| YouTube Channel

गान्धर्व्वः (gAndharvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
गान्धर्व्वः,
पुं,
(गन्धर्व्व एव “प्रज्ञादिभ्यश्च ।” ।४ ३८ इत्यण् ।) गन्धर्व्वः इति हेमचन्द्रः ।२ १९४
(भारतवर्षीयोपद्वीपविशेषः यथा, विष्णुपुराणे ।“भारतस्यास्य वर्षस्य नवभेदान्निशामय ।इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्
नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः ।अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः
”)अष्टप्रकारविवाहान्तर्गतविवाहविशेषः यत्रकन्यावरयोरन्योन्यानुरागात् त्वं मे भार्य्या त्वंमे पतिरिति निश्चयः सः (तल्लक्षणं यथा, मनौ ३२ ।“इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य ।गान्धर्व्वः तु विज्ञेयो मैथुन्यः कामसम्भवः
”स क्षत्त्रियाणामेव धर्म्म्यः यथा, तत्रैव २६ ।“गान्धर्व्वोराक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ
”)तत्सम्बन्धिनि त्रि
(यथा, काशीखण्डे ।“गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्व्वाश्च शुभव्रताः
”गन्धर्व्वदेशोद्भवे यथा, महाभारते २२६ १० ।“उपेतं राजतैरश्वैर्गान्धर्व्वैर्हेममालिभिः ।पाण्डराभ्रप्रतीकाशैर्म्मनोवायुसमैर्जवे
”)