गवामयन (gavAmayana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Macdonell
EnglishShabdartha Kaustubha
Kannadaगवामयन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹತ್ತು ಮತ್ತು ೧೨ ತಿಂಗಳಲ್ಲಿ ಮಾಡಬಹುದಾದ ಒಂದು ಯಾಗ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritगवामयन दशमाससाध्ये द्वादशमाससाध्ये च सत्रभेदेतद्विवृतिः ता० ब्रा० ४ अध्यायादौ ।तत्र ताण्ड० ब्रा० ४ अ० भाष्ये तस्य द्वैविध्यमुक्त्वा तत्रा-हानि यथा कत्तव्यानि तथोक्त्वा तच्छब्दप्रवृत्तिनिमित्त-ज्ञानाय श्रुतिमवतारयन् व्याचख्यो यथा“स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात् । गायाम-यनिकानां च ता एवेत्यवगम्यते । शतानि त्रीणि षष्टिश्चविषुवांश्च चतुर्थके । प्रोक्तानि गव्यपत्रस्य स्तुत्याहानिक्रतादिह । तानि संगृह्य वक्ष्यत्ते बुद्धिव्युत्पत्तिसिद्धये ।द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्चतस्य द्वादशमासनिर्वत्यस्य प्रायणोयोऽतिरात्रः प्रथममह-स्तवश्चतुर्विंशं उक्थ आरम्भणीयः ते उभे अहनी अनु-ष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरित्याभिप्लविकः षडहःस चतुर्यारमावर्त्तनीयः ततस्त्रिवृदादिसोमसुत्यकसाध्यःपृष्ठ्यः षडहः एवं पञ्चभिः षडहैरेको भासः पूर्य्यते एत-स्यैवावर्त्तनेन पञ्च मासाः सम्पाद्याः तत्र षष्ठे मास्यादौत्रयोऽभिप्लवाः षडहाः कार्य्याः ततः एकः पृष्ठ्यः षडहःततोभिजिदेकमहः त्रयः स्वरसामान इत्येबमष्टाविंशत्य-हानि आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम् ।इत्यं पूर्वपक्षे अशीत्युत्तरशतसंख्यान्यहानि सम्पन्नानि ।ततो विषुवमेकमहः सोऽस्य सत्रस्य प्रधानभूतः । सप्तमेमास्यादो त्रयः स्वरसामानः प्रतिलोमाः कार्य्याः । ततोविश्वजिदावृत्तः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमःततस्त्रयोऽभिप्लवाः षडहाः आवृत्ताः एवमष्टाविं-शत्यहानिं स्युः अस्य च मासस्य महाव्रतातिरात्रौ चततोभिधास्यमानौ पूरकौ स सप्तमो मासः । ततः पृष्ठ्यःषडहःपूर्वोक्तैश्चतुर्मिराभिप्लविकैः प्रतिलोमक्रमेणानुष्ठितैः-रष्टमोमासः अनयावृत्त्या नवमदशमैकादशा अपि स-म्पाद्याः द्वादशनासस्यादौ त्रयोभिप्लवाः, षडहः ततोगोरायुयी द्वे अहनी द्वादशाहस्य दशाहानि चेतित्रिंशाहानि स द्वादशो मासः ततो महाव्रतमुपान्त्यमहःतेन उदयनीयातिरात्रौ इत्यपि सप्तममासस्य पूरकावितितदेतद्गवामयनसत्रं विधास्यन् तन्नामनिर्वचनप्रदर्शनायादावाख्यायिकामाह” भा०“गवो वा एतत् सत्रमासत तासां दशसु मास्सु शृङ्गा-ण्यजायन्त ता अब्रुवन्नरात्स्मोत्तिष्ठामौपशा नोऽज्ञतेतिता उदतिष्ठन्” ता० ब्रा० ४ । १ । १ । “पुरा खलु गावः एतत्-संवत्सरसत्रमासत अन्वतिष्ठन् आसचोदना अपरचोदनाच तत्र लिङ्गमिति मीमांसकाः । अत्रासरूपपूर्वतिथेचानुष्ठाने ये वर्त्तन्ते तदन्यैरनुष्ठितम् अत इदंगवामयनमित्याचक्षते तासां सत्रस्थितानां मध्ये कासा-ञ्चिद्गवां दशसु माःसु मासेषु पद्दन्मासीत्यादिनामासशब्दस्य मास्भावः तेष्वनुष्ठितेषु शृङ्गाण्यजायन्त ताजातशृङ्गा अब्रुवन् परस्परमुक्तवत्यः किमिति अरातस्मसमृद्धा अभूम अतोवयमुत्तिष्ठामसत्रं ससापयाम अरात्-स्मेति तदुक्तं तर्ह्याचष्टे । ओपशाः आ अभितः शिरःप्रदेशमुपेत्य शेरन्ते इत्योपशाः शृङ्गाणि अज्ञत जा-तान्यभूवन्निति सम्बन्धः अज्ञतेति जनी प्रादुर्भाःइत्यस्मात् लुङि बहुवचने “मन्त्रे झलीत्यादिना च्लेरङि गमहनजनेत्युपघालोपे रूपम् । एवसुक्त्वा ता गावःसत्रादुदतिष्ठन् । ताभिरेवं दशभिर्मासैः फलस्य प्राप्तेर्दशमा-सनिर्वर्त्यमपि गवामयनमस्तीत्युक्तं भवति” भा० । द्वादशमा-सनिर्वर्त्यमप्यस्तीति दर्शयति । “तासान्त्वेवाब्रुवन्नासामहाएवेमौ द्वादशौ मासौ सं संवत्सरमापयामेति तासान्द्वादशसु माःसु शृङ्गाणि प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ताएतास्तूपरास्तस्मात्ताः सर्वान्धादश मासः प्रेरते सर्वं हिता अन्नाद्यमाप्नुवन्” ता० ब्रा० । “तुशब्दो वैलक्षण्य-द्योतनार्थः तासामेव गवां मध्ये काश्चिदब्रुवन् किमित्युच्यते, यो द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेकादशद्वादशौ मासौ इमौ आसामहा एवं अनष्ठायैवंअनुष्ठाय प्रारब्धं सवत्सरसाध्यं समापयामेति व्यवहिता-श्चति समित्यस्य व्यवहितेन सम्बन्धः । तासां गव जातानिशृङ्गाणि द्वादशसु माःषु मासषु पूर्णषु प्रावर्त्तन्त प्रापयन्दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धयायतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणांपुनःपतनमित्यभिप्रायः तया चैतरेयकम् “अथ समापयि-ष्यामः संवत्सरमित्यासत तासामश्रद्धया शृङ्गाणि प्राव-त्तन्तेति” एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्व-र्त्तुभवमन्नाद्यमदनीयमन्न प्राप्नुवन् ता गाबस्तूपराः शृङ्ग-हीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासो मासान्प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गाएव यथायथं गच्छन्ति शृङ्गिणो महिष्यादयस्तु कृशाभवन्ति तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावःसर्वमन्नाद्यमाप्नुवन् तस्मात्सर्वर्त्तुषु पुष्टाङ्गा भवन्ति तथाचैतरेयकम् “ऊर्द्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्त-रमुत्तिष्ठन्तोति” । उक्तार्थं जानतः फलमाह” भा० ।“सर्वमन्नाद्यमाप्नोति य एव वेद” ता० ब्रा० ३ । स्पष्टोऽर्थः ।तदेवं दशमासनिर्वर्त्यं द्वादशमासनिर्वर्त्यं चेति द्विविधंगवामयनं प्रतिपादितं तयोर्ज्योतिष्टोमदर्शपूर्णमासादिवदे-तत्काम तत्कुर्य्यादिति कामफलसम्बन्धफलविशेषाश्रवणा-द्विश्वजिन्न्यायेनान्यत्राम्नातस्य स्वर्गस्य कल्पनाया अन्याय्य-त्वाद्रात्रिसत्रन्यायेनार्थवादिकस्य समृद्धिफलस्य वाक्यशेषेश्रुतत्वादश्रुताच्छ्रुतङ्गरीय इति समृद्धिकामा एतत्सत्र-मासीरन्निति विधिरुन्नेतव्यः । तैत्तिरीयके समृद्धिफल-कत्वं स्पष्टमाम्नातम् “य एवं विद्वान् संवत्सरमुपयान्त्र्या-व्रुबन्त्येवेति” भा० ततः ४ । १४ कण्डिकामारभ्य । ५ अ० ८ ख०९ क० पर्य्यन्ते तद्विधानमुक्त्वा तत्र सत्रे दीक्षाकालविधा-नार्थमेकाष्टकारम्भपक्षं निरस्य चैत्रशुक्लौकादश्यां दीक्षा-माह तत्रैव ५ । ९ । १० कण्डिकादिषु“चित्रापूर्णमासे दीक्षेरन्” ता० व्रा० ५ । ९ । १० । “चित्रा-युक्तः पौर्णमासः चित्रापूर्णमासः तस्मिन् दीरक्षेरन्”तदेतत् स्तौति” भा० । “चक्षुर्वा एतत् वत्सरस्य यच्चित्रा-पूर्णमासो मुखतो वै चक्षुर्मुखत एव तत् संवत्सरस्यदीक्षन्ते तस्य न निर्य्यास्ति” ता० ब्रा० ११ । “चित्रापूर्ण-मास इति यत् एतत संवत्सरस्य चक्षुर्वै जायमानस्यहि प्रथमं मुखञ्जायते तत्रापि चक्षुरेव प्रथममाविर्भवतिअतस्तत्सादृश्यादस्य चक्षुषः उक्तक्रमेण मुखतो मुखप्रदेश-एव चक्षुः, अतो मुखएव तत् संवत्सरमारभ्य गृहीत्वादीक्षन्ते । यः फाल्गुन उक्तः सोऽप्यत्र बिद्यत इत्युक्तंभवति तस्य न निर्य्यास्ति कश्चिदपि दोषो न विद्यते”इत्थं चित्रापौर्णमास्यां दीक्षितव्यमित्युक्तम् अथ तस्मि-न्नेव मासे शुक्लैकादश्यां दीक्षितव्यमित्याह” भा० “चतुरहेपुरस्तात् पौर्णमास्या दीक्षेरन्” ता ब्रा० १२ । “चैत्र्याःपौर्णमास्याः पुरस्ताच्चतुरहे चतुर्ण्णामह्नां समाहारश्चतुरह-स्तस्मिन्विद्यमाने गवामयनस्य दीक्षा कार्य्या एवं दीक्षणस्यगुणमाह” भा० “तेषामेकाष्टकायां क्रयः सम्पद्यते तेनैकाष्ट-कान्न संवट् कुर्वन्ति” ता० ब्रा० १३ । “सर्वेषां सत्राणांद्वादश दीक्षा भवन्ति तत एकादशीप्रभृति द्वादशसु गतासुरात्रिषु त्रयोदशी रात्रिरष्टमी स्यात् एकाष्टका च बहु-लाष्टमीति अस्यामेकाष्टकेत्युपचारः तस्याः क्रयः सम्प-द्यते प्रथमे ह्युपसर्जने राजक्रयस्तस्मिन् दिने प्रातः-काले प्रायणियाद्या यज्ञावयवाः प्रक्रम्यन्ते तेन प्रक्रमेणएकाष्टकां न संवट्कुर्वन्ति क्रियानुपयोगेन व्यर्थं न कुर्वन्तिअतएव एकाष्टकाप्रारम्भकृतो गुणश्चास्मित् पक्षेऽन्तर्भ-वति इत्यर्थः । अत्येऽपि गुणा अस्मिन् पक्ष सन्तीत्याह”भा० “तेषां पूर्वपक्षे सुत्या सम्पद्यते पूर्वपक्षे मासाःसन्तिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतःपशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदत्य-रात्सुरिमे सत्रिण इति ते राध्नुवन्ति” ता० व्रा० १४ ।“तेषामेकादश्यां दीक्षमाणानां सुत्या सोमयागः पूर्वपक्षसम्पद्यते सत्राणां सर्वेषां द्वादशोपसदः तत्राष्टमीप्रभृतिद्वादशसु गतासु त्रयोदशी शुक्लपक्षपञ्चमी तस्यां प्रथमो-ऽतिरात्र इति पूर्वपक्षे सुत्या० प्रारभ्यत इष्यर्थः । त्रिंशतात्रिंशता ऽहोभिर्म्मासेषु पूर्वपक्षे एव सर्व्वमासाः सन्ति-ष्ठमाना यन्ति वर्त्तन्ते एवं द्वादशसु मासेषु गतेषु पूर्वपक्षएव सत्रादुत्तिष्ठन्ति तानुत्तिष्ठतः सत्रादुत्थानं कुर्वतो यज-मानाननु पश्चात् पशव ओषधयश्चोत्तिष्ठन्ति ऊर्द्ध्वं रोहन्तितान् यजमानान् कल्पाणी शोभना वाक् यशस्करी वाक्वदति किमिति इमे सत्रिणो यजमानाः अरात्सुः स-मृद्वा अभवन्निति तदनन्तरन्ते सत्रिणो राध्नुवन्ति सभृद्धाभवन्ति” । ५ अध्यायसमाप्तिपर्यन्ते तस्यैव विधानभेदा उक्ताः ।“गवामयनेनेयुः” कात्या० श्रौ० २४ । ५ । २ । “गवामयनं वा-ऽभिगरश्रुतेः” २४ । ४ । ४९ । इदञ्च एकपदं तेन गावा-मयनिकमित्यादौ ठकि पूर्वाचोवृद्धिः । “गावामयनिकेपृष्ठ्यषडहे प्रत्यहं द्वयम्” जैमिनीयन्यायमाला ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
