| YouTube Channel

गीतासारः (gItAsAraH)

 
शब्दकल्पद्रुमः
Sanskrit
गीतासारः,
पुं,
(गीतासु सारः गीतानां वेदान्तादि-शास्त्राणां वा सारो यत्र इति वा मुक्त्यर्थं संक्षे-पेण समस्तयोगज्ञानादिप्रतिपादकशास्त्राणांसारार्थो गीतो यत्र इति तात्पर्य्यार्थः ।) अर्ज्जुनंप्रति श्रीकृष्णोक्तमुक्त्यर्थाष्टाङ्गादियोगः यथा, --श्रीभगवानुवाच ।“गीतासारं प्रवक्ष्यामि अर्ज्जुनायोदितं पुरा ।अष्टाङ्गयोगं सुक्त्यर्थं सर्व्ववेदान्तसारगम्
आत्मलाभः परो नान्य आत्मा देहादिवर्ज्जितः ।रूपादिमान् हि देहोऽतः करणत्वादि लोचनम्
करणत्वान्मनोऽधीनो प्राणोऽचेतनो यतः ।विज्ञानरहितः प्राणः सुषुप्ते हि प्रतीयते
नाहमात्मा दुःखादिसंसाराभिसमन्वयात् ।विधूम इव दीप्तार्च्चिरादित्य इव दीप्तिमान्
वैद्युतोऽग्निरिवाकाशे हृत्स्थो ज्ञेयात्मनात्मनि ।श्रोत्रादीनि पश्यन्ति स्वं स्वमात्मानमात्मना
सर्व्वज्ञः सव्वदर्शी क्षेत्रज्ञस्तानि पश्यति ।स्वानान्तु मनसा रश्मीन् यदा सम्यङ्नियच्छति
तदा प्रकाशते ह्यात्मा घटे दीपो ज्वलन्निव ।ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च
मनो बुद्धिमहङ्कारमव्यक्तं पुरुषं तथा ।प्रसंख्याय परावाप्तौ विमुक्तो बन्धनैर्भवेत्
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ।मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य पाण्डव !
अहङ्कारं तथा बुद्धौ बुद्धिञ्च प्रकृतावपि ।प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत्
अहं ब्रह्मपरं ज्योतिः प्रसंख्याय विमुच्यते ।द्बिद्बादशेभ्यः ख्यातो यः पुरुषः पञ्चविंशकः
विवेकात् केवलीभूतः षड्विंशमनुपश्यति ।नवद्बारमिदं गेहं त्रिस्थूणं पञ्चसाक्षिकम्
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद वरः कविः
ज्ञानयज्ञस्य सर्व्वाणि कलां नार्हन्ति षोडशीम्
”अश्वमेधसहस्राणि वाजपेयशतानि ।इति गारुडे २३३ अध्यायः
*
श्रीभगवानुवाच ।“यमाश्च नियमाः पार्थ ! आसनं प्राणसंयमः ।प्रत्याहारस्तथा ध्यानं धारणार्ज्जुन ! सप्तमी
समाधिरयमष्टाङ्गो योग उक्तो विमुक्तये ।कर्म्मणा मनसा वाचा सर्व्वभूतेषु सर्व्वदा
अक्लेशजननं प्रोक्तं भूतानां यदहिंसनम् ।अहिंसा परमो धर्म्मो ह्यहिंसा परमं सुखम्
विधिना या भवेद्धिंसा त्वहिंसा सा प्रकीर्त्तिता ।यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्व्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ।एवं सर्व्वं हि हिंसायां धर्म्मार्थमपिधीयते
यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणम् ।सत्यं ब्रूयात् प्रियं ब्रूयात् ब्रूयात् सत्यमप्रियम्
प्रियञ्च नानृतं ब्रूयात एष धर्म्मः सनातनः ।यत्र द्रव्यापहरणं चौर्य्याद्वाथ बलेन वा
स्तेयं तस्यानाचरणमस्तेयं धर्म्मसाधनम् ।कर्म्मणा मनसा वाचा सर्व्वावस्थासु सर्व्वदा
सर्व्वत्र मैथुनत्यागं ब्रह्मचर्य्यं प्रचक्षते ।द्रव्याणामप्यनादानमापत्स्वपि यथेच्छया
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्ज्जयेत् ।द्विधा शौचं मृज्जलाभ्यां बाह्यं भावादथान्तरम्
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ।मनसश्चेन्द्रियाणाञ्च ऐकाग्रं परमं तपः
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ।वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ।स्तुतिस्मरणपूजादिवाङ्मनःकायकर्म्मभिः
सुनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।प्राणापाननिरोधस्तु प्राणायाम उपस्थितः
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।नियमः प्रोच्यते सद्भिः प्रत्याहारस्तु पाण्डव !
मूर्त्तामूर्त्तब्रह्मरूपचिन्तनं ध्यानमुच्यते ।योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत्
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायुतम् ।नाले चाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतम्
सकर्णिके केशराले सूर्य्यसोमाग्निमण्डलम् ।अग्निमण्डलमध्यस्थो वासुदेवश्चतुर्भुजः
शङ्खचक्रगदापद्मयुक्तः कौस्तुभसंयुतः ।वनमाली कौस्तुभेन युतोऽहं ब्रह्ममुक्त ओम्
धारणेत्युच्यते चेयं धार्य्यते यन्मनोमये ।प्राङ्नाभ्यां हृदये चानु तृतीया तथोरसि
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु ।किञ्चित्तस्मात् परस्मिंश्च धारणादेशकीर्त्तिताः
अहं ब्रह्मेत्यवस्थानं समाधिरभिधीयते ।एकाकारः समाधिः स्याद्देशलक्षणवर्ज्जितः
”इति गारुडे २३४ अध्यायः
*
श्रीभगवानुवाच ।“ब्रह्मगीतां प्रवक्ष्यामि यां ज्ञात्वा मुच्यते भवान् ।अहं ब्रह्मास्मीति वाक्याज्ज्ञानान्मोक्षो भवे-न्नृणाम्
वाक्यज्ञानं भवेज्ज्ञानादहंब्रह्मपदार्थयोः ।पदद्वयार्थौ द्विविधौ वाच्यौ लक्ष्यौ स्मृतौ बुधैः
वाच्यौ दशबलौ ज्ञेयौ लक्ष्यौ शुद्धौ प्रकीर्त्तितौ ।प्राणपिण्डात्मकार्य्येण चेतनं शरणन्तु यत्
तथा वै देवपर्य्यन्तमहं शब्देन नोच्यते ।प्रत्यग्रूपमद्बितीयमहं शब्देन भण्यते ।अद्वयानन्दचैतन्यं परोक्षसहितं परम् ।प्राणपिण्डात्मकापार्थसद्वितीयविभागकम्
त्यागेन प्रत्यक्चैतन्यभागो लक्ष्येत चाहमा ।तथा ब्रह्मपदेनैव प्राणपिण्डात्मकारणा
विद्यापरोक्षभागे परित्यागे लक्ष्यते ।अद्वयानन्दचैतन्यभाग एवं विचिन्तयेत्
अहंपदेन चैतन्यप्रत्यग्ब्रह्मपदेन तु ।अद्वयानन्दचैतन्यं लक्षयित्वा स्थितस्य
ब्रह्माहमस्म्यहं ब्रह्म अहंब्रह्मपदार्थयोः ।अहं ब्रह्मास्मि वाक्याच्च आत्मभूतिफलात्मकम्
एकत्वज्ञानञ्च भवेद्वेदान्ताद्गुरुतो ध्रुवम् ।ज्ञानादज्ञानताकार्य्यनिवृत्तेर्भुक्त एकतः
”इति गारुडे २३५ अध्यायः
*
श्रीभगवानुवाच ।“सम्मायिब्रह्मतः खं स्यात् खान्मरुत्वांस्ततोऽनलःअग्नेरापस्ततः पृथ्वी प्रपञ्चीकृतभूतकम्
ततः सप्तदशं लिङ्गं पञ्च कर्म्मेन्द्रियाणि ।वाक्पाणिपादं पायुश्च उपस्थमथ धीन्द्रियम्
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात् पञ्च वायवः ।प्राणोऽपानः समानश्च व्यानस्तूदान एव
मनो धीरन्तःकरणं स्यान्मनः संशयात्मकम् ।बुद्धिनिश्चयरूपा तु एतत्सूक्ष्मशरीरकम्
हिरण्यगर्भमात्मीयं भूततत्कार्य्यलिङ्गकम् ।पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ।लोकप्रसिद्धं स्थूलाक्षं शरीरचरणादिमत्
पञ्चीकृतानि भूतानि तत्कार्य्यञ्चाहमेव ।सर्व्वं शरीरजातञ्च प्राणिनां स्थूलमीरितम्
तीरादुपरतात्मानः शरीरं प्रोच्यते बुधैः ।देहद्वयाभिमानी त्वमथो जीव एकतः
सच्छब्दवाच्यं ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ।जलार्क्कवद्घटखवज्जीवः प्राणादिधारणात्
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स्मृतः ।जाग्रत्स्वप्नसुषुप्ताख्यैर्व्यतिरिक्तश्च निर्गुणःनिर्गतावयवोत्सर्गो नित्यशुद्धस्वभावकः ।परमात्मैव सज्जाग्रत्खप्नादौ सन्निधानतःअन्तःकरणरागैश्च अन्तःकरणसंस्थितः ।जाग्रत्स्वप्नसुषुप्तीश्च पश्यतोऽविकृतः सदा
फलं क्रियाकारकयोर्ज्जाग्रदादीन् वदाम्यहम् ।इन्द्रियैरनुविज्ञानं जाग्रत्स्थानमुदीरितम्
जाग्रत्संस्कारसम्भूतः प्रत्ययो विषयान्वितः ।स्वप्नं प्रसुप्तिशरणोपसंहारोऽधिपः स्थितः
ब्रह्मकारणरूपेण वटस्य कणिकात्मना ।क्रमते क्रमतो जीवो जाग्रदादीन् पश्यति
समाध्यारम्भकाले तु पूर्व्वमेवावधारयेत् ।मुमुक्षुः पश्चात् संजाते अन्तःकरणनिश्चले
विलापयेत् क्षेत्रजातं क्षेत्रज्ञं परिशेषयेत् ।पञ्चीकृतेभ्यो भूतेभ्यः अण्डादिव्यतिरिक्तकम्
यथा मृदो घटो भिन्नो नास्ति तत्कार्य्यतस्तथा ।पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः
समष्टिव्यतिरेकेण शिष्टं सूक्ष्मशरीरकम् ।अपञ्चीकृतभूतेभ्यो लिङ्गं व्यतिरिक्तकम्
पृथ्वीवारि विना नास्ति वारि नास्ति तेजसा ।तेजश्च वायुना नास्ति वायुः खेन विना हि
सटब्रह्मणा खं नास्ति शुद्धब्रह्म विना सत् ।शुद्धभावात्तथा जाग्रत्स्वप्नादीनामसम्भवे
जीवत्ववर्ज्जितः प्रत्यगात्मा वै तनुरूपकः ।नित्यशुद्धबुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम्
तत्त्वंपदार्थौ शिष्टौ तत्राकारो ब्रह्मकारकः ।उकारश्च अकारश्च मकारोऽहं दृगद्वयः
ब्रह्माहमस्म्यहं ब्रह्म ज्ञानमज्ञानमर्द्दनम् ।अयमात्मा ब्रह्मज्योतिर्विज्ञानानन्दरूपकम्
सत्यज्ञानमनन्तः तत्त्वमसि श्रुतीरितम् ।अहं ब्रह्मास्मि ब्रह्माहं सर्व्वप्राणिषु सर्व्वगम्
योऽसावादित्यपुरुषः सोऽसावहमनादिमत् ।गीतासारोऽर्ज्जुनायोक्तो येन ब्रह्मणि वै लयः
”इत्यादिमहापुराणे गारुडे गीतासारे २३६अध्यायः