| YouTube Channel

गारकः-रिका-गालकः-लिका (gArakaH-rikA-gAlakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गॄ शब्दे”@} 2 प्वादिः ल्वादिश्च।
‘ज्ञाने गारयते, गिरेन्निगरणे, शब्दे गृणाति त्रयम् युक्तं, ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि।’ 3 इति देवः।
4 गारकः-रिका-गालकः-लिका, गारकः-रिका-गालकः-लिका, जिगरिषकः- जिगरीषकः-जिगलिषकः-जिगलीषकः-षिका, जेगिरकः-रिका-जेगिलकः-लिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकगॄ धातुवत् 5 बोध्यानि।।
6 गृणन्- 7 ती।
अस्य धातोः सन्नन्ते सर्वत्र इडागमस्य ‘वॄतो वा’ 8 इति दीर्घः भवत्येव।
‘अवाद् ग्रः’ इत्यत्र अस्य ग्रहणम्।
‘अवपूर्वो गृणातिः प्रयुज्यते 9 इति भाष्यात्।
अस्माद् घातोः यङ्प्रत्ययः नोत्पद्यते, अनभिधानात् इति 10 काशिका।।
प्रासङ्गिक्यः
01
=>
(४२८)
02
=>
(९-क्र्यादिः-१४९८। अक। सेट्। पर।)
03
=>
(श्लो। ३३)
04
=>
[पृष्ठम्०४२२+ २७]
05
=>
(४२७)
06
=>
[[१। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्त- योरातः’ (६-४-११२) इत्याकारलोपः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति शिति परे ह्रस्वः। णत्वम्। उगित्त्वेन स्त्रियां ङीप्।]]
07
=>
[[आ। ‘इत्थं हरौ गृणति हस्तिपकोऽपि कोपी जीनोऽष्यहं तु रिणामि भियेति वादी।’ धा। का। ३-८।]]
08
=>
(७-२-३८)
09
=>
(१-३-५१)
10
=>
(८-२-२०)