| YouTube Channel

गान्धर्व्वं (gAndharvvaM)

 
शब्दकल्पद्रुमः
Sanskrit
गान्धर्व्वं,
क्ली,
(गन्धर्व्वस्य इदं गन्धर्व्वेण गीतं वा ।गन्धर्व्व + अण् यद्बा, गन्धर्व्वो अधिष्ठात्री देवताअस्येति अण् ।) गानम् इति हेमचन्द्रः
(यथाह दन्तिलः ।“पदस्थस्वरसङ्घातस्तालेन सङ्गतस्तथा ।प्रयुक्तश्चावधानेन गान्धर्व्वमभिधीयते
”यथा महाभारते १३ १९ ४६ ।“अवादयंश्च गन्धर्व्वा वाद्यानि विधिवानि ।अथ प्रवृत्ते गान्धर्व्वे दिव्ये ऋषिरुपाविशत्
”गन्धर्व्वो अधिष्ठात्री देवता अस्येति अण् ।गन्धर्व्वदेवताकमन्त्रम् यथा, रघुः ५७ ।“गान्धर्व्वमादत्स्व यतः प्रयोक्तु-र्न चारिहिंसा विजयश्च हस्ते
”)