| YouTube Channel

गुडभल्लातक (guDabhallAtaka)

 
वाचस्पत्यम्
Sanskrit
गुडभल्लातक
पु०
गुडेन पक्वः भल्लातकः पाकविशेषेण गुड-पक्वे भल्लातकादिरूपे औषधभेदे चक्र० तत्पाको यथा“भल्लातकसहस्रे द्वे जलद्रोर्णे विपाचयेत् पादशेषे रसेतस्मिन् पचेद्गुडतुलां भिषक् भल्लातकसहस्रार्द्धंछित्त्वा तत्रैव तापयेत् सिद्धेऽस्मिंस्त्रिफलाव्योषय-मानीमुस्तसैन्धवम् कर्षांशसम्मित दद्यात् त्वगेलाप-त्रकेशरम् खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः! ।कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डताः हन्यात्प्लीहोदरं कासक्रिमिरोगभगन्दरान् गुङभल्लातको-ह्येष श्रेष्ठश्चार्शोविकारिणाम्” प्रकान्तरं यथा “दश-मूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शटी भल्लातकसहस्रञ्चपलाशं क्वाथवेद् बुधः पादशेषे जलद्रोणे रसे तस्निन्विपाचयेत् दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत् ।माक्षिकं पिप्पलीतैलं मारुवकञ्च दापयेत् कुडवं कुडव-ञ्चात्र त्वगेलामरिचन्तथा अर्शःकासमुदावर्त्तं पाण्डुत्वंशोथमेव नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः”