गाहू (gAhU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaगाहू - विलोडने (भ्वा० आत्म० सक० से०) गाहते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರವೇಶಿಸು /ಒಳಕ್ಕೆ ಹೋಗು
गाहू - विलोडने (भ्वा० आत्म० सक० से०) गाहते ।
पदविभागः - > धातुः
कन्नडार्थः - > ನೀರಿನಲ್ಲಿ ಮುಳುಗಿ ಸ್ನಾನ ಮಾಡು
गाहू - विलोडने (भ्वा० आत्म० सक० से०) गाहते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದು /ಪಡೆ
प्रयोगाः - > "अगाहताष्टदशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्"
उल्लेखाः - > नैष० १-५
धातुपाठः (Krishnacharya)
Sanskrit गाह्
गाहू
विलोडने
भ्वादिः
सकर्मकः
वेट्
आत्मनेपदी
गाहते
धातुप्रदीपः
Sanskritगाहूँ गाहू विलोडने
- गाहते । जगाहे । गाहिष्यते ।घाक्ष्यते । अगाहिष्ट ।अगाढ । विगाढा ।विगाहिता । विगाढम् ।विगाहः।। 650।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritगाहूँ गाहू विलोडने
-(अर्थविवरणम्) विलोडनं परिमलनम्
गाहलेऽम्भः गाढा, गाहिता गाढः 630
धातुवृत्तिः
Sanskritगाहूँ गाहू (अर्थः) विलोडने
( गाहते जगाहे जघाक्षे ) "थासः से'' झलि "हो ढः'' इति ढत्वे भष्भावे कत्वम् ध्वमि ढत्वभष्भावयोः ष्टुत्वे ढलोपः क्रादिनियमस्य प्रतिषिद्धविषयत्वादिट्पक्षे ( जगाहिथेत्यादि गाढा गाहिता घाक्ष्ये गाहिष्यते गाहताम् अगाहत गाहेत गाहिषीष्ट अगाढ अघाक्षाताम् अघाक्षत अगाढाः अघाढ्वम् अघाक्षि ) झलादौ सिज्लोपे ढत्वषत्वष्टुत्वढलोपाः प्रत्ययलक्षणेन सादिप्रत्ययपरत्वाद्भषभावो नाशङ्क्यः सिज्लोपस्य प्रत्ययलक्षणे पूर्वत्रासिद्धत्वात् अत एवासिद्धत्वात्सिज्लोपात्पूर्वं न भष्भावः, ध्वमि तु परत्वादृभष्भावः इट्पक्षे ( अगाहिष्टेत्यादि जिघाक्षते जिगाहिषते जागाह्यते जागाढि गाहयति अजीगहत गाही गह्वरम् ) धित्वरेत्यादिक्वरचि ह्रस्वो निपात्यते उणादिवृत्तौ तु गाधतेर्निपातनमुक्तम् गहनं करोति गहनायते "सत्रकक्ष '' इत्यनेन कण्वचिकीर्षायां क्यङ् कण्वं पापं, सत्रादयश्च वृत्तौ पापवचना इति हरदत्तादिभिरुक्तमत्रैव वार्त्तिके निर्द्देशात् ल्युटि ह्रस्वः, गहे भवं ( गहीयम् ) "गहादिभ्यश्च'' इति शैषिकोऽत्र छः गह इति निर्देशादचि ह्रस्वः 640
कृदन्तरूपमाला
Sanskrit1 {@“गाहू विलोडने”@} 2 विलोडनम् = क्षोभणम्।
‘विलोडनम् = परिमलनम्।’ इति क्षीरस्वामी।
3 गाहकः-हिका, गाहकः-हिका, 4 जिगाहिषकः-षिका-जिघाक्षकः-क्षिका, जागाहकः-हिका
गाहिता-त्री 5 विगाढा 6 -ढ्री, गाहयिता-त्री, जिगाहिषिता-जिघाक्षिता-त्री, जागाहिता-त्री
-- गाहयन्-न्ती, गाहयिष्यन्-न्ती-ती
-- गाहमानः, गाहयमानः, जिगाहिषमाणः-जिघाक्षमाणः, जागाह्यमानः
गाहिष्यमाणः- 7 घाक्ष्यमाणः, गाहयिष्यमाणः, जिगाहिषिष्यमाणः-जिघाक्षिष्यमाणः, जागाहिष्यमाणः
8 सुघाट्-सुघाड्-सुगाहौ-सुगाहः
-- -- 9 गाढम्-ढः-ढवान्, गाहितः, जिगाहिषितः-जिघाक्षितः, जागाहितः-तवान्
10 गहः-गहा, गाहः- 11 गाही, 12 गाहनः, 13 अवगाही, गाहः, जिगाहिषुः-जिघाक्षुः, जागाहः
गाहितव्यम्-गाढव्यम्, गाहयितव्यम्, जिगाहिषितव्यम्-जिघाक्षितव्यम्, जागाहितव्यम्
गाहनीयम्, गाहनीयम्, जिगाहिषणीयम्-जिघाक्षणीयम्, जागाहनीयम्
गाह्यम्, गाह्यम्, जिगाहिष्यम्-जिघाक्ष्यम्, जागाह्यम्
ईषद्गाहः-दुर्गाहः-सुगाहः
-- -- अवगाह्यमानः, गाह्यमानः, जिगाहिष्यमाणः-जिघाक्ष्यमाणः, जागाह्यमानः
14 गाहः, अवगाहः, गाहः, जिगाहिषः-जिघाक्षः, जागाहः
विगाहितुम्-गाढुम्, गाहयितुम्, जिगाहिषितुम्-जिघाक्षितुम्, जागाहितुम्
15 गाहा, गाहना, जिगाहिषा-जिघाक्षा, जागाहा
गाहनम्- 16 गहनम्, गाहनम्, जिगाहिषणम्-जिघाक्षणम्, जागाहनम्
गाहित्वा-गाढ्वा, गाहयित्वा, जिगाहिषित्वा-जिघाक्षित्वा, जागाहित्वा
अवगाह्य, अवगाह्य, विजिगाहिष्य-विजिघाक्ष्य, विजागाह्य
गाहम् २, गाहित्वा २ -गाढ्वा २, गाहम् २, गाहयित्वा २, जिगाहिषम् २ -जिघाक्षम् २, जिगाहिषित्वा २ -जिघाक्षित्वा २, जागाहम् २
जागाहित्वा २
17 गह्वरम्।
01 (३९५)
02 (१-भ्वादिः-६४९। सक। वेट्। आत्म।)
03 [पृष्ठम्०३८७+ २५]
04 [[१। धातोरस्य ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वा इट्। इडभावपक्षे--हकारस्य ढत्वे, गकारस्य भष्भावे, ‘षढोः कः सि’ (८-२-४१) इति कत्वे, षत्वे च जिघाक्षकः इति रूपम्। इडभावपक्षे सनि सर्वत्र एवमेव प्रक्रिया ज्ञेया।]]
05 [[आ। ‘विगाढारं वनस्यासौ शत्रूणां गाहिता कपिः। अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम्।।’ भ। का। ९-२९।]]
06 [[२। इडभावपक्षे--ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घाः। एवमिडभावपक्षे तव्यदादिषु ज्ञेयम्।]]
07 [[३। इडभावपक्षे--ढत्व-भष्भाव-कत्व-षत्वेषु रूपमेवम्।]]
08 [[४। ढत्व-भष्भाव-चर्त्वेषु रूपम्।]]
09 [[५। ऊदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
10 [[६। ‘गहादिभ्यश्च’ (४-२-१३८) इति निपातनात् पचाद्यचि उपधायाः ह्रस्वे, साधुः।]]
11 [[७। ‘गाहट्’ इति पचादिषु (३-१-१३४) पाठात् टित्त्वेन स्त्रियां ङीप्।]]
12 [[८। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिके युचि अनादेशः।]]
13 [[९। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14 [पृष्ठम्०३८८+ २२]
15 [[१। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारप्रत्ययः।]]
16 [[२। ‘कृच्छ्रगहनयोः कषः’ (७-२-२२), ‘सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्’ (वा। ३-१-१४) इति सूत्रवार्तिकनिर्देशात् ल्युटि उपधाया ह्रस्वो भवति।]]
17 [[३। ‘छित्वरगह्वर--’ (द। उ। ८-४९।) इति निपातनात् क्वरचि उपधाह्रस्वः। इति मा। धा। वृत्तिः। गह्वरम् = गहनम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
