| YouTube Channel

गुग्गुलुः (gugguluH)

 
Apte Hindi
Hindi
गुग्गुलुः
पुं*
- "गज् - क्विप् = गक् रोगः ततो गुडति रक्षति - गुक् - गुड् - कु, डस्य लकार"
"एक प्रकार का सुगंधित गोंद, राल, गुग्गल"
Wordnet
Sanskrit
Synonyms:
गुग्गुलुः
noun
व्रणरोपिनः वृक्षस्य पुष्पाणि।
"सीता गुग्गुलोः पुष्पाणां मालां करोति।"
वैजयन्तीकोषः
Sanskrit
Word: गुग्गुलुः
Root: गुग्गुलु
Gender: पुं
Number: all
अर्थः
Meaning(s):
Bdellium
Tamil Kuṅgiliyam
Shloka(s):
3|3|53|1 गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः। (भूमिकाण्डः/वनाध्यायः)
3|3|53|2 श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|54|1 कामः पुरो जटायुश्च कुम्भोलूखलकं वरम्। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|53|1 गुग्गुलुः (गुग्गुलु) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|1 कालनिर्यासः (कालनिर्यास) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|1 देवधूपः (देवधूप) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|1 महेश्वरः (महेश्वर) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 श्रीमन्तः (श्रीमत्) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 स्निग्धः (स्निग्ध) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 सर्वसहः (सर्वसह) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 श्लेष्मी (श्लेष्मिन्) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 तिक्तः (तिक्त) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 कटुः (कटु) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|53|2 लघुः (लघु) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|54|1 कामः (काम) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|54|1 पुरः (पुर) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|54|1 जटायुः (जटायु) (पुं) Bdellium
Tamil Kuṅgiliyam
3|3|54|1 कुम्भोलूखलकम् (कुम्भोलूखलक) (नपुं) Bdellium
Tamil Kuṅgiliyam
Related word(s):
परा_अपरासंबन्धः वृक्षः
Tamil
Tamil
கு3க்3கு3லு: : குங்கிலியம், சாம்பிராணி.
கு3க்3கு3லு: : குங்கிலியம், சாம்பிராணி.
शब्दकल्पद्रुमः
Sanskrit
गुग्गुलुः,
पुं,
(गुज्यतेऽनेनेति गुज शब्दे + क्विप् ।गुक् रोगस्तस्मात् गुडतीति गुड रक्षणे +बाहुलकात् कुः डलयोरैक्यात् डस्य लत्वम् ।)रक्तशोभाञ्जनवृक्षः इति शब्दचन्द्रिका
स्वनामख्यातवृक्षः तु गोमूत्रोद्भवः यथा, --“गोरोचनाया मङ्गल्याः संजाताः सर्व्वकामिकाः ।गुग्गुलुस्तु ततो जातो गोमूत्राच्छुभदर्शनः
”इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामाध्यायः
अस्य निर्यासः सुगन्धिद्रव्यम् तत्पर्य्यायः ।कुम्भम् उलूखलकम् कौशिकः पुरः
इत्यमरः ३४
कुम्भोलुः खलकम् ७कुम्भोलूखलकम् गुग्गुलः इति भरतः
जटायुः १० कालनिर्यासः ११ देवधूपः १२सर्व्वसहः १३ महिषाक्षः १४ पलङ्कषा १५ ।इति रत्नमाला
यवनद्बिष्टः १६ भवाभीष्टः १७निशाटकः १८ जटालः १९ पुटः २० भूतहरः२१ शिवः २२ शाम्भवः २३ दुर्गः २४ यातुघ्नः२५ महिषाक्षकः २६ देवेष्टः २७ मरुदिष्टः २८रक्षोहा २९ रूक्षगन्धकः ३० दिव्यम् ३१ ।अस्य गुणाः कटुत्वम् तिक्तत्वम् उष्णत्वम् ।कफमारुतकासकृमिवातोदरक्लेदशोफार्शोनाशि-त्वम् रसायनत्वञ्च इति राजनिर्घण्टः
दीप-नत्वम् तीक्ष्णत्वम् कषायत्वम् मेदःकुष्ठ-नाशित्वम् पित्तदाहित्वम् लघुत्वञ्च इतिराजवल्लभः
विशदत्वम् सारकत्वम् रूक्ष-त्वम् पाके कटुत्वम् भग्नसन्धानकारित्वम् ।वृष्यत्वम् सूक्ष्मत्वम् स्वर्य्यत्वम् पिच्छिलत्वम् ।बलकारित्वम् व्रणमेहाश्मवातामवातपिडका-ग्रन्थिगण्डमालानाशित्वञ्च
*
“माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पित्तहा ।तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा
”स तु पञ्चधा यथा, --“महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्चजातयः
”तेषां रूपाणि यथा, --“भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः ।महानीलस्तु विज्ञेयः स्वनामसमलक्षणः
कुमुदः कुमुदाभः स्यात् पद्मो माणिक्यसन्निभः ।हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम्
”एषां प्राणिविशेषे प्रयोगो यथा, --“महिषाक्षमहानीलौ गजेन्द्राणां हितावुभौ ।हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ।कदाचिन्महिषाक्षस्तु मतः कैश्चिन्नृणामपि
”नूतनगुग्गुलो रूपं यथा, --“स्निग्धकाञ्चनसङ्काशः पक्वजम्बूफलोपमः ।नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः
”पुरातनस्य रूपं यथा ।“शुष्को दुर्गन्धिकश्चैव त्यक्तप्रकृतवर्णकः ।पुराणः तु विज्ञेयो गुग्गुलुर्व्वीर्य्यवर्जितः
”इति भावप्रकाशः
*
अस्य स्थानविशेषे जन्मादिकथनम् यथा, --“जायन्ते पुरपादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताःशीतार्त्ताः शिशिरेऽपि गुग्गुलुरसं मुञ्चन्ति तेपञ्चधा ।हेमाभं महिषाक्षतुल्यमपरं सत्पद्मरागोपमंभृङ्गाभं कुमुदद्युतिञ्च विधिना ग्राह्या परीक्षाततः
वह्नौ ज्वलन्ति तपने विलयं प्रयान्तिक्लिद्यन्ति कोष्णसलिले पयसः समानाः ।ग्राह्याः शुभाः परिहरेच्चिरकालजाता-नङ्गारवर्णसमपूयविगन्धवर्णान्
”इति प्रयोगामृतम्
पक्वस्यास्य पूर्णवीर्य्यत्वं मासत्रयपर्य्यन्तं तिष्ठति ।इति परिभाषा