गिरिजामल (girijAmala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishगिरिजामल - girijAmala - - talc
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishShabdartha Kaustubha
Kannadaगिरिजामल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಭ್ರಕ /ಕಾಗೆ ಬಂಗಾರ
व्युत्पत्तिः - > गिरिजायाः बीजरूपं मलम्
शब्दकल्पद्रुमः
Sanskritगिरिजामलं, (गिरौ पर्व्वते अभ्रे अभ्ररवादि-त्यर्थः जायते इति । जन् + डः । गिरिजम् । तद-मति गच्छति । अम् + कलच् । यद्वा, गिरिजेषुअमलं ।) अभ्रकम् । इत्यमरटीकायां रायसुकुटः ॥
(अभ्ररवजातत्वे प्रमाणं यथा, भावप्रकाशे ।“पुरा वधाय विप्रस्य वज्रिणा वज्रमुद्धृतम् ।विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् ।तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् ॥
”अभ्रकशब्देऽस्य विवरणं ज्ञातव्यम् ॥
)
वाचस्पत्यम्
Sanskritगिरिजामल गिरौ पर्वते मेघे घनरवे वा जायते जन-ड, तेषु अमलम्, तथाभूतञ्च तदमलञ्च, गिरिजायाःपार्वत्या वीजरूपं मलं वा । १ अभ्रके तस्य यथा चपार्वतीवीजजातत्वं तथा अभ्रकशब्दे ३१५ पृ० उक्तम्भावप्र० तस्यान्यथोत्पत्तिभेदादिकमक्तं यथा“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः । त निपेतुर्घन-ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समुत्पन्नंतत्तद्गिरिषु चाभ्रकम् । तद्वज्रं वज्रजातत्प दभ्रम-भ्ररवोद्भवात् । गगनान् स्खलितं यस्माद् गगनञ्चततो मतम् । विप्रक्षत्रियविट्शूद्रभेदात्तत् स्याच्चतु-र्विवम् । क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः ।प्रशस्यते सितन्तारे रक्तं तत्तु रसायने । पीतं हेमनि-कृष्णन्तु गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागंवज्रञ्चेति चतुर्विधम् । भुञ्चत्यग्नौ विनिक्षिप्तं पिना-कन्दलसञ्चयम् । अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरं-ध्वनिम । गोलकान् बहुशः कृत्वां स खान्मृत्युप्रदायकः । नागन्तु नागवद् वह्नौ फुत्कारं परिमुञ्चति ।तद्भक्षितमवश्यन्तु विदधाति भगन्दरम् । वज्रन्तु वज्र-वत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् । सर्वाभ्रेषु वरं वज्रंव्याधिवार्द्धक्यमृत्युहृत् । अभ्रमुत्तरशैलोत्थं बहुसत्वंगुणाधिकम् । दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुण-पदम् । अभ्रं कषायं मधुरं सुशीतमायुष्करं धातु-विवर्द्धनञ्च । हन्यात् त्रिदोषं ब्रणमेहकुष्ठप्लीहो-दरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढयति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याद्यं रमयति शतं योषतांनित्यमेव । दीर्घायुष्कान् जनयति सुतान् विक्रमैःसिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानंमृताभ्रम्” । अभ्रशब्दे अनुक्तास्तद्गुणादिभेदा इहोक्ताः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
