गायत्त्री (gAyattrI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritगायत्त्री, [न्] (गायन्तं त्रायते इति । गायत्+ त्रै + णिनिः । आलोपात् साधुः ।) खद्रिर-वृक्षः । इति भरतः ॥
(खदिरशब्दे गुणादिकंज्ञेयम् ॥
गायत्त्रं स्तोत्रमस्यास्तीति गायत्त्र +“अत इनिठनौ ।” ५ । २ । ११५ । इतिइनिः । उद्गातरि सामगायके त्रि । यथा, ऋग्वेदे । १ । १० । १ ।“गायन्ति त्वा गायत्त्रिणोर्च्चन्त्यर्कमर्किणः ॥
”)
गायत्त्री, (गायन्तं त्रायते इति । त्रै ङ पालने+ “आतोऽनुपसर्गे कः ।” ३ । २ । ३ इति कः ।ततो गौरादित्वात् ङीष् ।) स्वदिरवृक्षः । इत्य-मरः । २ । ४ । ४९ ॥
(यथा, वैद्यके बृहन्मञ्जि-ष्ठादिक्वाथे ।“मूर्व्वादारुकनिङ्गभृङ्गमगधा त्रायन्ति पाठावरीगायत्त्री त्रिफलाकिरातकमहानिम्बासनारग्ब-धम् ॥
”)षडक्षरच्छन्दोविशेषः । तस्यावृत्तिस्त्रिविधायथा । तनुमध्या १ शशिवदना २ सोमराजी ३ ।आद्यायाः आद्यन्तयोर्गुरुद्वये मध्ये लघुद्वयम् ॥
द्वितीयायाः आदिमध्ययोर्लघुद्वये अन्ते गुरु-द्वयम् ॥
तृतीयायाः आदिमध्ययोर्लघुगुरू मुरु-लघू अन्ते गुरुद्वयम् ॥
क्रमेणोदाहरणानि यथा ।आस्तां मम चित्ते नित्यं तनुमध्या ॥
१ ॥
शशि-वदनानां व्रजतरुणीनाम् ॥
२ ॥
हरे सोमराजीसमा ते यशःश्रीः ॥
३ ॥
इति छन्दोमञ्जरी ॥
* ॥
दुर्गा । यथा, --“गायनाद्गमनाद्वापि गायत्त्री त्रिदशार्च्चिता ।साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ॥
”इति देवीपुराणे देवीनिरुक्तनाम ४५ आध्यायः ॥
(सा च गायत्त्रीरूपेण ब्रह्मण्येव वर्त्तते । यथा, देवीभागते । ७ । ३० । ८१ ।“गायत्त्री वेदवदने पार्व्वती शिवसन्निधौ ॥
” * ॥
गङ्गा । यथा, काशीखण्डे । २९ । ५३ ।“गुणनीयचरित्रा च गायत्त्री गिरिशप्रिया ॥
”)त्रिपदा देवी । इति मेदिनी । रे । १५० ॥
सातु त्रिपादष्टाक्षरच्छन्दोयुक्तमन्त्रात्मिका वेद-माता द्विजैरुपास्या । (यथाह मनुः । २ ।७७--७८ ।“त्रिभ्य एव तु बेदेभ्यः पादं पादमदूदुहत् ।तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥
एतदक्षरमेकाञ्च जपन् व्याहृतिपूर्व्विकाम् ।सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥
”इयमेव सव्याहृतिका ब्रह्मपदप्राप्तेर्द्वाररूपं तस्मात्प्रत्यहं ब्राह्मणैर्व्याहृतिपूर्व्विकेयं अध्ययनीया ।यदुक्तं तत्रैव । २ । ८१--८३ ।“ओङ्कारपूर्व्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥
योऽधीतेऽहन्यहन्येतान्त्रीणि वर्षाण्यतन्द्रितः ।स ब्रह्म परमभ्येति वायुभूतः खमूर्त्तिमान् ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परन्तपः ।सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशि-ष्यते ॥
”)तस्या नामव्युत्पत्तिर्यथा, स्मृतौ ।“गायन्तं त्रायते यस्मात् गायत्त्री त्वं ततः स्मृता ॥
”सापि ब्रह्मणः पत्नी । यथा, --“अध्वर्य्युणा समाहूता एहि देवि ! त्वरान्विता ।उद्धृताश्चाग्नयः सर्व्वे दीक्षाकालमुपागताः ॥
सावित्र्युवाच ।लक्ष्मीर्नाद्यापि चायाति सती नैवेह दृश्यते ।बृहदाग्रायणे हूता शक्राणी गच्छती त्विह ।नाहमेकाकिनी यास्ये यावन्नायान्ति ताः स्त्रियः ॥
ब्रूहि गत्वा विरिञ्चिन्तं तिष्ठत्विहृ मुहूर्त्तकम् ॥
वदमानां तथाध्वर्य्युस्त्यक्त्वा देवमुपागमत् ।सावित्री व्याकुला देवी प्रसक्ता गृहकर्म्मणि ॥
सख्यो नाभ्यागता यावत् तावन्नागमनं मम ।एवमुक्तोऽस्मि वै देव ! कालश्चाप्यतिवर्त्तते ॥
यश्च योम्यं भवेदत्र तत् कुरुष्व पितामह ! ।एवमुक्ते तदा वाक्यं किञ्चित्कोपसमन्वितः ॥
पत्नीञ्चान्यां मदर्थन्तु शीघ्रं त्वञ्च समानय ।प्रवर्त्तते यथा यज्ञः कालहीनो न जायते ॥
तथा शीघ्रं विधेहि त्वं नारीं काञ्चिदुपानय ।एवमुक्तस्तथा शक्रो गत्वा सर्व्वं धरातलम् ॥
स्त्रियो दृष्टास्तु यास्तेन सर्व्वास्तास्तु परिग्रहाः ।आभीरकन्या सुरूपा सुभाषा चारुलोचना ॥
ददर्श तां सुचार्व्वङ्गीं कमलायतलोचनाम् ।कासि कस्य कुतश्च त्वमागता सुभ्रु ! कथ्यताम् ॥
एकाकिनी किमर्थञ्च वीथिमध्येऽवतिष्ठसे ।रूपान्विता च सा कन्या शक्रं प्रोवाच वेपती ॥
गोपकन्या अहं वीर ! विक्रेतुमिह गोरसम् ।समागता घृतादीनां प्रगृह्णीष्व यथेप्सितम् ॥
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम् ।आनीय तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः ॥
कमलाक्षीं स्फुरद्वाणीं पुण्डरीकनिभेक्षणाम् ।गान्धर्व्वेण तदा ब्रह्मा ग्रहीतुं मन आदघे ॥
प्रभुत्वमात्मनो दाने गोपकन्नाप्यमन्यत ।यदेवं मां सुरूपत्वादिच्छत्यादातुमाग्रहात् ॥
नास्ति सीमन्तिनी काचिन्मत्तो धन्यतरा यतः ।अनेनाहं समानीता यस्य दृग्गोचरं गता ॥
एवं चिन्तापरा दीना यावत् सा गोपकन्यका ।भवत्येषा महाभागा गायत्त्री नामतः प्रभो ! ॥
तावदेव महाविष्णुः प्रोक्तवानिदमुत्तमम् ।अनुग्रहेण देवेश ! अस्याः पाणिग्रहं कुरु ॥
गन्धर्व्वेण विवाहेन उपयेमे षितामहः ॥
” * ॥
अस्या ध्यानं यथा, --“श्वेता त्वं श्वेतरूपासि शशाङ्केन समा मता ।बिभ्रती विपुलावूरू कदलीगर्भकोमलौ ॥
एणशृङ्गं करे गृह्य पङ्कजञ्च सुनिर्म्मलम् ।वसाना-सने क्षौमे रक्ते चाद्भुतदर्शने ॥
शशिरश्मिप्रकाशेन हारेणोरसि राजसे ।दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥
चन्द्रमोगणयुक्तेन मुकुटेन विराजसे ।मुकुटेन त्रिग्रन्थेन केशबन्धेन शोभिना ॥
भुजगाभीगसदृशौ भुजौ भ्राजयतो दिशः ।स्तनौ ते कठिनौ देवि ! वर्त्तुलौ समचूचुकौ ॥
जघनेनातिशुभ्रेण त्रिवलीभिश्च संयुता ।विस्तीर्णस्पष्टजघना सुश्रोणी च वरानना ॥
चारुरूपोरुयुगला अम्बुजाभरणा तथा ।त्रैलोक्यचारिणी सा त्वं जगतामेव पावनी ॥
”अस्या वैदिकतान्त्रिकध्यानद्वयं गुह्यत्वादत्र नलिखितम् ॥
* ॥
तस्या जपफलं तत्र ब्राह्मणान्प्रति गायत्त्रीवाक्यम् ।“विशेषात् पुष्करे स्नात्वा मां जप्त्वा वेदमातरम् ।प्रतिग्रहकृतान् दोषान्न प्राप्स्यथ द्विजोत्तमाः ! ॥
मदीयैः किलजप्यैस्तु तारणाय त्रिभिः कृतैः ।ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ।त्रियुगन्तु सहस्रेण नात्र कार्य्या विचारणा ॥
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विदम् ।माताहं सर्व्ववेदानां पदैः सर्व्वैरलङ्कृता ॥
जप्त्वा मां परमां सिद्धिं यास्यन्ति द्बिजसत्तमाः ! ।प्राधान्यं मम जाप्येन सर्व्वेषां वो भविस्यति ॥
” * ॥
तस्या माहात्म्यादि यथा, --“उपलभ्य च सावित्रीं नोपतिष्ठेत यो द्विजः ।काले त्रिकालं सप्ताहात् स पतेन्नात्र संशयः ॥
गायत्त्रीमन्त्रतोयाढ्यं दत्तं येनाञ्जलित्रयम् ।काले सावित्रिकेण स्यात्तेन दत्तं जगत्त्रयम् ॥
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ! ।ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥
वाच्यवाचकसम्बन्धो गायत्त्र्याः सवितुर्द्बयोः ।वाच्योऽसौ सविता साक्षात् गायत्त्री वाचिकापरा ॥
तां देवीमुपतिष्ठन्ते ब्राह्मणा ये जितेन्द्रियाः ।सूर्य्यलोकं ते प्रयान्ति क्रमान्मुक्तिञ्च पार्थिव ! ॥
”इति पद्मपुराणम् ॥
* ॥
अथ गायत्त्रीकल्पः ।“जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् ।तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः ॥
न सीदेत् प्रतिगृह्णन् स त्वपि पृथ्वीं ससागराम् ।द्बे सन्ध्ये ह्युपतिष्ठेत गायत्त्रीं प्रयतः शुचिः ॥
यस्तस्य दुष्कृतं नास्ति पूर्व्वतः परतोऽपि वा ।यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः ॥
गायत्त्रीध्यानपूतस्य कलां नार्हति षोडशीम् ।एवं किल्विषयुक्तस्तु विनिर्द्दहति पातकम् ॥
उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः ।छन्दस्तस्यास्तु गायत्त्रं गायत्त्रीत्युच्यते ततः ॥
गायन्तं त्रायते यस्मात् गायत्त्री तु ततः स्मृता ।मरीचे ! कारणात्तस्मात् गायत्त्री कीर्त्तिता मया ॥
तव बुद्धिमतां श्रेष्ठ ! नित्यं सर्व्वेषु कर्म्मसु ।सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ॥
जपन्ति ये सदा तेषां न भयं विद्यते क्वचित् ।दशकृत्वः प्रजप्ता सा रात्र्यह्नोर्यत् कृतं लघु ॥
तत् पापं प्रणुदत्याशु नात्र कार्य्या विचारणा ।शतं जप्ता तु सा देवी पापौघशमनी स्मृता ॥
सहस्रं जप्ता सा देवी महापातकनाशिनी ।लक्षजाप्येन साप्येवं सप्त जन्मानि पातकम् ॥
कोटिजाप्येन विप्रर्षे ! यदिच्छति तदाप्नुयात् ।यक्षविद्याधरत्वे वा गान्धर्व्वे दैवतेऽपि बा ॥
यत्र यत्र भवेद्वाञ्छा तत्तदाप्नोत्यसंशयम् ।दशसाहस्रजाप्येन निष्कामः पुरुषो यदि ॥
विधिना नियतं ध्यायेत् प्राप्नोति परमं पदम् ।यथाकथञ्चिज्जपिता गायत्त्री पापहारिणी ॥
सर्व्वकामप्रदा प्रोक्ता पृथक्कर्म्मसु निष्ठिता ॥
” * ॥
मरीचिरुवाच ।“विधिना केन कर्त्तव्या गायत्त्री पापनाशिनी ।पवित्रा परमा ह्येषा सर्व्वकल्याणसाधिनी ॥
वह्निरुवाच ।सव्याहृतिं सप्रणवां जप्त्वा मासांश्च षोढश ।अपि भ्रूणहनः पापात् मुच्यन्तेऽहरहःकृतात् ॥
सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ।त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।अहोरात्रकृतात् पापात् मुच्यते नात्र संशयः ॥
अन्तर्जले त्रिरावर्त्त्य गायत्त्रीं प्रयतस्तथा ।मुच्यते पातकैः सर्व्वैर्यदि ब ब्रह्महा भवेत् ॥
नास्ति सत्यात् परो धर्म्मो नास्ति कृष्णात् समागतिः ।गायत्त्र्याश्च समं नास्ति दिवि चेह च पावनम् ॥
हुता च वरदा देवी सर्व्वकामफलप्रदा ।गायत्त्र्याश्च तिलैर्होमः सर्व्वपातकनाशनः ॥
शान्तिकामो यवैः कुर्य्यादायुष्कामो घृतेन तु ।कर्म्मान्तसिद्धिकामस्तु कुर्य्यात् सिद्धार्थकैर्नरः ॥
ब्रह्मवर्च्चसकामस्तु पयसा च समाचरेत् ।पुत्त्रकामः सदा दध्ना धान्यकामस्तु शालिभिः ॥
क्षीरवृक्षसमिद्भिस्तु ग्रहपीडोपशांन्तये ।धनकामस्तथा विल्वैः श्रीकामः कमलैस्तथा ॥
आरोम्यकामः क्षीराक्तैः कुर्य्यात् दूर्व्वाङ्कुरैस्तथा ।देशोपसर्गे संप्राप्ते तदेव च विधीयते ॥
गुग्गुलैर्गुटिकाभिस्तु कृत्वा होममतन्द्रितः ।सौभाग्यं महदाप्नोति नात्र कार्य्या विचारणा ॥
पायसेन तथा हुत्वा विद्यां समधिगच्छति ॥
” * ॥
“येन येन तु कामेन लक्षहोमं समाचरेत् ॥
तं तं काममवाप्नोति नात्र कार्य्या विचारणा ।कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥
अन्तर्जले च तां जप्त्वा स्नातो नित्यमतन्द्रितः ।प्राणायामांस्ततः कृत्वा विधानेनैव षोडश ॥
पूर्व्वाह्णे जुहुयादग्नौ सुसमिद्धे यथाविधि ।भैक्षया च कणाशी वा फलमूलाशनोऽपि वा ॥
क्षीरशक्तुघृताहारो भवेत्तत्र विचक्षणः ।आहाराणां यथोक्तानामेकाहारं समाश्रयेत् ॥
समाप्तिर्लक्षहोमस्य यावद्भवति नित्यशः ।लक्षहोमावसाने तु ब्राह्मणेभ्वस्तु दक्षिणा ॥
देया भवति शक्त्या तु गावो वरन्नाणि काञ्चनम् ।सर्व्वोत्पातसमुत्पत्तौ सर्व्वं भवति शोभनम् ॥
पञ्चभिर्दशभिर्व्वाथ लक्षहोमं समाचरेत् ।असङ्कीर्णे तथा दोषे नृपतिस्तत्प्रशान्तये ॥
नास्ति लोके स उत्पातो यो ह्यतो नोपणाम्यति ।मङ्गलञ्च परं नास्ति यदस्मादतिरिच्यते ॥
ग्रहशान्तिं पुरा कृत्वा मन्त्रैः स्वैः स्वैः शृणुष्व तान् ।इन्द्रायाग्नये सोमाय नमः प्रजापतेस्तथा ॥
व्याहृतिभ्यस्ततः पश्चात् पूर्णाहुतिमथाददेत् ।गणानान्त्वेति वा कृष्ण इमं देवेति चेन्दवे ॥
अग्निर्मूर्द्धेत्युद्बुध्यस्व बृहस्पतेति प्रयोजयेत् ।अन्नात् परिश्रुतेनैव सन्नो देवीस्ततः पुनः ॥
कया न इति राहोर्व्वै केतुं कृण्वेति केतवे ।त्र्यम्बकेन तु रौद्रन्तु होमयेज्जातवेदसि ॥
सर्व्वं गायत्त्रीहोमन्तु लक्षहोमे प्रकल्पयेत् ।दिक्पालेभ्यश्च होतव्यं भूतेभ्यश्च ततः क्रमात् ॥
मरुत्वमग्निं दूतं वै यस्मिन् वृक्षे नमामि तम् ।वरुणं वो रिशा दश वयमुत्त्वा पथस्य ते ॥
सोमं राजानमवसे ब्रह्मरुद्राय वै तथा ।क्षेत्रस्य पतिना चैव भूतानां पतये तथा ॥
रक्षोघ्नेनैव मन्त्रेण होतव्यं विधिपूर्व्वकम् ।घृताक्ताभिः समिद्भिश्च तिलहोमं ततः परम् ॥
दशैकं प्रति वा कुर्य्यादष्टाविंशतिमेव च ।एकैकं प्रति पूर्णा स्यात्तदत्र ऋषिसत्तमाः ॥
ब्रह्मवृक्षोद्भवाश्चेध्मास्तथा दूर्व्वाङ्कुरोद्भवाः ।होतव्या लक्षहोमे तु गायत्त्र्याः कामिकं परम् ॥
श्रीसूक्तं पावमानञ्च पौरुषं शाम्भवं तथा ।रौद्रमैन्द्रञ्च रामञ्च ज्येष्ठसाम बृहद्रथम् ॥
महाजपन्तु होमान्ते कुर्य्यात् वै सर्व्वसिद्धिदम् ।सम्यक् पूर्णां ततो दद्यात् सप्तते अभिमन्त्रितम् ॥
नमो ब्रह्मणेति चामन्त्र्य स्रग्विणञ्च नवं घटम् ।रन्नैर्बीजैः शुभैर्व्वस्त्रैर्हेम्ना चैव तु संयुतम् ॥
तज्जलेनाभिषिञ्चेत देवस्य त्वेति वै तदा ।धन्वनागादिभिर्मन्त्रैरभिषिञ्चेत्ततः क्रमात् ॥
एवं यः कुरुते राजा लक्षहोमं यतव्रतः ।न तस्य शत्रवः सङ्ख्ये अग्रे तिष्ठन्ति कर्हिचित् ॥
न चैव मरको देशे व्याधिर्व्वा जायते तथा ।अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ॥
राक्षसाद्या विनश्यन्ति सर्व्वास्तत्र तथेतयः ।रसवन्ति च तोयानि शस्यञ्च निरुपद्रवम् ॥
जायते यस्य या चेष्टा धर्म्मिष्ठा सा न किं भवेत् ॥
* ॥
कोटिहोमन्तु यो राजा कारयेद्विधिपूर्व्वकम् ॥
न तस्य मानसो दाह इह लोके परत्र च ।कोटिहोमे तु वरयेत् ब्राह्मणान् विंशतिं नृप ! ॥
शतं वाथ सहस्रं वा य इच्छेद्गतिमात्मनः ।कोटिहोमं स्वयं यस्तु कुरुते श्रद्धया द्विजः ॥
क्षत्त्रियो वाथ वैश्यो वा तस्य पुण्यफलं महत् ।यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम् ॥
सशरीरोऽपि चेद्गन्तुं दिवमिच्छेत्तदाप्नुयात् ।सावित्री परमा देवी सावित्री पावनं परम् ॥
सर्व्वकामप्रदा चैव सावित्री कथिता तव ।अभिचारेषु तां देवीं विपरीतां विचिन्तयेत् ॥
कार्य्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ।विपरीताक्षरं कार्य्यं शिरश्च ऋषिसत्तम् ! ॥
आदौ शिरः प्रयोक्तव्यं प्रणवोऽन्तेन वै ऋषे ! ।मतिस्थेनैव फट्कारं मध्ये नाम प्रकीर्त्तितम् ॥
गायत्त्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ।घातयन्तीं त्रिशूलेन केशेष्वाक्षिप्य वैरिणम् ॥
निद्दहन्तीं त्रिशूलेन भृकुटीभूषिताननाम् ।उच्चाटने तु तां देवीं वायुभूतां विचिन्तयेत् ॥
धावमानं तथा साध्यं तस्माद्देशात्तु दूरतः ।अभिचारेषु होतव्या राजिका विषमिश्रिताः ॥
स्वरक्तमिश्रं होतव्यं कटुतैलमथापि वा ।तत्रापिं च विषं देयं होमकाले प्रयत्नतः ॥
क्रोधेन महताविष्टः परान्नाभिचरेद्बधः ।न जह्यात् यदि क्रोधेन ध्रुवं नश्येत् स एव तु ॥
अनागसि न कर्त्तव्यमभिचारमतो बुधैः ।स्वल्पागसि न कर्त्तव्यो ह्यभिचारो महामुने ! ॥
महापराघं बलिनं देवब्राह्मणकण्टकम् ।अभिचारेण यो हन्यान्न स दोषेण लिप्यते ॥
धर्म्मप्रदाने तु तथा स्वल्पागसि तथैव च ।अभिचारं न कुर्व्वीत बहुपापं विचक्षणः ॥
बहूनां कण्टकं यस्तु पापात्मानं सुदुर्म्मतिम् ।हत्यात् प्राप्तापराधन्तु तस्य पुण्यफलं महत् ॥
ये भक्ताः पुण्डरीकाक्षे वेदयज्ञे द्विजे जने ।न तानभिचरेत् जातु तत्र तद्विफलं भवेत् ॥
न हि केशवभक्तानामभिचारेण कर्हिचित् ।विनाशमभिपद्येत तस्मात्तन्न समाचरेत् ॥
सेयं थात्री विधात्री च सावित्र्यघविनाशिनी ।प्राणायामेन जप्येन तथा चान्तर्ज्जलेन च ॥
सव्याहृतीकप्रणवा जप्तव्या शिरसा सह ।प्रणवेन तथा न्यस्ता वाच्या व्याहृतयः पृथक् ॥
दैवतं सविताप्यस्या गायत्त्रं छन्द एव च ।विश्वामित्र ऋषिश्चैव प्रोच्यते ऋषिसत्तम ! ॥
कर्म्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ।पञ्चेन्द्रियार्थाः सुमहत् भूतानां पञ्चपञ्चकम् ॥
मनो बुद्धिस्तथैवात्मा अव्यक्तमृषिसत्तम ! ।चतुर्व्विंशत्यथैतानि गायत्त्र्यास्त्वक्षराणि तु ॥
प्रागेवं पुरुषं विद्धि सङ्गतं पञ्चविंशकम् ।सप्तलोकाश्च ये चेह महाव्याहृतयस्तथा ॥
शिरश्च तत्तथा वाच्यः पुरुषः परमेश्वरः ।एवंविधा च गायत्त्री जप्तव्या राजसत्तम ! ॥
होतव्या च यथाशक्त्या सर्व्वकामसमृद्धिदा ।सावित्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥
नायन्त्रितश्चतुर्व्वेदी सर्व्वाशी सर्व्वविक्रयी ।गायत्त्रीं जपते यस्तु त्रिकालं ब्राह्मणः सदा ॥
अर्थी प्रतिग्रही वापि स गच्छेत् परमां गतिम् ।गायत्त्रीं जपते यस्तु कल्यमुत्थाय यो द्बिजः ॥
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥
”इत्याद्ये वह्निपुराणे गायत्त्रीकल्पनामाध्यायः ॥
वाचस्पत्यम्
Sanskritगाय(त्त्री)त्री स्त्री गायन्तं त्रायते त्रै--क, गीयतेऽनेनगै--घञ् यण् नि० ह्रस्वः गयः प्राणस्त त्रायते त्रै-क वा । षडक्षरपादके छन्दोभेदे “उक्ताऽत्युक्तातथा मध्या प्रतिष्ठाऽन्या सुपूर्विका । गायत्र्युष्णिगमुष्टुप्च वृहती पङ्क्तिरेव च” वृ० र० । अस्याः पादे लघुगुरु-भेदनिवेशनभेदात् चतुःषष्टिर्भेदाः । तेषां मध्ये भेद-त्रयस्य विशेषनामानि तनुमध्या शशिवदना वसुमतीतितत्रोक्तानि । इतरभेदानां तु विशेषनामाभावेऽपिऋग्वेदादौ बाहुल्येनोदाहरणात् तेषां गायत्रीछन्द-स्कत्वम् । इयांस्तु भेदः लौकिकच्छन्दसि षडक्षरपादेनचतुश्चरणता वेदे अष्टाक्षरपादत्वेन त्रिपादतया समष्ट्याचतुर्विंशाक्षरता । यथा “अग्निमीले पुरोहितम्यज्ञस्य देवतमृत्विजम् । होतार रत्नधातमम्” इत्यादौअतएव कात्या० सर्वानुक्रगणिकायां ५ अ० “अथ छन्दांसिगायत्र्युष्णिगनुष्टुब्वृहतीत्यादिना छन्दोनामान्यभि-धाय चतुर्विंशात्यक्षरादीनि चतुरुत्तराणीति गायत्र्या-दीनां समष्ट्यक्षरसंख्यामुक्त्वा “प्रथमं छन्दस्त्रिपदा गा-यत्री” इति सा लक्षिता । तेनाष्टक्षरपादतया त्रिपादत्वेचतुर्विंशाक्षरता इति । अनादेशे च सर्वासां गायत्रीच्छ-न्दस्कानामृचामग्निदेवता “अथात्र च्छन्दोदेवता गायत्र्याअग्निः” इति तत्रोक्तेः गायत्रीच्छन्दसश्च यथाऽष्टाक्षर-पादता तथा ता० व्रा० भाष्ययोर्दर्शितम् ।“साध्या वै नाम देवा आसंस्ते सर्वे यज्ञेन सहस्वर्गलोकमायंस्ते देवाश्छन्दांस्यक्रुवन् सोममाहरतेतिते जगती प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैका-क्षरा भूत्वाऽऽगच्छत्, त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वात्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश्चतुरक्षराणिवै तर्हि छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्यागच्छदष्टाक्षरा भूत्वा” ता० ब्रा० “पूर्वं साध्याख्या देवा आसन्ते सर्वे यज्ञेन सोपकरणेन सोमादिसाधनमादायैवस्वर्गं लोकमायन्नगमन् ते प्रसिद्धा वस्वादयो देवाः आदौस्वर्गसाधनयज्ञार्थसोमहरणाय छन्दांसि गायत्र्यादीनि“यूयं सोमं द्युलोकात् आहरत” इत्युक्तवन्तः तान्यपितथैवाङ्गीचक्रुरिति शेषः तथोक्तास्ते जगतीं प्राहिण्वन्अप्रैरयन् सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्ष-राणि हित्वा एकाक्षरा भूत्वा पुनर्देवानागच्छत् चतुरु-त्तराणि वै तर्हि छन्दांसि वक्ष्यति तदभिप्रायकमिदं पु-नस्ते त्रिष्टुभं प्राहिण्वन् सापि पूर्ववत् सोमपालेष्येक-मक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् ते पुनर्गायत्रींप्राहिण्वन् छन्दांसि सर्वाणि चतुरुत्तराण्यासन् अतःसा गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानिजगतीत्रिष्टुभोश्चतुरक्षराणि हरन्ती अष्टाक्षरा भूत्वाआगच्छत्” भा० ।२ गायत्रीछन्दस्के उपनयनाङ्गे गन्त्रभेदे च ।छन्दःशास्त्रे षडक्षरपादं हि कन्दो गायत्रीशब्देनो-च्यते । सर्ववेदेऽपि षडक्षरयुक्तपादकाबहवोमन्त्राः सन्ति ।सर्वेऽपि ते गायत्रीरूपतया वक्तुं शक्यन्ते । किन्तु यथा, “पङ्काज्जायते” इति व्युत्पत्त्या पङ्कजशब्दः पङ्कज-निकर्तृत्वयुक्तस्य पद्मस्यैव बोधकः पङ्कजातानामन्येषांकुमुदादीनामबोधकः, एवं गायत्रीशब्दोऽपि योगरूढ्या-मन्त्रभेदस्येव बोधकः । वस्तुवोऽन्यव्युत्पत्तिमत्त्वेना-स्या मन्त्रमेदवोधकत्वम् । यथाह, व्यासः “गायन्तंत्रायते यस्मात् गायत्रीयं ततः स्मृता” ।स्वोपासकत्राणकर्त्तृब्रह्मप्रतिपादकतयाऽपि उक्तमन्त्रविशेषएव गायत्रीरूपतयोच्यते । यद्यपि गायत्र्याः षडक्षर-पादतया चतुर्षु चरणेषु २४ चतुर्विंशत्यक्षरावशक्यत्वंकिन्तु, अन्यगायत्रीच्छन्दस्कानां मन्त्राणामिवास्मिन् २४चतुर्विंशत्यक्षराभावस्तथापि द्यौरित्यत्रेव वरेण्यपदेवर्णविश्लेषेण २४ चतुर्विंशतिसंख्या परिपूर्य्या । वक्ष्य-माणवृहदारण्यकमाधवभाष्येच “द्यौरित्यत्र दिऔरितिवर्णविश्लेषे सति वरेण्यमित्यत्र वरेणीअमितिवर्णविश्लेषेण व्यक्तमुक्तम् । अस्याश्च अष्टाक्षर-पादतया एकैकचरणस्य भूभ्यादिरूपता, गयनाम-प्राणत्रातृतया गायत्रीशब्दनिरुक्तिश्च वृहदारण्य-कब्राह्मणे दर्शिता यथा, “भूमिरन्तरिक्षं द्यौरि-त्यष्टावक्षराणि, अष्टाक्षरं ह वा एकं गायत्र्ये पद-मेतदुहैवास्या एतत् स यावदेषु लोकेषु तावद्ध जयतियोऽस्या एतदेवं पदं वेत । ऋचो यजूंषि सामानीतिअष्टावक्षराणि अष्टाक्षरं वा एकं गायत्र्यै पदमेत-दुहैवास्य एतत् स यावतीयं त्रयी विद्या तावन्नजयति योऽस्या एवदेवं पदं वेद । प्राणोऽपानोव्यानः (विआनः) इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकंगायत्र्यै पदमेतदुहैवास्या एयत् स यावदिदं प्राणितितद्ध जयति योऽस्या एतदेवं पदं वेद । अथास्याएतदेव तुरीयं दर्शतं पदं परोरजा य एष तपतियद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृशे इव एषपरोरजा इति सर्वम् ह्येष रज उपर्य्युपरि तपतिएवं हैष श्रिया यशसा तपति योऽस्या एतदेवंपदं वेद । सैषा गायत्री एतस्मिंस्तुरीये दर्शते पदेपरोरजसि प्रतिष्ठितेत्यादि । तद्वैतत् सत्यं बले प्रति-ष्ठितं प्राणो वै बलं तत् प्राणे प्रतिष्ठितमित्यादि ।सा हैषा गयांस्तत्रे प्राणा वै गयास्तान् प्राणांस्तत्रेयस्माद् गयांस्तत्रे तस्माद् गायत्री नाम । स यामे-वामुमन्वाहैषैव सा, स यस्मा अन्वाह तस्य प्राणांस्त्रा-यते” । “ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपास-नमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्त-व्यमित्यारभ्यते सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधान-भूतं तत्प्रयोक्तृगयत्राणात् ग यत्रीति वक्ष्यति ।न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यंप्राणात्मभूता सा, सर्वच्छन्दसां चात्मा प्राणः, “प्राणश्चक्षतः त्राणात् क्षत्त्रम्” इत्युक्तं प्राणश्च गायत्रीतस्मात् तदुपासनमेवं विधित्स्यते द्विजोत्तमत्वहेतुत्वाच्च“गायत्र्या ब्राह्मणमसृजत, त्रिष्टुभा राजन्यं जगत्यावैश्यमिति” द्विजोत्तमस्य द्वितीयं जन्म गायत्री-निमित्तं तस्मात् प्रधाना गायत्री ब्राह्मण्याद्यर्था ।“यो ब्राह्मणान् अभिवदन्ति स ब्राह्मणः विपापो-विरजा विचिकित्सो ब्राह्मणो भवति” इत्युक्तेनपरमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्वणत्वंगायत्रीजन्ममूलमतो वक्तव्यं गावत्र्याः सतत्त्वं, गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवोत्तमपुरुषार्थसाधनेऽधिक्रियते ततस्तन्मूलः परमपुरुषा-र्थसम्बन्धस्तस्मादेतदुपासनविधानायाह भूमिः अन्तरीक्षंद्यौः (दिऔः) इत्येतानि अष्टौ अक्षराणि, अष्टाक्षरम्अष्टावक्षराणि यस्य तदिदम् अष्टाक्षरं हवै प्रसिद्धावद्योत-चौ । एकं प्रथमं गायत्र्यै, गायत्र्याः पदं पादः प्रथमोभूम्यादिलक्षणः त्रैलोक्यात्माष्टाक्षरत्वसाम्यात् एवम् ए-तत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद तस्यैतत्फलम् स विद्वान् यावत् किञ्चिदेषु त्रिषु जेतव्यं तावत्सर्वं ह जयति योऽस्या एतदेवं पदं वेद । तथाऋचः, यजूंषि, सामानि, इति त्रयीनामाक्षराणि ए-तान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्याः द्वि-तोयम् पदं एतदुहवास्या एतद् यदृग्यजुःसामल-क्षणम् अष्टाक्षरत्वसाम्यात् एवं स यावती इयं त्रयीविद्या त्रय्या विद्यया यावत् फलजातमाप्यते तावद्धजयति योऽस्या एतत् गायत्र्यास्त्रैविद्यलक्षणं पदंवेद । तथा प्राणः, अपानः (विआनः) व्यानः एता-न्यपि प्राणाद्यभिधानाक्षराणि अष्टौ तच्च गायत्र्या-स्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति यो-ऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद । अथानन्तरंगायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यतेअभिधेयभूतम् । अस्याः प्रकृतायाः गायत्र्याः एतदेववक्ष्यमाणं तुरीयं दर्शतं पदम् परोरजा य एष तपतितुरीयमित्यादि वाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः ।यद् वै चतुर्थं प्रसिद्धं लोके तदिह तुरीयशब्देनाभि-घोयते । दर्शतं पदमित्यस्य कोऽर्थः? इत्युच्यतेददृश इव दृश्यत इव हि सूर्य्यमण्डलान्तर्गतः पुरुषःअतो दर्शतं पदमुच्यते । परोरजाः इत्यस्य पदस्यकोऽर्थः? इत्युच्यते सर्व्वम् समस्तम् उ हि एष मण्ड-लान्तर्गतः पुरुषः, रजः रजोजातं समस्तं लोकमि-त्यर्थः उपर्य्युपरीति वीप्सा सर्व्वलोकाधिपत्यज्ञाप-नार्था । ननु सर्व्वशब्देनैव सिद्धत्वात् वीप्सानर्थिका, नैष दोषः येषामुपरिष्टात् सविता दृश्यते तद्विषयःएव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा “येचामुष्मात् पराञ्चो लोकास्तेषाञ्चेष्टे देवकामानञ्चेति”श्रुत्यन्तरात् तस्मात् सर्वावबोधार्था वीप्सा । यथासौसविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्यातपति एवं हैष श्रिया यशसा च तपति योऽस्या एत-देवं तुरीयं दर्शतं पदं वेद । सैषा त्रिपादा उक्ता यात्रैलोक्यत्रैविद्यप्राणाद्यात्मिका गायत्री, एतस्मित् चतुर्थेतुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्त्तामूर्त्त-रसत्वादादित्यस्य, रसापाये हि वस्तु नीरसमप्रतिष्ठितंभवति यथा काष्ठादि दग्धसारं तद्वत् । तथा मूर्त्तामूर्त्तात्मकंजगत् । त्रिपदा गायत्री च आदित्यप्रतिष्ठिता तद्रूं-पत्वात् । सह त्रिभिः पदैः तद्धि तुरीयं पदं सत्येप्रतिष्ठितम् इत्यादि । तद्धि तुरीयपदाश्रयं सत्यंबले प्रतिष्ठितं किं? पुनस्तद्बलमित्याह प्राणो वैबलम् तस्मिन् प्राणे बले, प्रतिष्ठित’ सत्यं तथाचोक्तेसूत्रे, “तदोतञ्च प्रोतञ्चेति” तस्मात् बले सत्यं प्रति-ष्ठितमित्यादि । सैषा गायत्री प्राणः अतः गायत्र्यांजगत् प्रतिष्ठितम् यस्मिन् सर्वे देवाः एकीभवन्ति सर्वे-वेदाः, कर्माणि फलानि च सैषा गायत्री प्राणरूपासती जगत आत्मा सा हैषा गयांस्तत्रे त्रातवती, के?पुनर्गयाः, एते प्राणाः वागादयो वै गयाः शब्दकरणात्ताय् तत्रे, सैषा गायत्री तत् यस्मात् गयांस्तत्रेतस्माद्गायत्री नाम गयत्राणात् गावत्रोति प्रथिता ।स आचार्य्य उपनीय माणवकमष्टवर्षं यामेव अमूंसावित्रीं सवितृदेबताकाम् अन्वाह पच्छः अर्द्धशःसमस्ताञ्च एषैव सा साक्षात् प्राणो जगतः आत्मा माण-वकाय समर्पिता इहेदानीं नान्या सः आचार्य्यः यस्मैमाणवकाय अन्वाह अनुवक्ति तस्य माणबक्तस्य गयान्प्राणान् त्रायते नरकादिपतनात्” भा०छान्दोग्योपनिषदि गायत्र्या अन्यथा निवचनपूर्वकंषडक्षरपादत्वेन चतुष्प-दत्वं वागादिरूपेण ध्यातव्यत्वम्स्वप्रतिपाद्यब्रह्मात्मद्वारा सर्व्वात्मकत्वञ्च दर्शितम् ।“गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वैगायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ।या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पांहीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । यावै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम्अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ।यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः-पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेवनातिशीयन्ते । सैषा चतुष्पदा षड्विधा गायत्री तदे-तदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्चपुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति ।”छ० उप० । “यत एवमतिशयफलैषा व्रह्मविद्या अतःसा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्या-रभ्यते । गायत्रीद्वारेण चोच्यते ब्रह्म, सर्व-विशेषरहितस्य नेति नेतीत्यादिविशेषप्रतिषेधनम्यस्यदुर्बीधत्वात् सत्स्वनेकेषु छन्दःसु गायत्र्या एव ब्रह्मज्ञान-द्वारतयोपादानं प्राधान्यात् ।” (इत्युपक्रम्य किञ्चि-दुक्त्वोक्तम्) “गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिवहित्वा गुरुतरां गायत्रीं ततोऽन्यत् गुरुतर न प्रति-पद्यते ययोक्तं ब्रह्मापीति तस्यामत्यन्तगौरवस्य प्रसिद्ध-त्वात् अतो गायत्रीमुखेनैव ब्रह्मोच्यते । गायत्री वैइत्यवधारणार्थो वैशब्दः । इदं सर्वं भूतं प्राणिजातंयत किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येवतस्याश्छन्दोमात्रायाः सर्वभूतात्मत्वमनुपपन्नमिति गायत्री-कारणं वाचं शब्दरूपामापादयति गायत्रीं, वाग्वेगायत्रीति वाग्वा इदं सर्वं भूतम् गायति च शब्दायते(असौ गौरसाबश्वः) इति त्रायते च रक्षति “अमुष्मात्मा भैषीः किं? ते भयमुत्थितमित्यादि” सर्वतो भयान्निवर्त्त्यमानो वाचा त्रातः स्यात् । यत् वाक्, भूतंगायति च त्रायते च गायत्र्येव तद् गायति च त्रायतेच वाचोऽनन्यत्वात् गायत्र्याः, गानात् त्राणाच्च गायत्री-त्वम् । या वै सैवंलक्षणा सर्वभूतरूपा गायत्री इयंवाव सा येयं पृथिवी, कथं? पुनरियं पृथिवीगायत्रीत्युच्यते? सर्वभूतसम्बन्धात् कथं सर्वभूत-सम्बन्धः? तस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरंजङ्गतञ्च भूतं प्रतिष्ठितम् एतामेव पृथिवीं नातिशीयते, नातिवर्त्तते इत्येतत् । यथा गानत्राणाभ्यां भूतसम्बन्धोगायत्र्या एवं भूतप्रतिष्ठानात् भूतसम्बन्धाद्वा पृथिवीअतो गायत्री पृथिबी । या वै सा पृथिवी गायत्रीयंवाव सा इदमेव, तत् किम्? यदिदमस्मिन् पुरुषेकार्य्यकारणसङ्घाते जीवति शरीरं, पार्थिवत्वा-च्छरीरस्य गायत्रीत्वमुच्यते? अस्मिन् हीमे प्राणाःभूतशब्दवाच्याः प्रतिष्ठिताः । अतः पृथिवीवत् भूत-शब्दवाच्य--प्राणप्रतिष्ठानात् शरीरं गायत्री एतदेबयस्माच्छरीरं नातिशीयन्ते प्राणाः । यद्धैतत् पुरुषेशरीरं गायत्री वाव तत् यदिदमस्मिन् अन्तर्मध्येपुरुषे हृदयं पुण्डरीकाख्यमेतत् गायत्री कथम्?इत्याह अस्मिन् हीमे प्राणाः प्रतिष्ठिताः अतः शरीर-वत् गायत्री हृदयम् एतदेव नातिशीयन्ते “प्राणोहि पिता प्राणो माता” “अहिंसन् सर्वाभूतानीति”श्रुतेः भूतशब्दवाच्याः प्राणाः । सैषा चतुष्पदा षड-क्षरपादच्छन्दोरूपा सती भवति गायत्री षड्विधावाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधाभवति । (किञ्चिदतीत्योक्तम्) तदेतस्मिन्नर्थे एतद्गाय-त्र्याख्य ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचापिमन्त्रेण अभ्यनूक्तं प्रकाशितम् । तावान् अस्य गाय-त्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारःयावान् चतुष्पाद् षड्विधश्च ब्रह्मणो विकारः, पादःगायत्रीति व्याख्यातः । अतस्तस्माद्विकारलक्षणात् गाय-त्र्याख्यात् ततो ज्यायान् महत्तरश्च परमार्थसत्यरूपोऽ-विकारः पुरुषः सर्वपूरणात पुरिशयनाच्च । तस्यास्यपादः सर्वा सर्वाणि भतानि तेजोऽबन्नादीनि सस्थावर-जङ्गमानि । त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपाद्अमृतं पुरुषाख्यं समस्तस्य गायत्रात्मकस्य द्योतनवतिस्वात्मन्यवस्थितमित्यर्थः” शा० भा० । मातृतोजन्मवतामपिसावित्र्या द्वितीयजन्माधानात् द्विजानां द्विजत्वम् ।यज्जन्मैव हि सकलपुरुषार्थहेतुरिति मन्वादिशास्त्रेप्रसिद्धम् । यथा, मनुः “आचार्य्यस्त्रस्य यां जातिंविधिवद्वेदपारगः । उत्पादयति सावित्री सा सत्यासाऽजराऽमरा । तत्र यद् व्रह्मजन्मास्य मौर्ञ्जवन्धन-चिह्नितम् । तत्रास्य माता सावित्री पिता चाचार्य्यउच्यते” । यद्यपि परमेश्वरः सर्वत्रामिन्नरूपतया वर्त्त-मानस्तथापि समुपासने एव विशिष्टफलप्रदः नान्यथाइदमपि दृष्टान्ततया योगियाज्ञवल्क्येन कथितम्“गवां सर्पिः शरीरस्थं न करात्यङ्गपोषणम् । निःसूतंकर्म्मसंयुक्तं पुनस्तासां तदौषधम् । एवं सहि शरी-रस्थः सर्पिर्वत् परमेश्वरः । विना चोपसनादेव नकरोति हितं नृषु” । गायत्र्याश्च स्ववाच्यब्रह्मणासहाभेदात् प्राशस्त्यमाह व्यासः “न भिन्नां प्रति-पद्येत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीतविधिना येन केनचित्” । “गायत्रीस्थभर्गपदप्रतिपाद्यईश्वरः अहं जीवरूपोऽस्मि भवामीति जीवेश्वरयो-रहङ्कारप्रतिविम्बितत्वोपाधिरहितेन चिद्रूपेणैक्यं भाव-यन् उपासीत” इति रघुनन्दनः । तत्र सत्स्वपि पर-मव्रह्मण उपासनाया बहुषूपायेषु गायत्र्येष तदुप्रा-सनायाः प्रधानोपायः इति प्राग्दर्शितेषु शास्त्रेषुप्रसिद्धम् । विशेषतः, गायत्र्यर्थः परं ब्रह्म एतदर्थमपिअनेन मन्त्रेणैव उपासना श्रेयस्करी “प्रणव-व्याहृतिभ्याञ्च गायत्र्या त्रितयेन च । उपास्यं परमंब्रह्म आत्मा यत्र प्रतिष्ठितः । वाच्यः सईश्वरः प्रोक्तोवाचकः प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्यएव प्रसीदति” योगीश्वरवाक्येन तथाभिधानात् ।“गायत्र्याः २४ चतुर्विंशत्यक्षराणां यथा भावनाकार्य्या, तथा ब्राह्मणसर्वस्वे विष्णुधर्मोत्तरे दर्शितंयथा “कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्दियाणि च ।पञ्च बुद्धीन्द्रियार्थाश्च भूतानां चैव पञ्चकम् । मनोवुद्धि-स्तथैवात्मा अव्यक्तञ्च यदुत्तमम् । चतुर्विंशतिरेतानिगायत्र्या अक्षराणि च । प्रणवं पुरुषं विद्धि सर्वगंपञ्चविंशकम् ।” अनेन पञ्चविंशतितत्त्वरूपतया सप्रण-वगायत्र्यक्षराणां ध्येयतोक्ता । तत्र प्रत्यक्षरं देवताभेद-माह योगियाज्ञवल्क्यः । “अक्षरणान्तु दैवत्यं सम्प्र-वक्ष्याम्यतः परम् । आग्नेयं (तत्) प्रथमं ज्ञेयं वाय-व्यञ्च (स) द्वितीयकम् । तृतीयं (वि) सूर्य्यदैवत्यं चतुर्थं(तुः) वैद्युतं तथा । पञ्चमं (व) यमदैवत्यं वारुणं(रे) षष्ठमुच्यते । बार्हस्पत्यं सप्तमन्तु (ण्) पार्ज्जन्यम-ष्टमं (यम्) विदुः । ऐन्द्रं तु नवमं (भ) ज्ञेयं गान्धर्वंदशमं (र्गः) तथा । पौष्णमेकादशं (दे) प्रोक्तं मैत्राव-रुणं द्वादशम् (ब) । त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं वासवन्तु चतुर्द्दशम् (धी) । मारुतं पञ्चदशकं (म) सौम्यंषोडशकं (हि) स्मृतम् । सप्तदशं (धि) त्वाङ्गिरसंवैश्वदेवमतः परम् । (यः) । आश्विनञ्चैकोनविंशं (यः)प्रजापत्यन्तु विंशकम् (नः) । सर्वदेषमयं प्रोक्तमेकविंश(प्र) मतः परम् । रौद्रं द्वाविंशकं (च) प्रोक्तम् त्रयो-विंशन्तु (द) ब्राह्मकम् । वैष्णवन्तु (यात्) चतुर्विंशमेताह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतांव्रजेत्” ।“तस्याश्च वेदसारता--नानाशास्त्रे दर्शिता यथा“अष्टादशसु विद्यासु मीमांसाऽतिगरोयसी । ततो-ऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च । ततोऽपिधर्भशास्त्राणि तेभ्यो गूर्वी श्रुतिर्द्विज । ततोऽप्युपनि-षच्छ्रेष्ठा गायत्री च ततोऽधिका । दुर्लभा सर्वमन्त्रेषुगायत्री प्रणवान्विता । न गायत्र्यधिकं किञ्चित्त्रयीषुपरिविद्यते । न गायत्रीसमो मन्त्रो न काशी सदृशीपुरी । न विश्वेशसमं लिङ्गं सत्यं सत्यं पुनः पुनः ।गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः । गायन्तंत्रायते यस्माद्गायत्रीति प्रगीयते । वाच्यवाचकसम्बन्धोगायत्र्याः सवितुर्द्वयोः । वाच्योऽसौ सविता साक्षा-द्गायत्री वाचिका परा । प्रभावेनैव गायत्र्याः क्षत्रियः कौशिको वशी । राजर्षित्वं परित्यज्य ब्रह्मर्षि-पदमीयिवान् । सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ।किं किं न दद्याद्गायत्री सम्यगेवमुपासिता । न ब्रा-ह्मणो वेदपाठान्न शास्त्रपठनादपि । देव्यास्त्रिकालमभ्या-सात्ब्राह्मणः स्याद् द्विजोऽन्यथा । गायत्र्येव परोविष्णुर्गायत्र्येव परः शिवः । गायत्र्येव परो ब्रह्मागायत्र्येव त्रयी यतः” काशी० ।इत्थं बहुविधशास्त्रे गायत्री सर्वेषां वेदानां सारां-शतया सर्वाभीष्ट हेतुतया च प्रसिद्धा । यदज्ञाने ब्रा-ह्मण्यहानिर्भवति । सेयं वेदत्रयेऽपि सुमानरूपा” ।मनुः “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहत्भूर्भुवः स्वरितीति च! । त्रिभ्य एव तु वेदेभ्यःपादं पादमदूदुहत्” । मनुयमवृद्धवविष्ठाः “ओङ्का-रपूर्विकास्तिस्रो महाव्याहृतयस्तथा । त्रिपदा चैव गा-यत्री विज्ञेयं ब्रह्मणो मुखम् ।” जपेदित्यनुकृष्य छन्दो-गपरिशिष्टम् “सर्वेषां वेदानां गुह्योपनिषत्सारभूतांततो गायत्रींम् ।” योगियाज्ञवल्क्यः “गायत्रोञ्चैववेदांश्च तुलया समतोलयन् । वेदा एकत्र साङ्गास्तुगायत्री चैकतः स्थिता ।” स एव “सारभूतास्तुवेदानां गुह्योपनिषदो मताः । ताभ्यः सारस्तु गायत्रीतिस्रो व्याहतयस्तथा ।” स एव “ओङ्कारपूर्विका-स्तिस्रो गायत्रीं यश्च विन्दति । चरितब्रह्मचर्य्यश्च सवै श्रोत्रिय उच्यते ।” स एव “एतया ज्ञातया सर्वंवाङ्मयं विदितं भवेत् । उपासितं भवेत्तेन विश्वंभुवनसप्तकम् ।” स एव “एवं यस्तु विजानातिगायत्रीं ब्राह्मणस्तु सः । अन्यथा शूद्रधर्मा स्याद् वेदानामपि पारगः ।” स एव “अज्ञात्वा चैव गायत्रींब्राह्मण्यादेव हीयते । अपवादेन संयुक्तो भवेत् श्रुतिनिदर्शनात् ।” कौर्मम् “क्रियाहीनस्य मूर्खस्य महा-रोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौच-कम् ।” मूर्खस्य सार्थगायत्रीरहितस्येति शुद्धितत्त्वे रघु-नन्दनः । गायत्रीरहितस्येत्यन्ये । तस्याः सन्ध्यारूप-तया उपस्यतापि यथाह, योगियाज्ञवल्क्यः “यासन्ध्या सैव गायत्री द्विधा भूता व्यवस्थिता । सन्ध्याउपासिता येन विष्णुस्तेन उपासितः ।” व्यासः“गायत्री नाम पूर्वाह्णे सावित्री मध्यमे दिने । सरस्वतीच सायाह्ने सैव सन्ध्या त्रिषु स्मृता । प्रतिग्रहान्नदो-षाच्च पातकादुपपातकात् । गायत्री प्रोच्यते तस्मात्गायन्तं त्रायते सदा । सवितृद्योतनात् सैव सावित्री परि-कीर्त्तिता । जगतः प्रसवितृत्वात् वागरूपत्वात् सरस्वती” ।ऋष्यशृङ्गः “सर्वात्मना हि या देवी सर्वभूतेषु संस्थिता ।गायत्री मोक्षहेतुर्वै मोक्षस्थानमलक्षणम्” कूर्मपुराणम्“गायत्री वेदजननी गायत्री लोकपावनी । न गायत्र्याःषरं जप्यमेतद्विज्ञानमुच्यते ।” योगियाज्ञबल्क्यः“गायत्री वेदजननी गायत्री पापनाशिनी । गायत्र्यास्तुपरं नास्ति दिवि चेह च पावनम् । हस्तत्राणप्रदादेवी पततां नरकार्णवे । तस्मात्तामभ्यसेन्नित्यं ब्राह्मणा-ऽनुदये शुचिः । गायत्रीं निरतं हव्यकव्येषु विनियोज-येत् । तस्मिन्न तिष्ठते पापमब्विन्दुरिव पुष्करे ।” स एव“गायत्र्याः पदमर्द्धन्तु ऋचोऽर्द्धमृच एव वा । ब्रह्म-हत्यासुरापाणं गुरुदाराभिमर्षणम् । यच्चान्यत् दुष्कृतंसर्वं पुनातीत्याह वै मनुः ।” स एव “यज्ञदानरतो विद्वान्साङ्गवेदस्य पाठकः । गायत्रीध्यानपूतस्य कलां नार्हतिषोडशीम् ।” वृहद्बिष्णुः “एतयर्चा विसंयुक्ता कालेच क्रियया स्वया । विप्रक्षत्रियविड्योनिर्गर्हणीया तुसाधुषु ।” अग्निपुराणम् “गायत्रीं जपते यस्तु द्वौ-कालौ ब्राह्मणः सदा । असत्प्रतिग्रहीतापि स यातिपरमां गतिम् ।”गायत्र्याश्च सर्वछन्दसां प्रधानत्वात् “गायत्रीछन्द-सामपि” गीतायां भगवद्विभूतित्वमुक्तम् । ३ खदिरवृक्षेअमरः । खदिरस्य च “सा गायत्री सोममा-हरत्” इत्युपक्रमे “खदिरेण सोममाचखाद”तस्मात् खदिर इति” शत० ब्रा० ६ । २ । ९ गायत्र्यासोमहरणेन तत्पाने साधनत्वाद् गायत्रीत्वम् । गायत्रंगायत्रीसम्बन्धि सोमहरणमस्त्यत्र पानसाधनत्वेन गा-यत्र + इनि । गायत्रिन् इत्यपि तत्रार्ते वैद्यकम् “उभेहरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समा-नम्” सुश्रुतः । “वह्निगायत्रिणां तथेति” वैद्यकात् इन-न्तोऽपि तत्रार्थे भानुदीक्षितः । पुंसाहचर्य्यात् अमरवा-क्यस्य पुंलिङ्गपरतौचित्यात् तथात्वम् । “गायत्री खदिरेस्त्री स्यात्” इति रभसोक्तेः “गायत्री द्रुपदादेवीछन्दोभित्खदिरेषु च” कोषान्तराच्च स्त्रीत्वम् ङीबन्तता च ।गायत्र्या ऋचोपास्यायां ४ देवतायाम् । सा च एकापिप्रातरादिकालभेदेन गायत्री--स्वावित्री सरस्वतीति--नामत्र-ययुता तत्र प्रातरुपास्या गायत्रीति संज्ञाऽनुपदमु-क्तम् । ५ दुर्गायां च “गायनाद्गमनाद्वापि गायत्री त्रि ६शार्चिता” देवीपु० देवीनामनिरुक्ती । गायत्र्या इदम्अण् । ६ गायत्र गायत्रच्छन्दसि “गायत्रच्छन्दाह्यग्निः”ता० ब्रा० ८ । ८ । ६ । गायत्रच्छन्दोऽभिमानी अग्निः” भा० ।“आष्टदे गायत्रेण छन्दसा” यजु० ११ । ९ । गायत्र्या-हृतः अण् । गायत्र्या हृते ७ सोमभेदे तद्धरणकथाऽग्रे उक्तैव “गायत्रस्त्रैष्टभः पाङ्क्तो जागतः शाङ्क-रस्तथा” सुश्रुते सोमभेदकथने । तत्स्थानञ्च तत्रैवोक्तं“काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् । गाय-त्रस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा । न तान्प्रश्यन्त्यधर्म्मिष्ठाः कृतघ्नाश्चापि मानवाः । भेषज-द्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा” । गायत्र्या इदम्अण् । गायत्र ८ गायत्रीसम्बन्धिनि ९ गायत्री-च्छन्दस्के स्तोत्रादौ । गायत्रीं तच्छन्दस्कामृच-मधिकृत्य गीतं साम अण् । गायत्र्यामृचिगेये १० साम-भेदे । “स्वादिष्ठया मदिष्ठया” इत्येकं सूक्तं तस्मिन्गायत्र्यस्तिस्र ऋचः तत्र गायत्रं संहितं चेति द्वे सा-मनी” सा० स० भाष्यम् । “ऋचा स्तोमं समर्द्धय गाय-त्रेण रथन्तरम् वृहद्गायत्रवर्त्तनि! स्वाहा” यजु० ११ । ८ ।गायत्रेण साम्ना, गायत्रं सामं वर्त्तनिर्मार्गोस्याः वेददी०“इमां गायत्रवर्त्तनिं जुषेथां सुष्टुतिं मम” ऋ० ८ । ३८ ।६ । “गायतवर्त्तनिं गायत्रसाममार्गां सुष्टुतिं शोभनां स्तु-तिम्” भा० । “स्वाहा गायत्रवेपसे” ऋ० १ । १४२ । १२ । गायत्रंसाम वेपो रूपं यस्याः” भा० । गायत्रसदृशत्वात् ११ प्रश-स्ये च “हुवे गायत्रवेपसम्” ८ । १ । १० । “गायत्रवेप-सम् प्रशस्यवेगाम्” भा० । गायत्रसाम्न उपसना प्रकारादिछा० उ० दर्शितम् यथा“मनोहिङ्कारो वाक् प्रस्तारश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारःप्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् । स य एवमेत-द्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेतिज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, महामनाः स्यात्तद्व्रतम्” छा० उ० । “मनो हिङ्कारो मनसःसर्वकरणप्रवृत्तीनां प्राथम्यात् । तदानन्तर्य्याद्वाक् प्रस्तारः, चक्षुरुद्गीथः श्रैष्ठ्यात् । श्रोत्रं प्रतिहारः प्रतिहार्य्यत्वात्, प्राणो निधनं यथोक्तानां प्राणे निधानात्स्वापकाल ।एतद्गायत्रं साम प्राणेषु प्रोतम् गायत्र्याः प्राणसंस्तुत-त्वात् । स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणीभवति अविकलकरणो भवतीत्येतत् । सर्वमायुरेति “शतंवर्षाणि सर्वमायुः पुरुषस्येति” श्रुतेः । ज्योगुज्ज्वलंजीवति । महान् भवति प्रजादिभिर्महांश्च कीर्त्त्या ।गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तःस्यादित्यर्थः” शा० भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
