| YouTube Channel

गाधृ (gAdhR)

 
Shabdartha Kaustubha
Kannada
गाधृ - प्रतिष्ठालिप्सयोर्ग्रन्थे (भ्वा० आत्म० प्रतिष्ठायामकर्मकः लिप्सायां ग्रन्थे सक० से०) गाधते
पदविभागः - > धातुः
कन्नडार्थः - > ಸ್ಥಿರವಾಗಿ ನಿಲ್ಲು
प्रयोगाः - > "गाधितासे नभौ भूयः स्फुटन्मेघघटावलि"
उल्लेखाः - > भट्टि० २२-२
गाधृ - प्रतिष्ठालिप्सयोर्ग्रन्थे (भ्वा० आत्म० प्रतिष्ठायामकर्मकः लिप्सायां ग्रन्थे सक० से०) गाधते
पदविभागः - > धातुः
कन्नडार्थः - > ಅಪೇಕ್ಷಿಸು /ಆಸೆ ಪಡು
गाधृ - प्रतिष्ठालिप्सयोर्ग्रन्थे (भ्वा० आत्म० प्रतिष्ठायामकर्मकः लिप्सायां ग्रन्थे सक० से०) गाधते
पदविभागः - > धातुः
कन्नडार्थः - > ಜೋಡಿಸು /ಒಟ್ಟಿಗೆ ಸೇರಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गाध्
मूलधातुः:
गाधृ
धात्वर्थः:
प्रतिष्ठा-लिप्सयोः ग्रन्थे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
गाधते
धातुप्रदीपः
Sanskrit
गाधृँ गाधृ प्रतिष्ठा, लिप्सयोः, र्ग्रन्थे
- गाधते जगाधे अजगाधत् गाधनः ।। 4 ।।
क्षीरतरङ्गिणी
Sanskrit
गाधृँ गाधृ प्रतिष्ठा, लिप्सयोः, ग्रन्थे
(अर्थविवरणम्) प्रतिष्ठा आस्पदम्
(अर्थविवरणम्) लब्धुमिच्छा लिप्सा
(अर्थविवरणम्) ग्रन्थनं ग्रन्थः
अस्य पृथक्पाठो विरलप्रयोगार्थः गाधते गाधिता ऋदित्त्वात् नाग्लोपिशास्वृदिताम् (7/4/2) इति णौ चङि उपधाह्नस्वो नास्ति - अजगाधत् अजगाधम् अतलस्पर्शम्4
धातुवृत्तिः
Sanskrit
गाधृँ गाधृ (अर्थः) प्रतिष्ठा, लिप्सयोः, ग्रन्थे
(अर्थविवरणम्) स्थापना तत्स्थापनं वा प्रतिष्ठा
(अर्थविवरणम्) लब्धुमिच्छा लिप्सा
(अर्थविवरणम्) एकत्र स्थापनं संदर्भो वा ग्रन्थः
तत्राद्ये ऽकर्मकः, इतरयोः सकर्मकः, ( गाधते गाधसे गाधे गाधमानः जागाधं गाधिता गाधितासे गाधिताहे गाधिष्यते गाधिष्यमाणः गाधताम् गाधस्व गाधै अगाधत अगाधथाः गाधेय आशिषि गाधिषीष्ट गाधिष्ट अगाधिष्ठाः अगाधिषि अगाधिष्यतेत्यादि ) भावकर्मकर्तृषु लट्लोट्लङ्विध्यादिलिङ्क्षु यक् (गाध्यते गाध्यसे गाध्यताम् अगाध्यत गाध्येतेत्यादि) (अन्येषु लेषु कर्तृवत्, लुङयेकवचने तु चिणि (अगाधीति ) लिप्यायामप्यार्थेन न्_यायेनेष्यमाणप्रधानत्वात्तस्य कर्मस्थत्वात्सनन्तवत् कर्मकर्तृत्वोवपत्तिः ( जिगाधिषते जिगाधिषां चक्रे जिगाधिषिता जिगाधिषिष्यते जिगाधिषाताम् अजिगाधिषत जिगाधिषेत ) आशिषि ( जिगाधिषिषीष्ट अजिगाधिइष्ट अजिगाधिषिष्यतेत्यादि ) सर्वत्राभ्यासकार्यम् आर्धधातुकेऽतो लोपः, भावकर्मणोर्यक्चिण्विषये ( जिगाधिष्यते ) अजिगाधिषीत्यादि कर्मकर्त्तरि यक्चिणोर्निषेधात् कर्तृवदेच ( जागाध्यते ) जागाधां चक्रे जागाधिता जागाधिष्यते जागाध्यताम् अजागाध्यत जागाध्येत ) आशिषि ( जागाधिषीष्ट अजागाधिष्ठ अजागाधिष्यत )सर्वत्राभ्यासस्य दीर्घोऽकितः'' आर्धधातुके "अतो लोपः'' "यस्य हल'' इति यलोपाल्लोपौ भावादिषु यक्यप्यल्लोपयलोपयोः सर्वत्र कर्तृवद्रूपम् लुङयेकवचने त्वजागाधीतिचिण्विशेषः सन्यङोश्चिण्वदिव्यतोलोपेन वृद्धिबाधाद्न विशेष इत्युक्तम् यङलुकि "झषस्तथोर्धो ऽधः'' "झलां जश् झशि'' ( जागद्धीत्येवं )सिपि ( सूत्रम्) एकाचो बशो भष् झषन्तस्य स्ध्वोः (इति सूत्रम्) इति धातोररवयवस्य झषन्तस्यैकाचो बशः स्थाने भषादेशः सकारादौ प्रत्यये ध्वे परे पदान्ते विषये इतयान्तरम्यात् गकारस्य घकारे "खरि च'' इति धकारस्य तकारे ( जाधात्सीति जगाधां चकार ) "पूर्वतत्कृञ'' इति परस्मैपदम् ( जागाधिता जागाधिष्यति जागाद्धु जगाद्धात् जागाधानि अजाघात् अजाघाद् ) हलङ्यादिलोपे पदान्ते चेति बशो भषादेशे जश्त्वे चर्त्वम् सिपि तु "दश्च''इति वा रुत्वे ( अजाघा इत्यपि जागाध्यात् जागाध्याताम् आशिषि जागाध्यात् जागाध्यास्ताम् अजागाधीत् अजाधिष्टाम् अजागाधिष्यदित्यादि) सर्वत्र यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्य पक्षे ईडुदाहायेः लुङितु "अस्तिसिचो'' इति नित्यः भावादौ यङन्तवत् ( गाधयति गाधायां चकार गाधयिता गायिष्यति गाधयतु आधयत् गाधयेत् ) आशिष्यनिडाद्यार्धधातुकत्वाण्णिलोपे ( गाध्यात् अजगाधत् ) अत्रास्य ऋदित्त्वात् "नाग्लोपिशास्वृदिताम्'' इति णै चङि हस्वे निषिद्धेभ्यासस्यालघुपरत।वात्सन्वदित्वलघुदीर्घंत्वेन भवतः (गाधयत) इत्याद्युदाहार्यम्, प्रतिष्ठायाम् "अणावकर्मकात्'' इति चित्तवत्कर्त्तृ कत्वे परस्मैपदमेव भावकर्मणोर्यक्चिणोर्विषयेणिलोपे गाधतिवद्रपम् स्यादिषु तु ण्यन्ते कर्तृ वत् चिण्वदिटि तु णिलोपे गाधितेत्यादि प्रकृतिवदेव कर्मकर्तरि यक्चिणोनिषेधान्रवसु लकारेषु कर्तृ वत् (गाधनः) "अनुदात्तेत'' इति युच् (गाधा ) "गुरोश्च हलः'' इत्यकारः, प्रतिष्ठायां स्पर्द्धिवत्, भावकर्त्रधिकरणेषु क्त उदाहार्यः, इतरयोस्तु "तयोरेव'' नियमात्कर्मणि4
कृदन्तरूपमाला
Sanskrit
1 {@“गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च”@} 2 3 ‘ग्रन्थे च’ इति पृथक्पाठो विरलप्रयोगार्थः।
इति क्षीरस्वामी।]] “आत्मयापनं तत्साधनं = प्रतिष्ठा।
लब्धुमिच्छा = लिप्सा।
एकत्र स्थापनं, सन्दर्भो वा ग्रन्थः।
तत्र--आद्ये, अकर्मकः, इतरयोः सकर्मकः।” इति माधवधातुवृत्तौ।
गाधकः-धिका, गाधकः-धिका, जिगाधिषकः-षिका, 4 जागाधकः-धिका
गाधिता-त्री, गाधयिता-त्री, जिगाधिषिता-त्री, जागाधिता-त्री
5 -- 6 गाधयन्-न्ती, गाधयिष्यन्-न्ती-ती
-- गाधमानः, गाधयमानः, जिगाधिषमाणः, जागाध्यमानः
गाधिष्यमाणः, गाधयिष्यमाणः, जिगाधिषिष्यमाणः, जागाधिष्यमाणः
7 सुघात्-सुघाद्-सुगाधौ-सुगाधः
-- -- 8 गाधितम् 9 -तः, गाधितः, जिगाधिषितः, जागाधितः-तवान्
गाधः, 10 गाधनः, 11 प्रगाधी, गाधः, जिगाधिषुः, जागाधः
गाधितव्यम्, गाधयितव्यम्, जिगाधिषितव्यम्, जागाधितव्यम्
गाधनीयम्, गाधनीयम्, जिगाधिषणीयम्, जागाधनीयम्
गाध्यम्, गाध्यम्, जिगाधिष्यम्, जागाध्यम्
ईषद्गाधः-दुर्गाधः-सुगाधः
-- -- गाध्यमानः, गाध्यमानः, जिगाधिष्यमाणः, जागाध्यमानः
गाधः, गाधः, जिगाधिषः, जागाधः
गाधितुम्, गाधयितुम्, जिगाधिषितुम्, जागाधितुम्
12 गाधा, गाधना, जिगाधिषा, जागाधा
गाधनम्, गाधनम्, जिगाधिषणम्, जागाधनम्
गाधित्वा, गाधयित्वा, जिगाधिषित्वा, जागाधित्वा
प्रगाध्य, प्रगाध्य, प्रजिगाधिष्य, प्रजागाध्य
गाधम् २, गाधित्वा २, गाधम् २, गाधयित्वा २, जिगाधिषम् २, जिगाधिषित्वा २, जागाधम्
जागाधित्वा २।
प्रासङ्गिक्यः
01
=>
(३९४)
02
=>
(१-भ्वादिः-४। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
[[५। यङन्तात् आर्धधातुकप्रत्यये परतः सर्वत्र यकारलोपः, ‘अतो लोपः’ (६-४-४८) इत्यकारलोपः।]]
05
=>
[पृष्ठम्०३८६+ २६]
06
=>
[[१। चित्तवत्कर्तृकत्वे ‘अणावकर्मकात्--’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव।]]
07
=>
[[२। पदान्ते, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावे चर्त्वविकल्पः।]]
08
=>
[[३। अस्याकर्मकत्वे, ‘गत्यर्थाकर्मक--’ (३-४-७२) ‘क्तोऽधिकरणे--’ (३-४-७६) इति सूत्राभ्यां कर्तरि, अधिकरणे क्तप्रत्ययो भवति।]]
09
=>
[[आ। ‘स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्। द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्।।’ धा। का। १-२। (कर्तरि, कर्मणि, वा अत्र क्तः।।)]]
10
=>
[[४। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
11
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
12
=>
[[६। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां अकारप्रत्ययः।]]