गान (gAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishगान - gAna - - singing
गापन - gApana - - singing
यदा सः अन्तः गतवान् तदा चतस्रः महिलाः मधुरं गायन्त्यः आसन् - yadAsaHantaHgatavAntadAcatasraHmahilAHmadhuraMgAyantyaHAsan - - Whenhewentinside, fourwomenweresingingmelodiously.
कलवचस् - kalavacas - - singing
कृतरव - kRtarava - - singing
प्रगायिन् - pragAyin - - singing
रवण - ravaNa - - singing
वाचमिन्व - vAcaminva - - singing
विराविन् - virAvin - - singing
व्याहारिन् - vyAhArin - - singing
गेय - geya - - singing
प्रगीत - pragIta - - singing
उद्गीति - udgIti - - singing
गायन्तिका - gAyantikA - - singing
गीति - gIti - - singing
रव - rava - - singing
सङ्गीत - saGgIta - - singing
अभिरुत - abhiruta - - singing
उद्गीत - udgIta - - singing
उपगायन - upagAyana - - singing
गान - gAna - - singing
गान - gAna - - sound
गान - gAna - - song
गान gAna singing
गान gAna song
गान gAna sound
Apte
Englishगानम् [gānam], [गै भावे ल्युट्]
Singing, a song.
A sound.
Going.
Praise. -विद्या the science of vocal music.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHindi
Hindiगायन
Apte Hindi
Hindiगानम्
- गै - ल्युट्
"गाना, भजन, गीत"
Shabdartha Kaustubha
Kannadaगान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೀತ /ಹಾಡುವುದು
निष्पत्तिः - > गै (शब्दे) - भावे "ल्युट्" (३-३-११५)
प्रयोगाः - > "उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयाऽपरया"
उल्लेखाः - > माघ० ९-५४
गान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶಬ್ದ /ಸದ್ದು
गान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗಮನ /ಹೋಗುವಿಕೆ
निष्पत्तिः - > गाङ् (गतौ) - भावे "ल्युट्" (३-३-११५)
गान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸ್ತೋತ್ರ /ಹೊಗಳಿಕೆ
निष्पत्तिः - > गा (स्तुतौ) - "ल्युट्" (३-३-११५)
Kridanta Forms
Sanskritगै (गै॒ शब्दे - भ्वादिः - अनिट्)
ल्युट् = गानम्
अनीयर् = गानीयः - गानीया
ण्वुल् = गायकः - गायिका
तुमुँन् = गातुम्
तव्य = गातव्यः - गातव्या
तृच् = गाता - गात्री
क्त्वा = गीत्वा
ल्यप् = प्रगाय
क्तवतुँ = गीतवान् - गीतवती
क्त = गीतः - गीता
शतृँ = गायन् - गायन्ती
गा (गा॒ङ् गतौ - भ्वादिः - अनिट्)
ल्युट् = गनम्
अनीयर् = गनीयः - गनीया
ण्वुल् = गायकः - गायिका
तुमुँन् = गीतुम्
तव्य = गीतव्यः - गीतव्या
तृच् = गीता - गीत्री
क्त्वा = गीत्वा
ल्यप् = प्रगाय
क्तवतुँ = गीतवान् - गीतवती
क्त = गीतः - गीता
शानच् = गानः - गाना
गा (गा॒ स्तुतौ - जुहोत्यादिः - अनिट्)
ल्युट् = गानम्
अनीयर् = गानीयः - गानीया
ण्वुल् = गायकः - गायिका
तुमुँन् = गातुम्
तव्य = गातव्यः - गातव्या
तृच् = गाता - गात्री
क्त्वा = गीत्वा
ल्यप् = प्रगाय
क्तवतुँ = गीतवान् - गीतवती
क्त = गीतः - गीता
शतृँ = जिगत् / जिगद् - जिगती
अभिधानचिन्तामणिः
Sanskritगीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् ।
नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० ॥
गीत (क्ली), गान (क्ली), गेय (क्ली), गीति (स्त्री), गान्धर्व (क्ली), नर्तन (क्ली), नटन (क्ली), नृत्य (क्ली), नृत्त (क्ली), लास्य (क्ली), नाट्य (क्ली), ताण्डव (पुंक्ली)
अभिधानरत्नमाला
Sanskritगीत
गीत, गान
गीतं गानमिति प्रोक्तं वाद्यमातोद्यमिष्यते ।
verse 1.1.1.93
page 0012
अमरकोशः
SanskritWord: गानम्
Root: गान
Gender: नपुं
Number: all
Meaning(s):
⇒ song
⇒ sound
⇒ singing
Shloka(s):
1|6|25|3 ► स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥ (शब्दादिवर्गः)
Synonym(s):
➠ 1|6|25|3 ⇢ गीतम् (गीत) (नपुं) ⇒ sung, song, chanted, singing, praised in songs
➠ 1|6|25|3 ⇢ गानम् (गान) (नपुं)
Related word(s):
परा_अपरासंबन्धः ➡ कलाकौशल्यादिकर्मः
जातिः ➡ पौरुषेयः
शब्दकल्पद्रुमः
Sanskritगानं, (गीयते इति । गै + भावे ल्युट् ।)गीतम् । इत्यमरः । १ । ७ । २५ ॥
(यदुक्तम्, --“जपकोटिगुणं ध्यानं ध्यानकोटिगुणो लयः ।लयकोटिगुणं गानं गानात् परतरं न हि ॥
”)तत्पर्य्यायः । गेयम् २ गीतिः ३ गान्धर्व्वम् ४ ।इति हेमचन्द्रः । २ । १९४ ॥
(गानं हि वैदिक-लौकिकभेदात् द्विविधम् । तत्र वैदिकगानन्तुमुक्तिप्रदं अन्यत् लोकरञ्जनकरम् । वैदिक-लौकिकयोर्मार्गदेशीति नामान्तरमपि श्रूयते ।गानन्तु सामवेदादेव उत्पन्नं यदुक्तं सङ्गीतं-दर्पणटीकायाम् ।“ऋग्भिः पाठ्यममूद्गीतं सामभ्यः समपद्यत ।यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृताः ॥
”द्विविघसङ्गीतयोर्लक्षणमाह सङ्गीतदर्पणे । ३-६ ।“मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् ।द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ।महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥
तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् ।देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥
गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः ।अतो रक्तिविहीनं यत् न तत् सङ्गीतमुच्यते ॥
”गानन्तु नादात्मकमेव नादस्तु यदा स्वयं राजतेतदा स्वर इति प्रसिद्धः स्यात् । स्वरस्तु षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादभेदात्सप्तविधः । एतेषां विज्ञापनार्थं एतदाश्रयीभूत-द्वाविंशतिश्रुतीनां नामानि स्वरस्थितिश्च कथ्यन्ते ।यथा, सङ्गीतदर्पणे । ५३--५६ ।“तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः ।दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥
रौद्री क्रोधा च गान्धारे वज्रिकाथ प्रसारिणी ।प्रीतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥
क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे ।मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥
”अन्यत् विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम् ॥
* ॥
गाने तु रागा रागिण्यश्च प्रयोक्तव्याः अतस्तेषांनामानि कथ्यन्ते । यथा, सङ्गीतदर्पणे स्वरा-ध्याये । १२--१९ ।पार्व्वत्युवाच ।“के रागाः काश्च रागिण्यः का वेला ऋतवश्च के ।किं रूपं कथमुद्धारो वद देव ! प्रसादतः ॥
”ईश्वर उवाच ।“श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा ।मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः ॥
”इति षट् रागाः ॥
अथ रागिण्यः ।“मालश्री त्रिवणी गौरी केदारी मधुमाधवी ।ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः ॥
देशी देवगिरी चैव वराटी तोडिका तथा ।ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥
भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा ।वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः ॥
विभाषा चाथ भूपाली कर्णाटी वडहंसिका ।मालवी पटमञ्जर्य्या सहैताः पञ्चमाङ्गनाः ॥
मल्लारी सौरटी चैव सावेरी कौशिकी तथा ।गान्धारी हरशृङ्गारा मेघरागस्य योषितः ॥
कामोदी चैव कल्याणी आभिरी नाटिका तथा ।सारङ्गी नट्टहम्बीरा नट्टनारायणाङ्गनाः ॥
”इति षट्त्रिंशत् रागिण्यः ॥
रागरागिणीनां विशेषविवरणन्तु तत्तच्छब्देगानस्य अन्यद्विवरणं गीतशब्दे च दर्शनीयम् ॥
)ध्वनिः । इति धरणी ॥
वाचस्पत्यम्
Sanskritगान गै--भावे--ल्युट् । १ गीतौ । गानं हि द्विविघं लौ-किकं वैदिकञ्च । तत्र लौकिकगानस्य लक्षणादि गीत-शब्दे वक्ष्यते वैदिकस्य लक्षणादि जै० ९ । २ । २९ सूत्र-भाष्यादौ उक्तं यथा“अर्थैकत्वात् विकल्पः स्यात्” २९ सू० । “सामवेदेसहस्रं गीत्युपायाः । आह, के इमे गीत्युपायाःनाम?” । उच्यते, --गोतिर्नाम क्रिया, सा आभ्य-न्तरप्रयत्न जनितस्वरविशेषाणामभिव्यञ्जिका, सा साम-शब्दाभिलप्या, सा च नियतपरिमाणायामृचि गीयते, तत्सम्पादनार्थाः ऋक्षु अक्षरविकारो विश्लेषो विकर्षणम-भ्यासो विरामः स्तोभ इत्येवमादयः सर्वे समधिगताःसमाम्नायन्ते । तेषु संशयः, --किं समुच्चीयन्ते उतविकल्प्यन्ते?--इति । किं तावन्नः प्रतिभाति” सर्वेषांसमाम्नानात् सर्वाङ्गोपसंहारित्वाच्च प्रयोगवचनस्य समु-च्चीयेरन्निति एवं प्राप्ते ब्रूमः, “अर्थैकत्वाद्विकल्पःस्यात्” इति । एकार्था हि गीत्युपायाः, --गीतिः कथनिर्वर्त्त्येतेति प्रयुज्यन्ते, तत्रान्यतरेण गीतौ निर्वृत्तायानेतरे प्रयोगमर्हन्ति । तस्माद्विकल्प इति” । तत्र स्वराःउत्क्रुष्टादयः षष्ठान्ताः सप्त सामविधानब्रा० १ । १ । उक्ताःयथा “तद्योसौ क्रुष्टतमैव साम्नः स्वरस्तं देवा उपजी-वन्ति येऽवरेषां प्रथमस्तं मनुष्यायो, द्वितीयस्तं गन्धर्वाप्स-रसो, यस्तृतीयस्तं पशवो, यश्चतुर्थस्तं पितरो ये चाण्डेषुशेरते, यः पञ्चमस्तमसुररक्षांसि, योऽन्त्यस्तमोषधयोवनस्प-तयोयच्चान्यज्जगत्, तस्मादाहुः सामैवान्नमिति सामह्येषामुपजीवनं प्रायच्छत् । उपजीवनीयो भवति यएवंवेद तस्य ह वा एतस्थ साम्न ऋगेवास्थीति स्वरोमांसानिस्तोभा लोमानि । योह वै साम्नः स्वं यः सुवर्ण्णं वेदस्वं च ह वै साम्नः सुवर्ण्णं च भवति स्वरो वाव साम्नःस्वं तदेव सुवर्ण्णम्” ।छान्दोग्ये च “का साम्नो गतिरिति स्वर इति होवावाच” “स्वर इति स्वरात्मकत्वात् साम्नः, यो यदा-ष्मकः स तद्गतिस्तदाश्रयश्च भवतीति मृदाश्रय इवघटादि” भा० । सामसंहिताभाष्येऽपि तथैवोक्तं यथा“साम--शब्द--वाच्यस्य गानस्य स्वरूपमृगक्षरेषु क्रुष्टा-दिभिः सप्तभिः स्वरैः, अक्षरविकारादिभिश्च निष्पाद्यते ।क्रुष्टः प्रथमः द्वितीयस्तृतीयश्चतुर्थः पञ्चमः षष्ठश्च इत्येतेसप्त स्वराः ते चावान्तरभेदैर्बहुधा भिन्नाः । स्वरस्यसाम--निष्पादकत्वं छान्दोग्योपनिषदः प्रथमे प्रपाठकेप्रश्नोत्तराभ्यामामनन्ति” ।तत्राक्षरविकारविषये पूर्वोत्तरपक्षौ जै० ९ । २ । ३२ । सूत्रा-दिभाष्ययोर्दर्शितौ यथा“सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात्”सू० ३२ । “इदमाम्नायते, --‘रथन्तरमुत्तरयोर्गायति, यद्-योन्यां तदुत्तरयोर्गायति कवतीषु रथन्तरं गायति, वि-राट्सु वामदेव्यम्” इति । तत्र सन्देहः, --किमुत्तरावर्ण-वशेन गातव्यं, किं योनिवर्ण्णवशेन? । कथमुत्तरावर्ण्ण-वशेन गीतं भवति? कथं वा योनिवर्ण्णवशेन?इति । उच्यते, किञ्चिदुदाहरणं गृहीत्वा व्याख्या-स्यामः, --यदा तावत् वृद्धन्तालव्यमाई भवति इतियोनौ यस्मित् भागे आईभावः क्रियते, ततो योनिवर्ण्ण-वशेन गीतं भवति, अथ भागान्तरे वृद्धन्तालव्यं दृष्ट्वाआईभावः क्रियते, तत उत्तरावर्णवशेन गीतं भवति ।किं पुनरत्र कर्त्तव्यम्?--योनिवर्णवशेनेति । कथम्? ।यावति भागे ५ एकारस्य योनौ ईभावः कृतस्तंविचारयामः, --किं तत्र कृतमिति?--एकारो नोच्चारितः, ईकाराकारौ आगामिताविति, एवञ्चेदुत्तरास्वपि ताव-त्येव भागे योवर्णः, स न उच्चारयितव्यः, ईकाराकारौआगमयितव्यौ इति । एवं, यद्योन्यां तदुत्तरयेर्गीतंभवात । तस्माद्योनिवर्णवशेन गातव्यमिति । अपि चैवंगीतिर्न नङ्क्ष्यति, इतरथा क्वचित् प्रणश्येत् यत्र महतीगीतिः अल्पेषु अक्षरेषु गीयते, तत्र व्यक्तं प्रणश्यतियद्युत्तराक्षरवशेन क्रियते, तस्माद्योन्यक्षरवशेन कर्त्त-मिति । अपिच कचित् क्रम उपरुध्यते यत्रक्रमे आई-भावभाग्वर्णः, आर्षश्च क्वचिदुपरुध्यते, यत्र प्राकृतआगमो नैव क्रियते, तत्र स्वाध्यायकाले गानेन च कर्म-कालं गानमविरुद्धं कर्त्तव्यं, तस्मात् योन्यक्षरवशेनकर्त्तव्यमिति “सामप्रदेशे विकारः” आईभावादिः, “तद-पेक्षः” योन्यपेक्षः, एतत् शास्त्रेण कृतः, --“यद्योन्यांतदुत्तरयोः” इति, यावति साममागे योनौ आईभावःकृतः, तावत्येवोत्तरासु कर्त्तव्यः” भा० । “वर्णे तु वाद-रिर्यथाद्रव्यं द्रव्यव्यतिरेकात्” ३३ सू० । “उत्तरावर्णवशेनकर्त्तव्यं वादरिर्मन्यते स्म, न योनिभागवशेन । कुतः? ।योऽसौ प्रकृतौ आईभावः कृतः, नासौ आगमः, न चतत्र एकारलोपः, किन्तर्हि? एकारो नाम आवर्णम्ईवर्णञ्च आवर्ण्णं संवृतम्, ईवर्ण्णं विवृतम्, उभे अपिच दीर्घे, ताभ्यामसाधुभ्यां सन्ध्यक्षरं साधु जन्यते ।तत्र प्रकृतौ आकारेकारौ विश्लेषितौ, नापूर्वावागमितौ, गुणस्तु तयोः कश्चिदपूर्वः कृतः । सर्वत्रात्र प्रसाणं प्रत्यक्षंतद्यत्र, तावति भागेऽन्यो वर्णो भवति, न सन्ध्यक्षरं, तत्र संश्लेषाभावे विश्लेषो न शक्यः कर्त्तुम्, अन्यस्मिन्भागे यत्र सन्ध्यक्षरं भवति, तत्र तद्वशाद्विश्लषः क्रियतेएवं, यद्योन्यान्तदुत्तरयोः कृतं भवति, योन्यां हिसंश्लिष्टयोर्विश्लेषः कृतः, इहापि संश्लिष्टयोर्विश्लेषः, इतरथा व्यतिरिक्तं कल्पितं स्यात् अथ यदुक्तंः, --गीतिःप्रनङ्क्ष्यतीति, न प्रनङ्क्ष्यतीति, विनामं कृत्वा अनक्षरंगायिष्यते । संश्लेषभावाच्चाशक्यो विश्लेषः, आर्षक्रमौनीपरोत्स्येते” भा० ।स्तोभविषये च तथैव तौ पक्षौ तत्रैव ९ । २ । ३४ । ३९ सूत्रादौदर्शितौ यथा“स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत्” ३४ सू० । “कव-तीषु रथन्तरं गायति, रथन्तरसुत्तरयोर्गायति यदुयोन्यां तदुत्तरयार्गायति” इति । तत्रोत्तरावर्णवशेनगातव्यमित्येतत् समधिगतम् । अथेदानीम् इह संदि-ह्यत, --किं स्तोभाः प्रदिश्यन्ते न वा? इति । किंप्राप्तम्?--न प्रदिश्यन्ते इति । कुतः । गीतिर्हिसाम, न स्तोभाः, या गीतिः, सा प्रदिश्यते, “यद्योन्यांतदुत्तरयोर्गायति” इति गायतिशब्दसम्बन्धात् । अपिच ऋकशब्दार्थैरसंबध्यमानः स्त्रोभोऽनर्थकः स्यात्, तस्मादपि न प्रदिश्येत । अपिच क्वचिद्भवति वचनम्, -“ऐन्द्र्यामवभृथसाम गायति” इति, तत्रानुपत्तिर्भवेत्शीतफर्मा हीन्द्रो वाक्यशेषेभ्योऽवगम्यते । तस्य “तपति”इत्यनेन सम्बन्धो न स्यात् । तस्मात् स्तोभस्य ऋगन्तरेनिवृत्तिः, यथा ऋगक्षराणामगीतित्वात् निवृत्तिरेवंस्तोभाक्षराणामपीति” भा० । “सर्व्वातिदेशस्तु सामा-न्याल्लोकवद्विकारः स्यात्” ३५ सू० । “नैतदस्ति, --स्तोभानांनिवृत्तिरिति, सर्वातिदेशो हि भवति, ऋक्--स्तोभ-स्वर--कालाभ्यासविशिष्टायाः गीतेः सामशब्दो वाचकः ।कथमवगम्यते? । तत्र प्रयोगात्, यदि स्तोभा निवर्त्ते-रन्, तत्कृतो विशेषो नोप्रसंहितः स्यात् तत्र शब्दोघाध्येत! तस्मात् स्तोभाः पदिश्येरन् थत्तूक्तम्, -ऋक्शब्दार्थैः असम्बध्यमानाः स्तोभा अनर्थका भवेयुः, षत्र ब्रूमः, --“लोकवत्” न अनर्थका भविष्यन्ति । तद्यथा, लोके गायनैरङ्गव्यञ्जकानि यानि नाम पक्षिप्यन्ते, तानिगीतिकालगणनार्थानि, नार्थसम्बन्धाय उच्चार्य्यन्ते, सुखंह्यक्षरैः गीतिकालः परिच्छिद्यते, तद्वदिहापि कालप-रिच्छेदार्थानि स्तोभाक्षराणि अनुवर्त्तेरन्निति” भा० ।“अन्वयतश्चापि दर्शयति” ३६ सू० । “अन्वयतश्चापि स्तोभान्दर्शयति, यत्रार्थिकानि पदानि निवर्त्तन्ते, “स्तोभागेह्माश्चानुयन्ति” इति, “स्तोभाः” स्तोभा एव “गेह्माः”स्वराः । तस्मादपि स्तोभाः प्रदिश्यन्ते” भा० । “निवृ-त्तिर्वाऽर्थलोपात्” ३७ सू० । “ताशब्दात्पक्षो विनिवर्त्त्यते ।‘निवृत्तिः’ ‘अग्निष्टपति’ इत्येवञ्जातीयकाः, शीतकर्माहीन्द्री वाक्यशेषे उपलभ्यते, न तेनैवंजातीयकाः स्तोभाःसम्बध्येरन्निति । अन्वयात्सम्बध्यन्ते लोकवदिति यदुक्तं, तत्परिहर्त्तव्यम्” भा० । “अन्वयो वार्थवादः स्यात्”३८ सू० । “अन्वीयुर्वा एवञ्जातीयकाः स्तोभाः, नहि वय-मिन्द्ररूपं प्रत्यक्षमुपलभामहे, यच्च वाक्यशेषवचनं, सोऽ-र्थवादः” भा० । “अधिकञ्च विवर्णञ्च जैमिनिः स्तीभशब्द-त्वात्” ३९ सू० । “अथ कः स्तोभो नाम, ? तस्य लक्षणंकर्त्तव्यम्, उच्यते, --य ऋगक्षरेभ्योऽधिको न चतैः सवर्णः स स्तोभो नाम, ईदृशे हि लौकिकाः स्तोभ-शब्दमपचरन्तीति, --तद्यया देवदत्तेन सभायां परंप्रलपता बहुस्तोभं कथितमिति, यदर्थवचनेभ्योऽधिकविवर्णञ्च, तत् आलोच्य एवंवक्तारो भवन्ति । लक्षणप्रयोजनं न वक्तव्यं, लक्षणकर्मणो हि तदेव प्रयोजनं, यल्लक्षितो भविष्यतीति । किमर्थमुभयं सूत्रितं? नन्व-न्यतरत् पर्य्याप्तम् अधिकमिति वा” इति । नेत्याह, -भवति हि किञ्चित् अधिकं न सवर्णं, --यथा अभ्यास, -“तोयाई, तोयाई” इति, तथा किञ्चित् विवर्णं, नाधिकं, -यथा विकारः, --“ओग्नाइ” इति । तस्मादुभयं सूत्र-यितव्यमिति “भा० ।विवृतञ्चैतत् सामसंहिताभाष्ये यथा“समुच्चेया विकल्प्या वा विभिन्ना गीति--हेतवः ।आद्यः प्रयोगग्रहणादर्थैकत्वाद् विकल्पनम् । छान्दोग्येतवल्कारादि--शाखा--भेदेषु विलक्षणा गीति--हेतवोऽक्षर-विकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुच्चे-तव्याः, कुतः? प्रयोगवचने सर्वेषां परिगृहीतत्वात्-मैवम्, एकैक--शाखोक्तैरेवाक्षर--विकारादिभिरध्ययन--का-लएव गीति--स्वरूपनिष्पत्ते स्तन्निष्पत्ति--लक्षणस्य प्रयो-जनस्यैकत्वात्, प्रयोग--वचन--परिगृहीता अपि व्रीहि-यव--वद् वृहद्रथन्तरवच्च विकल्प्यन्ते” इति । गीतिहेतुषुस्तोभस्यात्यन्तमप्रसिद्धत्वात्तल्लक्षणं तस्मिन्नेव पादे एका-दशाधिकरणे चिन्तितम्--“स्तोभस्य लक्षणं नास्ति किंवास्ति न विवर्णता । आधिक्यमप्यतिव्याप्त विशिष्टंलक्षणं भवेत् । न तावद् विवर्णत्वं लक्षणम्, वर्ण-विकारस्य बिपरीत--वर्णत्वेन स्तोभत्व--प्रमङ्गात्, “अग्न-आयाहि” (छ, १ प्र, १ द, १) इत्यस्यामृचि अकारस्य स्थानओकारं कृत्वा गायन्ति “ओग्नाइ” इति (गे० प्र १ सा १) ।अधिको वर्णः स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः, “पिबासोममिन्द्रमन्दतुत्वा” इत्येतस्यामृचि दतुत्वेत्यक्षर--त्रयंगानकाले त्रिरभ्यस्तम् । अतोविकाराभ्यासयोरतिव्या-प्तेर्नास्तिलक्षणम्--इति चेद्--मैवम्, अधिकत्वे सत्यृ-ग्विलक्षण--वर्णः स्तोभः” इति विशिष्टस्य तल्लक्षणत्वात्, लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितंकाल--क्षेप--मात्र--हेतुं शब्दराशिं स्तोभ इत्याचक्षते, तस्मादस्ति लक्षणम्” इति । अक्षर--विकार--स्तोभादि-वत् वर्ण--लोपोऽपि क्वचिद् गीति--हेतुर्भवति, तल्लोप-विषयश्च विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिक-रणेऽभिहितः--१० “इरा गिरा विकल्पः स्यादुतेरैवा-विशेषतः । आद्यमैर बाध--पूर्वमिरायाविहितत्वतः ।ज्योतिष्टोमे श्रूयते “यज्ञाशज्ञीयेन स्तुवीत”--इति ।‘यज्ञायज्ञा’--इत्यनेन शब्देन युक्तायामृच्युत्पन्नं सामयज्ञायज्ञीयम्, तस्यामृचि गिराशब्दः पठ्यते ‘यज्ञायज्ञा वो अग्नये गिरा गिरा च दक्षसे’--इति । तत्रसामगा यीनिगानमधीयानाः सहैव गकारेण गायन्ति‘गायिरा गिरा’--इति, ब्राह्मणे तु गकार--लोप--पूर्वक-माकार--यकारादिकगानं विधीयते ‘ऐरं कृत्वोद्गेयम्’-इति, गिरा--शब्दे गकार--लोपात् इराशब्दो भवति, इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोग-काले तद्गानं कर्त्तव्यमित्यर्थः । तत्र योनिगान--ब्राह्म-णयोः समान--बलत्वेन विशेषाभावात् विकल्पेन प्रयो-क्तव्यम्--इति प्राप्ते, ब्रूमः--“न गिरा गिरेति ब्रूयाद्, यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्गाता गिरेत्”इति गकार--सहित--गाने बाधकमुक्त्वा गकार--रहित-भिरा--पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्यगानार्थमाकारोयकारैकारश्चेति त्रीन् वर्णान् प्रयुञ्जते, ततः ‘आयिरा’--इत्येव गातव्यम्” इति । तत्रैवोप-रितनाधिकारणे कश्चिद् विशेषश्चिन्तितः--११ “इरापदंन गेयं स्याद् गेयं वा गोत्यनुक्तितः । न गेयं गीय-मानस्य स्थाने पातात् प्रगीयते । व्राह्मणेन निहित-इराशब्दो न गातव्यः, कुतः? ऐरमिति शब्देन गीते-रनुक्तत्वात्, पाणिनीयेन ‘विमुक्तादिभ्योऽण् [५, २, ६१]इति सूत्रेणेराशब्दादण्--प्रत्ययोमत्वर्थीयो विहितः, तथासतीरापदोपेतं कृत्वेत्येतावानेवार्थो भवति, यदिप्रगीतेरापद--सम्बन्धः तद्धितेन विवक्ष्येत, तदानीमा-कारो यकारैकारोरेफआकारश्चैतैः पञ्चभिवर्णैर्निष्पन्न-मायिरा--रूपं गीयमानैरा--शब्द--प्रातिपादिकं भवति, तादृशात् प्रातिपदिकात् पाणिनीयेन ‘वृद्धाच्छः [४, २, -११४]’--इति सूत्रेण छप्रत्ययान्तरे सति, आयिरीयंकृत्वेति ब्राह्मणपाठो भवेत्, तस्मान्न गेयम्--इति प्राप्ते, व्रूमः--गीयमानस्य गिरा--पदस्य स्थाने इरापदंविधीयते--इतिपदमात्रस्य बाधः, गानन्तु न वाध्यते, किञ्च विमुक्तादिसूत्रेणाण्--प्रत्ययेऽषि, पूर्वस्मात् ‘मतौ छःमूक्त--साम्नोः [५, २, ५९]--इति सूत्रात् सामानुवृत्तेरैरंसामेत्यर्थो भवति, सामत्वं च गीति साध्यम्, यदातु ‘तस्य विकारः [४, ३, १३४]’--इत्यर्थे अण्प्रत्ययः, तदानीमिरायाविकार इति विग्रहेयथोक्तं नानं लभ्यते, तस्माद् गातव्यम्” इति । तत्रैव ऋगक्षराणां संस्कार-कत्वं गानात्सकसाम्नो व्यवस्थाप्योक्तं यथायथोक्तमृगक्षराणां संस्कारकं गीत्यात्मकं यत् सामतदेतदेकैकं छन्दोगा एकैकस्यामृचि ‘वेदसाम--नामकेग्रन्थेऽधीयन्त, ऊहनामके तु ग्रन्थं एकेकं साम तृचेऽ-धीयते सोऽयमूहग्रन्थः तस्मिन्नेव पादे प्रथमाधिकरणस्यद्वितीयवर्णके विचारितः--“ऊहग्रन्थोऽपौरुषेयः पौ-रुषेयोऽथवाग्रिमः । वेदसाम--समानत्वाद् विधि--सार्थ-त्वतोऽन्तिमः । यस्मिन् ग्रन्थे सामगास्तृचे तृचे सामै-कैकं गायन्ति सोऽयमूहग्रन्थोनित्यो न तु पुरुषेणनिर्मितः, कुतः? अनध्यायवर्जनेन कर्त्तुरस्मरणेनाध्या-पकानां वेदत्वप्रसिद्ध्या च वेदसाम--नामक--योनि--ग्रन्थ-सदृशत्वात्, इति चेत्--मैवम्, अपौरुषेयत्वं विधि-वैयर्थ्य--प्रसङ्गात्--‘यद्योन्यां तदुत्तरयोर्गायति’--इतिविधीयते । अयमर्थः--अपौरुषेयत्वेन सम्प्रतिपन्नेवेदसाम--नामके ग्रन्थे ‘कया नश्चित्र आ भुवत्’इत्येतस्यां योन्यामेकस्यामृचि यद्--वामदेव्य--नामकंसामोपदिष्टं तदेवोत्तरयोरृचोः ‘कस्त्वासत्योमदानाम्’“अभी षु णः सस्वीनाम्” इत्यतयोः द्वितीयतृतीययो-र्गातव्यम्--इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्, “वेदसाम--वदध्ययनादेव तत् प्रसिद्धेः । उपरितनऋग्द्वयेसामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभू-तानां तिसृणामृचां च वेदत्वादनध्याये वर्जनीयाःकर्त्तुरस्मरणं जीर्णकूपारामादिष्विव चिरकाल--व्यवधा-नादुपपन्नम्, अ--स्मरण--मूलिकैवाध्यापकानां वेदत्वप्रसिद्धिःयथावह्वृचानामध्यापकामहाब्रत--प्रयोग--प्रतिपादकमाश्व-लायन--निर्मितं कल्पसूत्रमारण्येऽधीयमानाः पञ्चममा-रण्यक मिति वेदत्वेन व्यवहरन्ति तद्वत् । न च तस्यापिवेदत्वमस्त्विति वाच्यम्, प्रथमारण्यकेन पुनरुक्तत्वात्, अर्थवाद--राहित्येन ब्राह्मणसादृश्याभावाच्च । तस्मात्पञ्चमारण्यकवदूहः पौरुषेयः, पौरुषेयस्य च न्याय-मूलत्वात् यत्र वक्ष्यमाणन्याय--विरोध--स्तदप्रमाणम्” ।अत्रेदं दिग्मात्रमुदाह्रियते । “अग्न आयाहि वीतयंगृणानो हव्यदातये । निहोता सत्सि बर्हिषि” साप्रथमा ऋक् । तस्या अक्षरविकारदिभिरेवं गानम्यथा “ओग्नाई आयाही ३ वीइ (यि) तोयाई तोयाईगृणानो ह, व्यदा तोयाई तोयाई नाइ हो तास३ माइ वा औ हो वा हीषि” । तत्र अग्न इत्यत्र अद्यस्य वर्णविकारे ऐत्यस्य स्थाने ओरूपो विकारः । एवंए इत्येकारस्थाने आई इति विश्लेषणम् । आयाइत्यत्र दीर्घता इति वर्णविकारः । वी इत्यत्र वीइ(यि) विश्लेषणम् । त इत्यस्य तो इति विकारः । गेइत्यत्र एकारस्य आई, इति विश्लेषे ताई इति ।तोयाई तोयाई इत्यभ्यासः । गृणानोह, इतिहव्यदातय इत्यस्यैकदेशे विरामः । व्यदातये इत्यत्र तइत्यत्र अकारस्य ओ इति विकारे ये इत्यत्र आई इतिविश्लेषे च तोयाई इति तस्य चाभ्यासः । नि इत्यत्र नायिइति वर्णविकारः । हो इत्यत्र विरामः । ता इतियथास्थितम् सत्सीत्यस्य स इत्यत्र विरामः दीर्घश्चाक्षरागमःवर्णविकारः । त्सि इत्यस्य स्थाने त्साय इति तलोप-विकारौ । वर्हिषि इत्यस्य व इत्यत्र विरामो दीर्घश्च ।औहो वा इति स्तोभः ऋगक्षराधिकत्वात् । र्हिषिइत्यत्र दीर्घरलोपौ अक्षरविकारश्च । एवमन्यत्राप्यूह्यम् ।एवंरूपेण अक्षरविकारादि तु नारदशिक्षाद्यनुसारेणोन्नयम् । सामभेदाश्च रथन्तरादयः गानविशेषा एवयथाह सामसं० भाष्ये“यदुक्तं “गीतिषु सामाख्येति” जै० सू० तदेव विशदी-कर्त्तुं सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः-“अतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम् । गायती-त्यृग् गानयुक्ता शब्दार्थोगानमेव वा । इति चिन्तागानयुक्ता त्वभित्वेत्यृक् प्रसिद्धितः । लाघवादतिदेशस्ययोग्यत्वाच्चान्तिमोभवेत् । इदमाम्नायते--“कवतीषु रथ-न्तरं गायति”--इति, “कया नश्चित्र आभुवदित्याद्यास्तिस्र-ऋचः कवत्यः, तासु वामदेव्यं सामाध्ययनतः प्राप्तम्तस्मादिदं रथन्तरं साम तास्वतिदिश्यते, तत्रातिदेशस्यस्वरूपं निश्चेतुं रथन्तर--शब्दार्थश्चिन्त्यते । गानविशेषयुक्ता“अभि त्वा शूर नोनुम” इतीयमृग् रथन्तरमित्युच्यते, कुतः? अध्येतृ--प्रसिद्ध्वितः रथन्तरं गीयतामितिकेनचिदुक्ताः अध्येतारः स्वर--स्तोभविशेषयुक्ताम्अभित्वेत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम् तस्माद्गान--विशिष्टायाऋचोरथन्तर--शब्दार्थत्वमिति प्राप्ते, ब्रूमः स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षर--व्यतिरिक्तंयद् गानं तदव रयन्तरशबदार्थः, कुतः? लाघबात्, किञ्च कवतीष्वृक्षु गानमतिदेष्टु योग्यम् । नत्वृचस्तद्यो-ग्यतास्ति, कयानोऽभित्वेत्यनयोरृचोर्युगपदाधारा-धेयभावेन पठितुमशक्यत्वात्, तस्माद् गानविशेषएव रथ-न्तरशब्दार्थः इति । पुनरपि नवमाध्यायस्य द्वितीय-पादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गान-मात्र--वाचित्वं स्मारितम्--“सामोक्ति--वृहदाद्युक्तीगीतायामृचि केवले । गाने वा गानएवेति स्मार्यतेसप्तमोदितम् । सामान्यवाची सामशब्दो विशेषवाचिनोबृहद्रथन्तरादि--शब्दाश्च गानमात्रे वर्त्तन्ते, न तु गान-विशिष्टायामृचि--इत्ययं नियमः सप्तमस्य द्वितीयपादेसिद्धः” । वेदगानग्रन्थे ऊहगानग्रन्थे चास्य विस्तरः ।तद्भेदाश्च सामशब्दे वक्ष्यन्ते ।गा--गतौ ल्युट् । २ गमने । गा स्तुतौ ल्युट् । ३ स्तवने ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
