गान्धारीतनय (gAndhArItanaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaगान्धारीतनय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದುರ್ಯೋಧನ ಮೊದಲಾದ ೧೦೦ ಮಂದಿ ಕೌರವರು
वाचस्पत्यम्
Sanskritगान्धारीतनय ६ त० । १ दुर्य्यधनादौ तद्भभिन्यां २ दुःश-लायां स्त्री । तस्यां तदुत्पत्तिकथा“क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषया-मास गान्धारी व्यासस्तस्यै वरं ददौ । सा वब्रे सदृशंभर्त्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भंधृतराष्ट्रादथाग्रहीत् । संवत्सरद्वयं तन्तु गान्धारीगर्भमाहितम् । अप्रजा धारतामास ततस्तां दुःखभा-विशत् । श्रुत्वा कुन्तीसुतं जात बालार्कसमतेजसम् ।उदरस्यात्मनः स्थैर्य्यमुपलभ्यान्वचिन्तयत् अज्ञातंधृतराष्ट्रस्य यत्नेन महता ततः । सोदरं घातयामासगान्धारी दुःखमूर्च्छिता । तती जज्ञे मांसपेशी लोहा-ष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुंप्रचक्रमे । अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।तां स मांसमयीं पेशीं ददर्श जपतां वरः । ततोऽब्र-वीत् सौवलेर्यां किमिदं ते चिकीर्षितम् । सा चात्मनेमतं सत्यं शशंस परमर्षये । गान्धार्य्युवाच । ज्येष्ठंकुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमे-णेदमुदरं घातितं मया । शतञ्च किल पुत्राणां वितीर्णंमे त्वया पुरा । इयञ्च मे मांसपेशी जाता पुत्रशतायवै । व्यास उवाच । एवमेतत् सौवलेयि! नैतज्जात्वन्यथाभवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यदा ।घृतपूर्णं कुम्भशतं क्षिप्रमेव विधीयताम् । स्वनुगुप्तेषुदेशेषु रक्षा चैव विधीयताम् । शीताभिरद्भिरष्ठीलामि-माञ्च परिषेचय । वैशम्पायन उवाच । सा सिच्य-माना त्वष्ठीला बभूव बहुधा तदा । अङ्गुष्ठपर्व्व मात्राणांगर्भाणां पृथगेव तु । एकाधिकशतं पूर्णं यथायोगंविशाम्पते! । मांसपेश्यास्तदा राजन्! क्रमशः काल-पर्य्ययात् । ततस्तांस्तेषु कुम्भेषु गर्भानवदधे तदा ।स्वनुगुप्तेषु देशेषु रक्षां चैवादधात्ततः । शशंस चैव भग-वान् कालेनैतावता पुनः । उद्घाटनीयान्येतानिकुम्भानीति स सौवलीम् । इत्युक्त्वा भगवान् व्यासस्तथाप्रतिविधाय च । जगाम तपसे धीमान् हिमवन्तंशिलोच्चयम् । जज्ञे क्रमेण चैतेन तेषां दुर्य्योधनो-नृपः! । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः” ।भा० आ० ११५ अ० ।तेषां नामानि ज्यैष्ठानुज्यैष्ठानि च तत्रैव ११७ अ०पाठक्रमेणोक्तानि यथा“दुर्य्योधनो युयुत्सुश्च राजन्! दुःशासनस्तथा । दुःसहोदुःशलश्चैव जलसन्धः समः सहः । विन्दानुविन्दौदुर्द्धर्षःसुवाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णःकर्ण एव च । विविंशतिर्विकर्णश्च शलः सत्त्वः सुलो-चनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रःशरासनः ।दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः । ऊर्णनाभःसुनाभश्च तया नन्दोपनन्दकौ । चित्रबाणश्चित्रवर्म्मासुवर्म्मा तुर्विमोचनः । अयोवाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्द्धनः ।उग्रायुधो भीभकर्म्मा कनकायुर्दृढायुधः । दृढवर्म्मादृढक्षत्रः सोमकीर्त्तिरनूदरः । दृढसन्धो जरासन्धःसत्यसन्धः सदः सुवाक् । उग्रश्रवा उग्रसेनः मेनानीर्दुष्प-राजयः । अपराजितः कुण्डशायी विशालाक्षो दुराधरः ।दृढहस्तः सुहस्तश्च वातवेगसुबर्च्चसौ । आदित्यकेतु-बह्वाशी नागदत्तोऽग्रयाय्यपि । कवची निषङ्गी कुण्डीच कुण्डधारो धनुर्द्धरः । उग्रभीमरथौ वीरौ वीर-बाहुरलांलुपः । अभयो रौद्रकर्मा च तथा दृढरथश्चयः । अनाधृव्यः कुण्डभेदी विरावी दीर्घलोचनः ।प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान् । दीर्घबाहु-र्महाबाहुर्व्यूढोरुः कनकध्वजः । कुण्डाशी विरजाश्चैवदुःशला च शताधिका” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
