| YouTube Channel

गुडकुष्माण्डक (guDakuSmANDaka)

 
वाचस्पत्यम्
Sanskrit
गुडकुष्माण्डक
न०
चक्रदत्तोक्ते औषधभेदे यथा ।“कुष्माण्डस्य पलशतं सुखिन्नं निष्फुलीकृतम् ।प्रस्थं वृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत् त्वक्पत्र-धन्याकव्योषजीरकैलाद्वयानलम् ग्रन्थिकं चव्यमानङ्ग-पिप्पलीविश्वभेषजम् शृङ्गाटकं कशेरुञ्च प्रलम्बंतालमन्तकम् चूर्णीकृतं पलांशञ्च गुडस्य तुलांपकेत् शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ।कफपित्तानिलहरं मन्दाग्नीनाञ्च शस्यते कृशानांवृंहणं श्रेष्टं वाजीकरणमुत्तमम् प्रमदासु प्रसक्तानये स्युः क्षीणरेतसः क्षयेण गृहीतानां परमे-तद् भिषग् जितम् कासं श्वासं ज्वरं हिक्कां हन्तिछर्दिमरोचम् गुडकुष्माण्डकं ख्यातमश्विभ्यांसमुदाहृतम् खण्डकुष्माण्डवत् पात्रं स्विन्न-कुष्माण्डकद्रवः ।”