| YouTube Channel

गर्व्वः (garvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
ग(र्व्व)र्ब्बः,
पुं,
(गर्व्व + भावे अप् यद्वा, गिरतिमदमिति गॄ निगरणे + “कॄगॄशॄदॄभ्यो वः ।”उणां १५५ इति वः ।) अहङ्कारः ।दर्पार्थादन्तगर्व्वधातोर्भावेऽल्प्रत्ययः
इति मुग्ध-बोधम्
(यथा, रामायणे ३१ २० ।“यदि दुःस्थो रक्षेत भरतो राज्यमुत्तमम् ।प्राप्य दुर्मनसा वीर ! गर्ब्बे(र्व्व)ण विशेषतः
”)
गर्व्वः,
पुं,
(गर्व्व मदे + भावे घञ् यद्वा, गिरतिमदमत्तस्यात्मानमुद्गिरतीव इति गॄ निग-रणे + “कॄगॄशॄदॄभ्यो वः ।” उणां १५५ ।इति वः ।) अहङ्कारः इत्यमरः २२
(यथा, रामायणे ३१ २० ।“यदि दुःस्थो रक्षेत भरतो राज्यमुत्तमम् ।प्राप्य दुर्म्मनसा वीर ! गर्व्वेण विशेषतः
”)अहङ्कारस्तथाध्यात्मं सर्व्वसंसारकारणम् ।अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम्
”इति महाभारते आश्वमेधिकपर्व्व
(अयं हि व्यभिचारिभावविशेषः तल्लक्षणंयथा, साहित्यदर्पणे १५० ।“गर्व्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः ।अवज्ञासविलासाङ्गदर्शनाविनयादिकृत्
”)