गुडधेनु (guDadhenu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiगुडधेनुः
गुड-धेनुः -
दूध देने वाली गाय
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritगुडधेनुः, (गुडनिर्म्मिता गुडभारादिभिः कृताधेनुः ।) गुडादिनिर्म्मिता धेनुः । यथा, --“गुडधेनुविधानस्य यद्रूपमिह यत् फलम् ।तदिदानीं प्रवक्ष्यामि सर्व्वपापविनाशनम् ॥
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ।गोमयेनानुलिप्तायां दर्भमास्तीर्य्य सर्व्वतः ॥
लवणेनाजिनं तद्वत् वत्सस्य परिकल्पयेत् ।उदङ्मखीं कल्पयेद्धेनुमुदीच्याञ्च सवत्सकाम् ॥
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयैः ।बहुभारेण वा कार्य्या भाराभ्यां मध्यमा स्मृता ॥
अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ।चतुर्थांशेन वत्सः स्यात् गृहवित्तानुसारतः ॥
धेनुवत्सौ तदां तौ तु सितसूक्ष्माम्बरावृतौ ।शुक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ ॥
सितसूत्रशिरालौ तु सितकम्बलकम्बलौ ।ताम्रगुडकपृष्ठौ तु सितचामररोमकौ ।विद्रुमभ्रूयुगकृतौ नवनीतस्तनान्वितौ ॥
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ।इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत् ॥
सर्व्वासां धेनूनामेवं विधानं ज्ञेयम् । इति पाद्मेसृष्टिखण्डम् ॥
वाचस्पत्यम्
Sanskritगुडधेनु स्त्री दानार्थं नुडनिर्भिते धेनुभेदे । तद्विधिश्च हेमा० दा०यथा “प्रथमा गुडनेनुः स्यात् घृतघेनुस्तथाऽपरा । तिलधेनु-स्तृतीया तु चतुर्थी जलसंज्ञिता । क्षीरधेनुश्च विख्यातामधुधेनुस्तथाऽपरा । सप्तमी शर्कराधेनुर्दधिधेनुस्तथाऽष्टमी ।रसधेनुर्नवमी स्वाद्दशमी स्यात् स्वरूपतः” इत्युपक्रमे “ए-तासां तु विधानञ्च समाचक्ष्व जगत्पते! । किंरूपं केनमन्त्रेण दातव्या तदिहोच्यताम् । मत्स्य उवाच । गुड-धेनुविधनास्य यद्रूपमिह यत्फलम् । तदिदानीं प्रव-क्ष्यामि सर्वपापविनाशनम् । कृष्णाजिनं चतुर्हस्तंप्रागग्रीवं विन्यमेद्भुवि । गोमयेनोपलिप्तायां दर्भाना-स्तीर्य्य सर्वतः । लघ्वेणकाजिनन्तद्वद्वत्सस्य परिकल्पयेत् ।प्राङ्मुखीं स्थापयेद्धेनुमुदक्पादां सवत्सकाम्” । एणका-जिनं कृष्णाजिनं प्राङ्मुखीं प्राक्शिरसमित्यर्थः । “तदु-त्तरेण वत्सोऽपि तथैव परिकल्पनीयः । “उत्तमा गुड-धेनुः स्यात्सदा भारचतुष्टयम् । वत्सम्भारेण कुर्वीतेभाराभ्यां मध्यमा स्मृता । अर्द्धभारेण वत्सः! स्यात्निजवित्तानुसारतः” । निजवित्तानुसारत इति इय-मुत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्त्तव्ये-त्यर्थः । “धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरा-वृतौ । शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ । सित-सूत्रसिरालौ तौ सितकम्बलकम्बलौ । ताम्रकद्रूक-पृष्ठौ तौ सितचामररोमकौ” । कद्रूकं ककुत्प्रदेशः ।“विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ । क्षौम-पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । सुवर्णशृङ्गा-भरणौ राजतक्षुरसंयुतौ । नानाफलमयैर्दन्तैर्घ्राण-गन्धकरण्डकौ” । अत्र च सारतः परिमाणतश्च फल-विशेष इति यथाशक्ति सुबर्णशृङ्गादित्वमवधेयम् ।“इत्येवं रचयित्वा तु धूपदीपैरथार्च्चयेत्” । “विधान-मेतद्धेनूनां सर्वासामिह पठ्यते” । सर्वासाम्प्रत्यक्ष-धेनुव्यतिरक्तानामित्यवगन्तव्यम् । तथा “एतदेव विधानंस्यात्त एवोपस्कराः स्मृताः । मन्त्राघाहनसंयुक्ताः सदापर्यणिपर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिसुक्तिफलप्रदाः ।अशेषयज्ञफलदाः सर्वपापहराः शुभाः । अयने विषुवेपुस्थे व्यतीपातेऽथ वा पुनः । गुडधेन्वादयो देया उप-रागादिपर्वसु” मत्सपु० । अत्र घृतादिधेनुद्रव्यपरिमाणमपिगुडधेनूक्तमेव । “विधानमेतद्धेनूनां सर्वासामपि पठ्यतेइत्यतिदेशात् “कुम्भाः, स्युर्द्रवधेनूनामितरासान्तु राशय्नः”इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधार-तयावस्थापनम्” हेमाद्रिदानखण्डम् ।अन्यत् क्षीरधेनुशब्दे २३७३ पृ० दर्शितरीत्या कार्य्यम्”“धेनुवत्सौ तदा तौ तु सितसूक्ष्माम्बरावृतौ । शक्ति-कर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ । सितसूत्रसिरासौतु सितकम्बलकम्बलौ । ताम्रककुदपृष्ठौ तु सितचामर-रोमकौ । विद्रुमभ्रूयुगयुतौ नवनीतस्तनान्वितौ । क्षौम-पुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ । इत्येवं रचयित्वातु धूपदीपैः समर्च्चयेत्” पद्मपु० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
