| YouTube Channel

गाहयन्-न्ती (gAhayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गाहू विलोडने”@} 2 विलोडनम् = क्षोभणम्।
‘विलोडनम् = परिमलनम्।’ इति क्षीरस्वामी।
3 गाहकः-हिका, गाहकः-हिका, 4 जिगाहिषकः-षिका-जिघाक्षकः-क्षिका, जागाहकः-हिका
गाहिता-त्री 5 विगाढा 6 -ढ्री, गाहयिता-त्री, जिगाहिषिता-जिघाक्षिता-त्री, जागाहिता-त्री
-- गाहयन्-न्ती, गाहयिष्यन्-न्ती-ती
-- गाहमानः, गाहयमानः, जिगाहिषमाणः-जिघाक्षमाणः, जागाह्यमानः
गाहिष्यमाणः- 7 घाक्ष्यमाणः, गाहयिष्यमाणः, जिगाहिषिष्यमाणः-जिघाक्षिष्यमाणः, जागाहिष्यमाणः
8 सुघाट्-सुघाड्-सुगाहौ-सुगाहः
-- -- 9 गाढम्-ढः-ढवान्, गाहितः, जिगाहिषितः-जिघाक्षितः, जागाहितः-तवान्
10 गहः-गहा, गाहः- 11 गाही, 12 गाहनः, 13 अवगाही, गाहः, जिगाहिषुः-जिघाक्षुः, जागाहः
गाहितव्यम्-गाढव्यम्, गाहयितव्यम्, जिगाहिषितव्यम्-जिघाक्षितव्यम्, जागाहितव्यम्
गाहनीयम्, गाहनीयम्, जिगाहिषणीयम्-जिघाक्षणीयम्, जागाहनीयम्
गाह्यम्, गाह्यम्, जिगाहिष्यम्-जिघाक्ष्यम्, जागाह्यम्
ईषद्गाहः-दुर्गाहः-सुगाहः
-- -- अवगाह्यमानः, गाह्यमानः, जिगाहिष्यमाणः-जिघाक्ष्यमाणः, जागाह्यमानः
14 गाहः, अवगाहः, गाहः, जिगाहिषः-जिघाक्षः, जागाहः
विगाहितुम्-गाढुम्, गाहयितुम्, जिगाहिषितुम्-जिघाक्षितुम्, जागाहितुम्
15 गाहा, गाहना, जिगाहिषा-जिघाक्षा, जागाहा
गाहनम्- 16 गहनम्, गाहनम्, जिगाहिषणम्-जिघाक्षणम्, जागाहनम्
गाहित्वा-गाढ्वा, गाहयित्वा, जिगाहिषित्वा-जिघाक्षित्वा, जागाहित्वा
अवगाह्य, अवगाह्य, विजिगाहिष्य-विजिघाक्ष्य, विजागाह्य
गाहम् २, गाहित्वा -गाढ्वा २, गाहम् २, गाहयित्वा २, जिगाहिषम् -जिघाक्षम् २, जिगाहिषित्वा -जिघाक्षित्वा २, जागाहम्
जागाहित्वा
17 गह्वरम्।
प्रासङ्गिक्यः
01
=>
(३९५)
02
=>
(१-भ्वादिः-६४९। सक। वेट्। आत्म।)
03
=>
[पृष्ठम्०३८७+ २५]
04
=>
[[१। धातोरस्य ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वा इट्। इडभावपक्षे--हकारस्य ढत्वे, गकारस्य भष्भावे, ‘षढोः कः सि’ (८-२-४१) इति कत्वे, षत्वे जिघाक्षकः इति रूपम्। इडभावपक्षे सनि सर्वत्र एवमेव प्रक्रिया ज्ञेया।]]
05
=>
[[आ। ‘विगाढारं वनस्यासौ शत्रूणां गाहिता कपिः। अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम्।।’ भ। का। ९-२९।]]
06
=>
[[२। इडभावपक्षे--ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घाः। एवमिडभावपक्षे तव्यदादिषु ज्ञेयम्।]]
07
=>
[[३। इडभावपक्षे--ढत्व-भष्भाव-कत्व-षत्वेषु रूपमेवम्।]]
08
=>
[[४। ढत्व-भष्भाव-चर्त्वेषु रूपम्।]]
09
=>
[[५। ऊदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
10
=>
[[६। ‘गहादिभ्यश्च’ (४-२-१३८) इति निपातनात् पचाद्यचि उपधायाः ह्रस्वे, साधुः।]]
11
=>
[[७। ‘गाहट्’ इति पचादिषु (३-१-१३४) पाठात् टित्त्वेन स्त्रियां ङीप्।]]
12
=>
[[८। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिके युचि अनादेशः।]]
13
=>
[[९। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14
=>
[पृष्ठम्०३८८+ २२]
15
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारप्रत्ययः।]]
16
=>
[[२। ‘कृच्छ्रगहनयोः कषः’ (७-२-२२), ‘सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्’ (वा। ३-१-१४) इति सूत्रवार्तिकनिर्देशात् ल्युटि उपधाया ह्रस्वो भवति।]]
17
=>
[[३। ‘छित्वरगह्वर--’ (द। उ। ८-४९।) इति निपातनात् क्वरचि उपधाह्रस्वः। इति मा। धा। वृत्तिः। गह्वरम् = गहनम्।]]