| YouTube Channel

गाङ्गं (gAGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
गाङ्गं, त्रि, (गङ्गाया इदमिति अण् ।) गङ्गा-सम्भूतम् इति मेदिनी
गे (यथा, कुमारे ३७ ।“विकीर्णसप्तर्षिबलिप्रहासिभि-स्तथा गाङ्गैः सलिलैर्दिवच्च्युतैः
”मेघधाराविनिःसृते जलविशेषे, क्ली तल्लक्षणा-दिकं यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।“तत्रान्तरीक्षं चतुर्व्विधम् तद्यथा, धारंकारं तौषारं हैममिति तेषां धारं प्रधानंलधुत्वात् तत्पुनर्द्विविधं गाङ्गं सामुद्रञ्चेति ।तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षतितयोर्द्वयोरपि परीक्षणं कुर्व्वीत शाल्योदन-पिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षतिदेवे वहिष्कुर्व्वीत यदि मुहूर्त्तं स्थितस्तादृशएव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णा-न्यत्वे सिक्थक्लेदे सामुद्रमिति विद्यात्तन्नो-पादेयम् सामद्रमप्याश्वयुजे मासि गृहीतंगाङ्गवद् भवतीति
”अस्य परीक्षा यथा, --“गाङ्ग-सामुद्रविज्ञानं कथयिष्यामि साम्प्रतम् ।घारितं येन पात्रेण लक्ष्यते येन तद्विधम्
धौतं शुद्धं सितं वस्त्रं चतुर्हस्तप्रमाणकम् ।दण्डांस्त्रिहस्तांश्च चतुश्चतुष्कोणेषु बन्धयेत् ।तस्मात् परीक्षते तोयं शुद्धे रौप्यमयेऽथवा
कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः ।शुद्धकर्म्मा तल्लब्ध्वा श्वेतशाल्योदनस्य वा
पिण्डिका तत्र संक्षिप्ता नान्यथा भाति सा पुनः ।श्वेता निर्म्मला पिण्डी शुद्धञ्च विमलं पयः
तद्गाङ्गं सर्व्वदोषघ्नं गृहीत्वा हि सुभाजने ।तद्धारयेच्च मतिमान् बल्यं मेध्यं रसायनम्
श्रमक्लमपिपासाघ्नं कण्डूदोषनिवारणम् ।लघु मूर्च्छातृषा-च्छर्द्दि-मूत्र-स्तम्भ-विनाशनम्
गाङ्गोदकस्य वृष्टिः स्याद्दिवसे वा प्रदोषतः
”इति हारीते प्रथमे स्थाने सप्तमेऽध्याये
)गङ्गागभजातत्वात् सुवर्णमपि इति महा-भारतम्
)