान्वितः । दद्यात्तं माघमासस्य तृतीयायां विशेषतः ।चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत् । अन्येष्वपिच कालेषु ग्रहणादिषु कारयेत् । त्वं रसानां वरो नित्यंदेवानाञ्च सदा प्रियः । सुखं प्रयच्छ मे नित्यं नमस्तेपर्वतोत्तम! । यावद्भूः सागरा नद्यो याच्चन्द्रार्कतारकाः ।तावन्मे त्वं सुखं यच्छ सौभाग्यमतुलं तथा । एवं सं-पूजयित्वा तं ब्राह्मणानां निवेदयेत् । आचार्य्यं पूजयेत-पाश्चाद्दीनान्थकृपणानपि । विसृज्य ब्राह्मणास्तांस्तकृत्वा चैव प्रदक्षिणम् । तस्मिन् दिने च भोक्तव्य मधुरक्षारवर्ज्जितम् । अनग्नालेपनञ्चैव कृतकृत्यो भद्धरः ।तस्मादेवमिदं दानं फलमुत्तममिच्छता । गतिञ्च शास्वर्तलोके सौभाग्यं रूपमेव च । अनेन विधिना चैव दातव्योगुडपर्वतः । विंशद्भारस्तु कर्तव्यः शेषं पूर्वदाचरेत् ।दानमेतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः ।सौभाग्यराज्यकामस्य “सर्वस्यापि विधीयते । पूर्वोक्तञ्चफलं प्राप्य कृतकृत्यो हि जायते” इति ब्रह्माण्डपुरा-णोक्तो गुडपर्वतदानविधिः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
