| YouTube Channel

गह्वरं (gahvaraM)

 
शब्दकल्पद्रुमः
Sanskrit
गह्वरं,
क्ली,
(गाह्यते इति गाह् + “छित्वरच्छत्व-रेति ।” उणां इति वरच्प्रत्ययेननिपातनात् साधुः ।) गुहा (यथा, रघुः २६ ।“गङ्गाप्रपातान्तविरूढशष्पंगौरीगुरोर्गह्वरमाबिवेश
*
गाह्यते विलुड्यते आत्माऽनेन इति ।) दम्भः ।इत्यमरः
वनम् इति मेदिनी ।रे १४९
रोदनम् इति हेमचन्द्रः ३८
(गहने त्रि यथा, भागवते १३ ।“नलवेणुशरस्तम्बकुशकीचकगह्वरम् ।एक एवातियातोऽहमद्राक्षं विपिनं महत्
”)