| YouTube Channel

गाम्भीर्य्यं (gAmbhIryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
गाम्भीर्य्यं,
क्ली,
(गम्भीरस्य भावो गम्भीरे भवंवा “गम्भीराञ्ञ्यः ।” ५८ इतिञ्यः ।) गम्भीरता यथा, --“मेघनिर्घोषगार्म्भीर्य्यं प्रतिनादविधायिता ।”इति जिनयाल्गुणे हेमचन्द्रः ।(इदं हि नायकस्य सात्त्विकगुणविशेषः यथा, साहित्यदर्पणे ५८ ।“शोभा विलासो माधुर्य्यङ्गाम्भीर्य्यं धैर्य्यतेजसी ।ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः
”तस्य लक्षणम् यथा, तत्रैव ६२ ।“भीशोकक्रोधहर्षाद्यैर्गाम्भीर्य्यं निर्व्विकारता
”उदाहरणम् यथा, --“आहूतस्याभिषेकाय विसृष्टस्य वनाय ।न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः
”)