| YouTube Channel

गुज (guja)

 
शब्दसागरः
English
गुज r. 1st cl. (गोजति) or (शि) r. 6th cl. (गुजति) or (इ) गुजि r. 1st cl. (गुञ्जति)
To sound, to sound inarticulately, to buz, to hum, &c.
Wilson
English
गुज r. 1st cl. (गोजति) or (शि) r. 6th cl. गुजति) or (इ)
गुजि r. 1st cl. (गुञ्जति) To sound, to sound inarticulately, to buzz, to
hum, &c.
Apte Hindi
Hindi
गुजः
पुं*
- गुज् -
"भिनभिनाना, गूँजना"
गुजः
पुं*
- -
"कुसुमस्तवक, फूलों का गुच्छा, गुलदस्ता"
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुज्
मूलधातुः:
गुज
धात्वर्थः:
शब्दे
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गुजति
अनुबन्धादिविशेषः:
कुटादिः
धातुप्रदीपः
Sanskrit
गुजँ गुज शब्दे
- गुजति गुजिता अगुजीत् गोजयति गुजः गोजः 88
शब्दकल्पद्रुमः
Sanskrit
गुज, कूजने इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) पञ्चमस्वरी गोजति कूजन-मव्यक्तशब्दः इति दुर्गादासः
गुज, कूजने इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) पञ्चमस्वरी इ, कर्म्मणि गुञ्ज्यते ।कूजनमव्यक्तशब्दः गुञ्जति भ्रमरः कुञ्जे इतिदुर्गादासः
गुज, शि ध्वनौ इति कविकल्पद्रुमः
(तुदां-(कुटां)-परं-अकं-सेट् ।) शि, गुजति अगु-जीत् जुगोज इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गुज ध्वनौ तुदा० कुटा०
पर०
अक० सेट् गुजति अगुजिष्टजुगोज प्रनिगुजति
गुज कूजने
भ्वा०
पर०
अक० सेट् जोजति अगोजीत् जुगेज
गुज कूजने
भ्वा०
पर०
सक०
सेट् इदित् गुञ्जति अगुञ्जीत्जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन् (गुनगुन)इति ध्वनितमिह कूजनम् “न जुगुञ्ज यः कल-मिति” “न गुञ्जितं तन्न जहार यन्मनः” ।“रेणून् पुपूरिरे गुञ्जा” जुगुञ्जुः करघट्टिताः” भट्टिः ।“लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” “गुञ्जन्मत्तमधुव्रतः” सा० द०
क्षीरतरङ्गिणी
Sanskrit
गुजँ गुज शब्दे
- गुजति, गुजिता भ्वादौ (1123 एकीयमते) गोजति, गोजिता 89
धातुवृत्तिः
Sanskrit
गुजँ गुज (अर्थः) शब्दे
अव्यक्ते_शब्दे इत्यात्रेयः ( गुजति ) इत्यादि ( गोजः ) घञि "न क्वादेः'' इति कुत्वम् गुञ्जतीति शपि 87
कृदन्तरूपमाला
Sanskrit
1 {@“गुज शब्दे”@} 2 कुटादिः।
“गुञ्जेदव्यक्तशब्दे स्यात्, शब्दमात्रे गुजेदिति।।” 3 इति देवः।
‘अव्यक्ते शब्दे’ इत्यात्रेयः।
गोजकः-जिका गोजकः-जिका, जुगुजिषकः-षिका, जोगुजकः-जिका, 4 गुजन्- न्ती-ती, गोजः इत्यादीनि तौदादिककुचतिवत् 5 सर्वाणि रूपाणि बोध्यानि।
प्रासङ्गिक्यः
01
=>
(३९८)
02
=>
(६-तुदादिः-१३६९। सक। सेट्। पर।)
03
=>
(श्लो। ६७)
04
=>
[[आ। ‘ततोऽतिकुटिलाशयैः प्रपुटितैः कुचज्जीवितैः गुजद्भिरपि सैनिकै सुगुडितां डिपद्भिर्जनान्।’ धा। का। २। ८०।]]
05
=>
(२०२)