| YouTube Channel

गारुडं (gAruDaM)

 
शब्दकल्पद्रुमः
Sanskrit
गारुडं,
क्ली,
(गरुडस्य इदमिति गरुड + अण्वृद्धिश्च यद्वा, गरुडं श्रोतारमालम्ब्य भगवतायदुपदिष्टम् यद्बा, गरुडेन प्रोक्तमिति तन्नि-रुक्तिरुक्ता शिवपुराणे यथा, --“गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ।”)गरुडपुराणम् इति पुराणम्
यथा, --गरुड उवाच ।“मम माता विनता नागैर्दासीकृता हरे ! ।यथाहं दैवतान् जित्वा चामृतं ह्यानयामि तत्
दास्याद्धि मोक्षयिष्यामि यथाह्रं वाहनं तव ।महाबलो महावीर्य्यः सर्व्वज्ञो नागदारणः ।पुराणसंहिताकर्त्ता यथाहं स्यां तथा कुरु
विष्णुरुवाच ।यथा त्वयोक्तं गरुड ! तथा सर्व्वम्भविष्यति ।देवादीन् सकलान् जित्वा चामृतं ह्यानयिष्यसि
नागदास्यान्मातरं स्वां विनतां मोक्षयिष्यसि ।महाबलो वाहनन्त्वं भविष्यसि विषार्द्दनः
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ।यदुक्तं मत्स्वरूपञ्च तव चाविर्भविष्यति
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ।यथाहं देवदेवानां श्रीः ख्याता विनतासुत !
तथा ख्यातिं पुराणेषु गारुडं गरुडैष्यति ।यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ।इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते
कश्यपो गरुडं स्तुत्वा वृक्षं दग्धमजीवयत् ।स्वयञ्चाप्यमलो भूत्वा विद्ययान्यानजीवयत्
पक्षी ओम् तं स्वाहा जापी विद्येयं गारुडीपरा ।गरुडोऽहं गारुडं हि शृणु रुद्र ! महात्मकम्
”इत्याद्ये महापुराणे गारुडे प्रश्नाध्यायो नामद्बितीयः
*
(अस्मिन् पुराणे एकोनविंशत्-सहस्रसंख्यकश्लोका वर्त्तन्ते यथा, देवीभाग-वते ११ ।“एकोनविंशत् साहस्रं गारुडं हरिभाषितम्
”अस्य विणेषविवरणन्तु पुराणशब्दे द्रष्टव्यम्
*
)गारुडी विद्या गरुडपुराणे २०२ अध्यायादौद्रष्टव्या
स्वर्णम् इति हेमचन्द्रः
विषमन्त्रः ।इति जटाधरः
(गरुडः गरुडवर्णस्तस्येदम् ।नरुड + अण् गरुडवर्ण इव वर्णोऽस्येति भावः ।)मरकतमणिः इति राजनिर्घण्टः
(यथा-रघौ १३ ५३ ।“त्वया पुरस्तादुपयाचितो यःसोऽयं वटः श्याम इति प्रतीतः ।राशिर्मणीनामिव गारुडानांसपद्मरागः फलितो विभाति
”गरुडाकारेण सेनारचनयाधिष्ठितत्वात् महा-व्यूहभेदः यथा, महाभारते ५३ ।“गारुडञ्च महाव्यूहं चक्रे शान्तनवस्तदा
”एतस्य रचनायां गरुडाकृतित्वविवृतिर्यथा, तत्रैवाध्याये ३--८ ।“गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।चक्षुषी भरद्वाजः कृतवर्म्मा सात्त्वतः
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ ।त्रिगर्त्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतैः
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ! ।मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।पृष्ठे दुर्य्योधनो राजा सोदर्य्यैः सानुगैर्वृतः
विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह ।पुच्छमासन् महाराज ! शूरसेनाश्च मारिष !
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ।कारूषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा
बृहद्बलेन सहिता वामपार्श्वे समास्थिताः
”कदा वास्य व्यूहस्य प्रयोजनं तदाह मनुः ।७ १८६--१८७ ।“शत्रुसेविनि मित्रे गूढे युक्ततरो भवेत् ।गतप्रत्यागते चैव हि कष्टतरो रिपुः
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।वराहमकराभ्यां वा सूच्या वा गरुडेन वा
”“सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः ।एष एव पृथुतरमध्यो गरुडव्यूहः
इति तट्टीका-कृत् कुल्लूकभट्टः
)