| YouTube Channel

गाङ् (gAG)

 
Shabdartha Kaustubha
Kannada
गाङ् - गतौ (भ्वा० अत्म० सक० अनि०) गाते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೋಗು /ಹೊರಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गा
मूलधातुः:
गाङ्
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
गाते
अनुबन्धादिविशेषः:
आकारान्तः
धातुप्रदीपः
Sanskrit
गाङ् गतौ
- गाते त्रिष्वपि वचनेषु रूपमेतत् गायते जगे जगाते अगास्त ।। 955 ।।
क्षीरतरङ्गिणी
Sanskrit
गाङ् गतौ
- एकद्विबहुत्वे -गाते, गाते, गाते इणो गा लुङि (2445) अगात् इह गै शब्दे (1652) गायति 921
धातुवृत्तिः
Sanskrit
गाङ् (अर्थः) गतौ
(गाते) त्रिष्वपि वचनेषु समानं, गा आतामिति स्थिते, अत्रान्तरङ्गत्वाद्धातुशपोरेकादेशे सवर्णदीर्घे ङ्दिवयव आकरोऽतः परो भवतीति "आतो ङितः'' इतीयादेशो भवति सवर्णदीर्घस्यादिवद्भावेनातः परत्वमकारस्य, [ अन्तादिवद्भावो वर्णाश्रये ] इति स्थितत्वात् मन्तव्यं "वार्णादाङ्गं बलीय' इति सवर्णदीर्घात् प्रागेव इयादोशः स्यादिति, यदयमङ्गात् परस्येत्यङ्गस्य भवति बहुवचने झस्य "आत्मनेपदेष्वनतः'' इति अद्भावः, अत्राप्यनत इति पर्युदास आदिवद्भावेन भवति, वर्णाश्रयत्वात् मन्तव्यमित्यादि पूर्ववत् ( गासे गाथे गाध्वे ) गै इति टेरेत्वे वृद्धिः धातुशपोरेकादेशस्यादिवद्भावात् "अतो गुणे''इति पररूपं वर्णाश्रयत्वादेव भवति " आतो लोप इटि च'' इत्यत्र आर्द्धधातुकस्येटो ग्रहणात् नालोपप्रसङ्गः (जगे जगाते जगिषे जगिध्वे जगे जगिवहे) "आतो लोप इटि च'' इत्याल्लोपः (गाता गास्यते) "गाङ्कुटादिभ्योऽञ्णिन्ङित्'' इत्यत्र गाङिति इङादेशग्रहणात् अस्मात् परस्याञ्णितः प्रत्ययस्य ङित्त्वाभावात् "घुमास्थागा'' इतीत्वं, ( गाताम् गास्व गै गावहै अगात अगाताम् अगात ) झस्याद्भावः, (अगाथाः अगे) "आद्गुणः'' (अगावहि गेत गेयाताम् गेथाः गेय) लिङः सलोपः, "आद्गुणः, '' यलोपः आशिषि ( गासीष्ट अगास्त अगासाताम्, अगासत अगास्थः अगासि जिगासते जेगीयते ) "घुमास्थागा'' इतीत्वम् ( गाययति अजीगयत् "गापोष्टक्'' इत्यत्र न्यासपदमञ्जर्योरयं धातुरादादिक इति स्थितं, शपि पाठे चास्य प्रयोजनं नास्ति अस्माभिस्तु क्वापि पठितव्य इति मैत्रेयाद्यनुसारेणेह पठितः गायतीति गतं शब्दे शपि 931
कृदन्तरूपमाला
Sanskrit
1 {@“गाङ् गतौ”@} 2 3 ‘गाते गाङो गतावर्थे, कै गै शब्देऽस्य गायति।’ 4 इति देवः।
5 गायकः-यिका, 6 गापकः-पिका, जिगासकः-सिका, 7 जेगीयकः-यिका
गाता-त्री, गापयिता-त्री, जिगासिता-त्री, जेगीयिता-त्री
-- गापयन्-न्ती, गापयिष्यन्-न्ती-ती
-- 8 गानः, गापयमानः, जिगासमानः, जेगीयमानः
गास्यमानः, गापयिष्यमाणः, जिगासिष्यमाणः, जेगीयिष्यमाणः
सुगाः-सुर्गौ-सुगाः
-- -- -- गीतम्-तः-तवान्, गापितः, जिगासितः, जेगीयितः-तवान्
9 गायः, सुगः, ग्रामगः, 10 सिंहगायी, गापः, जिगासुः, 11 जागाः
गातव्यम्, गापयितव्यम्, जिगासितव्यम्, जेगीयितव्यम्
गानीयम्, गापनीयम्, जिगासनीयम्, जेगीयनीयम्
गेयम्, गाप्यम्, जिगास्यम्, जेगीय्यम्
12 ईषद्गानः-दुर्गानः-सुगानः
-- -- गीयमानः, गाप्यमानः, जिगास्यमानः, जेगीय्यमानः
गायः, गापः, जिगासः, जेगीयः
गातुम्, गापयितुम्, जिगासितुम्, जेगीयितुम्
गीतिः- 13 सङ्गीतिः, गापना, जिगासा, जेगीया
गानम्, गापनम्, जिगासनम्, जेगीयनम्
गीत्वा, गापयित्वा, जिगासित्वा, जेगीयित्वा
प्रगीय, प्रगाप्य, प्रजिगास्य, प्रजेगीय्य
गायम् २, गीत्वा २, गापम् २, गापयित्वा २, जिगासम् २, जिगासित्वा २, जेगीयम्
जेगीयित्वा २।
प्रासङ्गिक्यः
01
=>
(३९३)
02
=>
(१-भ्वादिः-९५०। सक। अनि। आत्म।)
03
=>
[[* “-- ‘गापोष्टक्’ (३-२-८) इत्यत्र न्यास-पदमञ्जर्योः-- ‘अयं धातुरादादिकः।’ इति स्थितम्। शपि पाठे चास्य प्रयोजनं नास्ति। अस्माभिस्तु क्वापि पठितव्य इति मैत्रेयाद्यनुसारेण इह (भ्वादौ) पठितः।” इति माधवधातुवृत्तिः।]]
04
=>
(श्लो। ५)
05
=>
[[४। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्णमुलोरपि युक्।]]
06
=>
[[५। णौ, आदन्तलक्षणः पुगागमःसर्वत्र।]]
07
=>
[[६। ‘घुमास्थागापा--’ (६-४-६६) इतीत्त्वम्। एवं गीतम्-गीतिः--इत्यादौ ईत्वं ज्ञेयम्।]]
08
=>
[[७। शानचि शपि प्रत्यये सवर्णदीर्घे रूपपमेवम्। अदन्ताङ्गाभावान्मुगागमो न।]]
09
=>
[पृष्ठम्०३८५+ २७]
10
=>
[[१। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः।]]
11
=>
[[२। यङन्तादचि, द्वित्वे, अभ्यासस्य दीर्घे सति, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि रूपमेवं भवति।]]
12
=>
[[३। ईषदाद्युपपदेषु ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्।]]
13
=>
[[४। सोपसर्गेऽपि ‘स्थागापापचो भावे’ (३-३-९५) इति भावे क्तिन्।]]