| YouTube Channel

गुच्छार्द्धः (gucchArddhaH)

 
शब्दकल्पद्रुमः
Sanskrit
गुच्छार्द्धः,
पुं,
(गुच्छस्य द्वात्रिंशद्यष्टिकहारस्यअर्द्धः ग्रामार्द्धवत् समासः ।) चतुर्व्विंशति-यष्टिको हारः इत्यमरः १०५
(पुंलिङ्गनिर्द्देशादेवास्य तथात्वम् क्लीवलिङ्गे तु“पुंस्यर्द्धोऽर्द्धं समेऽशके ।” इत्यमरोक्तेः षोडश-यष्टिकहारो बोद्धव्य इति तु सुधीभिर्विभाव्यम्
)