| YouTube Channel

गुडधेनुः (guDadhenuH)

 
Apte Hindi
Hindi
गुडधेनुः
स्त्री*
गुड-धेनुः -
दूध देने वाली गाय
शब्दकल्पद्रुमः
Sanskrit
गुडधेनुः,
स्त्री,
(गुडनिर्म्मिता गुडभारादिभिः कृताधेनुः ।) गुडादिनिर्म्मिता धेनुः यथा, --“गुडधेनुविधानस्य यद्रूपमिह यत् फलम् ।तदिदानीं प्रवक्ष्यामि सर्व्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ।गोमयेनानुलिप्तायां दर्भमास्तीर्य्य सर्व्वतः
लवणेनाजिनं तद्वत् वत्सस्य परिकल्पयेत् ।उदङ्मखीं कल्पयेद्धेनुमुदीच्याञ्च सवत्सकाम्
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयैः ।बहुभारेण वा कार्य्या भाराभ्यां मध्यमा स्मृता
अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ।चतुर्थांशेन वत्सः स्यात् गृहवित्तानुसारतः
धेनुवत्सौ तदां तौ तु सितसूक्ष्माम्बरावृतौ ।शुक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ
सितसूत्रशिरालौ तु सितकम्बलकम्बलौ ।ताम्रगुडकपृष्ठौ तु सितचामररोमकौ ।विद्रुमभ्रूयुगकृतौ नवनीतस्तनान्वितौ
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ।इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत्
सर्व्वासां धेनूनामेवं विधानं ज्ञेयम् इति पाद्मेसृष्टिखण्डम्