| YouTube Channel

गिरिजामलं (girijAmalaM)

 
शब्दकल्पद्रुमः
Sanskrit
गिरिजामलं,
क्ली,
(गिरौ पर्व्वते अभ्रे अभ्ररवादि-त्यर्थः जायते इति जन् + डः गिरिजम् तद-मति गच्छति अम् + कलच् यद्वा, गिरिजेषुअमलं ।) अभ्रकम् इत्यमरटीकायां रायसुकुटः
(अभ्ररवजातत्वे प्रमाणं यथा, भावप्रकाशे ।“पुरा वधाय विप्रस्य वज्रिणा वज्रमुद्धृतम् ।विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् ।तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम्
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात्
”अभ्रकशब्देऽस्य विवरणं ज्ञातव्यम्
)