| YouTube Channel

गात्रसम्मित (gAtrasammita)

 
शब्दकल्पद्रुमः
Sanskrit
गात्रसम्मितः,
पुं,
(गात्रं सम्मितं उत्पन्नावयवमात्रंयत्र ।) गात्रावयवोत्पत्तिः यथा, --“पाद उत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते ।पादोनं व्रतमाचष्टे हत्वा गर्भमचेतनम्
अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसमन्विते ।द्विगुणं गोव्रतं कुर्य्यात् प्रायश्चित्तं विशुद्धये
मध्यमवचनं भवदेवेन व्याख्यातम् यदालगुडाद्यभिघातेन गौर्जीवति गर्भमात्रपातोभवति तदोत्पन्नगर्भमात्रपाते यथोक्तप्रायश्चित्त-पादाचरणम् गात्रावयवोत्पत्तौ प्रायश्चित्त-पादद्वयम् सकलगात्रसम्पत्तौ प्रायश्चित्तपाद-त्रयम् अर्थाच्चैतन्ययुक्तगर्भघाते कृत्स्नमेव प्राय-श्चित्तमूहनीयम् ।” इति प्रायश्चित्ततत्त्वम्
वाचस्पत्यम्
Sanskrit
गात्रसम्मित
त्रि०
गात्रं सम्मितं सम्पूर्णं यस्य ।सम्पूर्णमात्रे त्रिमासोर्द्धगर्भस्थे प्राणिनि “पादउत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते पादोनं व्रत-माचष्ठे हत्वा गर्भमचेतनम्” प्रा० त० धृतवाक्यम्