| YouTube Channel

गहनं (gahanaM)

 
शब्दकल्पद्रुमः
Sanskrit
गहनं,
क्ली,
(गाह्यते दुर्गम्यतेऽस्मिन्निति गाह् +बहुलमन्यत्रापि इति युच् कृच्छ्रगहनयोरितिनिर्द्देशात् वा ह्रस्वः यद्वा, गह त् गहने +ल्युट् ।) वनम् इत्यमरः
(यथा, गोः रामायणे ।“सखीस्नेहेन तद्भीरु मया सर्व्वं प्रतिश्रुतम् ।निलीय गहने शून्ये मयमुत्सृज्य रावणात्
”)गह्वरम् दुःखम् इति मेदिनी ने ५७
(पुं, विष्णुः दुर्ज्ञेयत्वादस्य तथात्वम् यथा, महाभारते १३ १४९ ५४ ।“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ।”“सर्व्वरूपं सामर्थ्यं चेष्टितं तस्य ज्ञातुं शक्यतेइति गहनः ।” इति भाष्यम्
)