| YouTube Channel

गाः (gAH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@} 2 3 ‘ईज’ इत्यत्र ‘वीजेरलौकिकादवीजयत्’ इति क्षीरतरङ्गिण्यां दृश्यते।
‘वीज- धातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थः।
‘संवीजते’ इति प्रयोगस्तु जाम्बवतीविजये दृश्यते यथा-- ‘घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्।।’ इति तट्टीकायामुक्तम्।
‘वीजन्ति वालव्यजनैः--’ इति हरिवंशे 4 5 इति च।]] अत्र व्याप्तिः इत्यर्थः धातुवृत्ति, क्षीरतरङ्गिणी, जै, का।
कृ, द।
उ।
वृत्ति।
कातन्त्रशाकटायनीयेषु दृश्यते।
“प्रजनः = प्रथमगर्भग्रहणम्, असनं = क्षेपणं, अशनं = व्याप्तिरित्येके” इति क्षीरस्वामी।
‘प्रजननकान्त्यासन- खादनेषु च’ इति काशकृत्स्नधातुपाठे।
“कन्नडटीकायाम् आसनार्थस्य निर्देशात् काशकृत्स्ने ‘आसन’ इति पाठो द्रष्टव्यः।
यद्वा मूलपाठे प्रमाद- पठितस्यैव टीकाकृता तथा व्याख्यानं कृतं स्यात्” इति का।
कृ।
टीका।
‘अजेर्व्यघञपोः’ 6 इति सूत्रभाष्यरीत्या अस्य धातोः आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्।
“‘वी’ इत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते” इति सि।
कौमुदी।
‘--कान्तिगतिव्याप्तिक्षेपप्रजन- खादनेषु’ इति वोपदेवः।
वायकः-यिका, वायकः, 7 वापकः-पिका, 8 विवीषकः-षिका, वेवीयकः-यिका
9 वेता-त्री, वाययिता-वापयिता-त्री, विवीषिता-त्री, वेवीयिता-त्री
10 वियन्-ती, वाययन्-पुरोवातो गाः, प्रवापयन्, वापयन्-न्ती, विवीषन्-न्ती
-- वेष्यन्-न्ती-ती, वाययिष्यन्-वापयिष्यन्-न्ती-ती, विवीषिष्यन्-न्ती-ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकलिनातिवत् 11 ज्ञेयानि, प्राति- स्विकरूपाणि विना।
निष्ठायाम् वीतम्-तः, 12 वयः, क्तिनि-वीतिः, वेणिः 13, वेणुः 14, वीणा 15, 16 वेतनम्, 17 वेत्रम्, 18 वेतसः, वयः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१६१७)
02
=>
(२-अदादिः-१०४८, सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(१३-९२)
05
=>
(म। भारते ७-३०७)
06
=>
(२-४-५६)
07
=>
[[१। ‘प्रजने वीयतेः’ (६-१-५५) इति प्रजने वर्तमानस्य णौ विभाषा आत्वे, पुकि रूपमेवम्।]]
08
=>
[[२। सन्नन्तात् ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः।]]
09
=>
[पृष्ठम्१२४५+ २६]
10
=>
[[१। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रकृतेः इत्यङादेशे रूपमेवम्।]]
11
=>
(१४९२)
12
=>
[[२। ‘एरच्’ (३-३-५६) इति भावे अकर्तरि कारके संज्ञायामच्प्रत्यये रूपम्। घञोऽपवादः।]]
13
=>
[[३। ‘वीज्याज्वरिभ्यो निः’ (द। उ। १-१८) इति निप्रत्ययः। बाहुलकात् णत्वम्। वेणिः = केशबन्धः।]]
14
=>
[[४। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वेणुः = वंशः। अत्रापि बाहुल- कादेव णत्वम्।]]
15
=>
[[५। औणादिके (द। उ। ५-४७) नप्रत्ययो णत्वं गुणाभावश्च निपातनात्। तेन रूपमेवम्। वेति जायते स्वरोऽस्यामिति वीणा = वल्लकी। ‘वीणा तु वल्लकी। विपञ्ची’ इत्यमरः।]]
16
=>
[[६। ‘वीपतिभ्यां तनन्’ (द। उ। ६-५६) इति तनन्प्रत्ययः। वेतनम् = भृतकदानम्। भृतकर्मकधनमिति केचित्।]]
17
=>
[[७। ‘गुधृवी--’ (द। उ। ८-८९) इति त्रप्रत्यये रूपमेवम्। वेत्रम् = वीरुद्विशेषः।]]
18
=>
[[८। ‘वियस्तुट् च’ (द। उ। ९-४५) इति अचस्प्रत्यये तुडागमे रूपमेवम्। बेतसः = काष्ठजातिः।]]
1 {@“षिध गत्याम्”@} 2 काश्यपक्षीरस्वामिनौ धातुममुम् उदितं पठन्ति, ‘ततः परं सिध्यतिरेव नेतरे।’ 3 इति वृत्तिविरोधात् तावुपेक्ष्यौ-- इति माधवः।
विस्तरश्च तत्रैव धातुवृत्तौ द्रष्टव्यः।
देवीऽपि ‘सिधेः सिध्यति संराद्धौ सेधतीत्युदितो गतौ।
शास्त्रमाङ्गल्ययो रूपमूदितस्तदिटा भिदा।।’ 4 इति उदित्पक्षमेवाङ्गीकृतवान्।
5 सिधित्वा-सेधित्वा, सिसेधिषकः-सिसिधिषकः-षिका, 6 अभिषेधन्-परिषेधन्-न्ती, 7 अभिसेधयन् गाः, 8 सुषेधः-दुःषेधः-निःषेधः, 9 सिध्रः, 10 सिध्रकः-सिध्रकावणम्
11 इतीमानि विशेषरूपाणि।
इतराणि समस्तान्यपि रूपाणि भौवादिकशर्धतिवत् 12 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८३५)
02
=>
(१-भ्वादिः-४७। सक। सेट्। पर।)
03
=>
(व्याघ्रभूतिकारिका ७-२-१०)
04
=>
(श्लो। ११६)
05
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वासनोः कित्त्वविकल्पः, तेन अत्र, सन्नन्ते रूपद्वयम्।]]
06
=>
[[३। ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेध--’ (८-३-६५) इति षत्वम्।]]
07
=>
[[४। ‘सेधतेर्गतौ’ (८-३-११३) इति अत्र षत्वनिषेधः।]]
08
=>
[[५। अत्र सुषामादित्वात् (८-३-९८) षत्वम्। सुषेध इत्यत्र ‘उपसर्गात्--’ (८-३-६५) इति, दुःषेधः, निःषेधः इत्यत्र ‘नुम्विसर्जनीयशर्व्यवायेऽपि’ (८-३-५८) इति यद्यपि षत्वं सिद्धम्
\n\n तथापि कर्मप्रवचनीयानां सुदुर्निसां षत्वनिषेधकत्वात् तत्रापि षत्वप्राप्त्यर्थम्, गत्यर्थे ‘सेधतेर्गतौ’ (८-३-११३) इति निषेधबाधनार्थ सुषामादिषु पाठ इत्यवधेयम्।]]
09
=>
[[६। औणादिके (द। उ। ८-३१) रक्प्रत्यये रूपम्। सिध्रः = साधुः, आसनप्रकारश्च।]]
10
=>
[[७। सिध्र इव सिध्रकः
\n\n इवार्थे संज्ञायां वा कन्प्रत्ययः। सिध्रकः = वृक्षविशेषः। सिध्रकावणम् इत्यत्र ‘वनगिर्योः--’ (६-३-११७) इत्यत्र कोटरादित्वात् दीर्घः। ‘वनं पुरगामिश्रकासिध्रका--’ (८-४-४) इति णत्वम्। सिध्रकवृक्षप्रचुरो वन- विशेषः--सिध्रकावणम्।]]
11
=>
[पृष्ठम्१३४४+ २८]
12
=>
(१७४८)