| YouTube Channel

गवेङ्गित (gaveGgita)

 
वाचस्पत्यम्
Sanskrit
गवेङ्गित
न०
गवामिङ्गितम् अवङ् शुमाशुभसूचके गवांचेष्टाभेदे तच्च वृ० स० ९२ अ० उक्तं यथा ।“गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्चरोगान् मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्त-स्करानारुवन्त्यः अकारणे क्रोशति चेदनर्थं भयायरात्रौ वृषभः शिवाय भृशं निरुद्धो यदि मक्षिकाभि-स्तदाशु वृष्टिं सरमात्मजैर्वा आगच्छन्त्यो गोष्ठवृद्ध्यै चवेश्म बम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः आर्द्रा-ङ्ग्यो वा हृष्टरोमण्यः प्रहृष्टा धन्या गावः स्युर्महिष्यो-ऽपि चैवम्”