गलगण्डः (galagaNDaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiगलगण्डः
गल-गण्डः -
"गंडमाला, गले का एक रोग जिसमें गांठ सी निकल जाती है"
Wordnet
Sanskrit गलगण्डः, गण्डः, गण्डिः, अध्यर्बुदम्, अध्यर्वुदम्
कण्ठे जायमानः एकः रोगविशेषः।
"गलगण्डः गिलायुः च कण्ठस्य रोगौ।"
गलगण्डः
ग्रीवायाः ग्रन्थीनां श्वयनस्य व्याधिः।
"आयोडीन इति तत्त्वस्य न्यूनत्वात् गलगण्डः उद्भवति।"
गलगण्डः
गलरोगविशेषः यस्मिन् गण्डाः उद्भवन्ति।
"चिकित्सकेन गलगण्डेन पीडिताय सप्ताहस्य औषधं दत्तम्। "
शब्दकल्पद्रुमः
Sanskritगलगण्डः, (गले गण्डः स्फोटक इव ।) गल-रोगविशेषः । गरगण्ड इति भाषा ॥
अथ गल-गण्डाधिकारः । तत्र गलगण्डस्य सामान्यंलिङ्गमाह ।“निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले ।महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥
”निबद्धो दृढः अचलो वा । मुष्कवत् अण्डवत् । गलइति हनुमन्ययोरुपलक्षणम् । तथा च भोजः ।“महान्तं शोथमल्पं वा हनुमन्या गलाश्रयम् ।मुष्कवल्लम्बमानं तु गलगण्डं विनिर्द्दिशेत् ॥
” * ॥
संप्राप्तिमाह ।“वातः कफश्चापि गले प्रदुष्टोमध्ये तु संसृत्य तथैव मेदः ।कुर्व्वन्ति गण्डं क्रमशः स्वलिङ्गैःसमन्वितं तं गलगण्डमाहुः ॥
”क्रमशः शनैः शनैः ॥
स्वलिङ्गैः वातकफमेदो-लक्षणैः ॥
* ॥
वातिकमाह ।“तोदान्वितः कृष्णशिरावनद्धःश्यावारुणो वा पवनात्मकस्तु ।पारुष्ययुक्तश्चिरवृद्ध्यपाकोयदृच्छया पाकमियात् कदाचित् ॥
वैरस्यमास्यस्य च तस्य जन्तो-र्भवेत्तथा तालुगलप्रशोषः ।”चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः ॥
श्लैष्मिकमाह ।“स्थिरः सवर्णो गुरुरुग्रकण्डुःशीतो महांश्चापि कफात्मकस्तु ।चिराच्च वृद्धिं भजतेऽचिराद्वाप्रपच्यते मन्दरुजः कदाचित् ॥
माधुर्य्यमास्यस्य च तस्य जन्तो-र्भवेत्तथा तालुगलप्रलेपः ।”कदाचित् प्रपच्यते वा पाकोऽपि चिराद्गवति ॥
प्रलेपः श्लेष्मणा ॥
* ॥
मेदोजमाह ।“स्निग्धो मृदुः पाण्डुरनिष्टगन्धोमेदोऽन्वितः कण्डुयुतो रुजश्च ।प्रलम्बतेऽलावुवदल्पमूलोदेहानुरूपक्षयवृद्धियुक्तः ॥
स्निग्धास्यता तस्य भवेच्च जन्तो-र्गलेन शब्दं कुरुते च नित्यम् ।”देहक्षये कार्श्ये क्षयं देहवृद्धौ वृद्धिं यातीत्यर्थः ॥
* ॥
असाध्यमाह ।“कृच्छ्राच्छसन्तं मृदुसर्व्वगात्रंसंवतसरातीतमरोचकार्त्तम् ।क्षीणञ्च वैद्यो गलगण्डयुक्तंभिन्नस्वरं नैव नरं चिकित्सेत् ॥
” * ॥
अथ गलगण्डचिकित्सा ।“सर्षपान् शिग्रुबीजानि शणबीजातसीयवान् ।मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥
गलगण्डो गण्डमाला ग्रन्थयश्चैव दारुणाः ।प्रलेपादस्य नश्यन्ति विलयं यान्ति सत्वरम् ॥
१ ॥
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना ।लेपनं गलगण्डस्य चिरोत्थस्यापि नाशनम् ॥
रक्षोघ्नः सर्षपः ॥
२ ॥
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः ।सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥
३ ॥
तिक्तालावुफले पक्वे सप्ताहमुषितं जलम् ।सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यानुसेविनाम् ॥
४ ॥
तैलं पिबेच्चामृतवल्लिविम्बाहिंस्राह्वयावृक्षकपिप्पलीभिः ।सिद्धं बलाभ्यां सह देवदारुहिताय नित्यं गलगण्डरोगी ॥
वृक्षकोऽत्र तुणिः । उक्तञ्च निघण्टौ धन्वन्तरिणा ।‘तुणिस्तुणी कपीतस्तु नन्दिवृक्षोऽथ वृत्त्रकः ।’बलाभ्यां बलातिबलाभ्यांम् । अमृतादितैलम् ॥
५ ॥
यवमुद्गपटोलादिकटुरूक्षान्नभोजनम् ।वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ॥
६ ॥
दापयेद्गलगण्डे तु प्रच्छन्नानि बहूनि च ।गण्डगोपालिकां पिष्ट्वा तत्र लेपं प्रकल्पयेत् ॥
अवश्यं नश्यति क्षिप्रं गलगण्डो गदोऽमुना ।प्रलेपस्त्वनुभूतोऽयं बहुधा बहुभिर्ज्जनैः ॥
प्रच्छन्नानि पछना इति लोके । गण्डगोपालिकागण्डगुया इति लोके प्रसिद्ध आम्रवाटिकायांसुलभः कीटविशेषः ॥
७ ॥
लवणं जलकुम्भ्यास्तु कणाचूर्णेन संयुतम् ।प्रभाते नित्यमश्नीयात् गलगण्डप्रशान्तये ॥
” ८ ॥
इति भावप्रकाशः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
