गर्भिणी (garbhiNI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishगर्भिणी [garbhiṇī], A pregnant female (whether of men or animals)
गोगर्भिणीप्रियनवोलपमालभारिसेव्योपकण्ठविपिनावलयो भवन्ति 9.2
1.15
3.114. -अवे- क्षणम् mid-wifery, care and attendance of pregnant women and new-born infants. -दौहदम् the longings of a pregnant woman. -व्याकरणम्, -व्याकृतिः 'science of the progress of pregnancy' (a particular head in medical works.)
Apte 1890
Englishगर्भिणी A pregnant female (whether of men or animals)
गोगर्भिणी प्रियनवोलपमालभारेसेव्योपंकठविपिनावलयो भवंति Māl. 9. 2
Y. 1. 105
Ms. 3. 114.
Comp.
अवेक्षणं mid-wifery, care and attendance of pregnant women and new-born infants,
दौहदं the longings of a pregnant woman.
व्याकरणं,
व्याकृतिः f. ‘science of the progress of pregnancy’, (a particular head in medical works.)
Hindi
Hindi(स्त्री) एक गर्भवती महिला
Apte Hindi
Hindiगर्भिणी
- गर्भ - इनि - ङीप्
गर्भवती स्त्री
Shabdartha Kaustubha
Kannadaगर्भिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗರ್ಭವತಿ /ಗರ್ಭ ಧರಿಸಿದ ಹೆಂಗಸು /ಬಸಿರು ಹೆಂಗಸು
निष्पत्तिः - > "इनिः" (५-२-११५) । "ङीप्" (४-१-५)
व्युत्पत्तिः - > गर्भोऽस्त्यस्याः
L R Vaidya
EnglishWordnet
Sanskrit गर्भवती, गर्भिणी, अन्तर्वत्नी, गुर्विणी, दोहदवती, ससत्वा, आपन्नसत्वा, उदरिणी, गुर्वी
यस्याः उदरे गर्भः अस्ति।
"गर्भवत्याः सुश्रुषा सम्यक् कर्तव्या।"
अभिधानचिन्तामणिः
Sanskritपष्ठौही गर्भिणी वन्ध्या वशा वेहद्वृषोपगा ॥ १२६६ ॥
पष्ठौही (स्त्री), गर्भिणी (स्त्री), वन्ध्या (स्त्री), वशा (स्त्री), वेहत् (स्त्री), वृषोपगा (स्त्री)
अभिधानरत्नमाला
Sanskritप्रष्ठौही
प्रष्ठौही, गर्भिणी
वेहद्वृषभोपगता प्रष्ठौही गर्भिणी वशा बन्ध्या ।
verse 2.1.1.269
page 0032
आपन्नसत्त्वा
आपन्नसत्त्वा, गुर्वी, अन्तर्वत्नी, गर्भिणी
आपन्नसत्त्वा गुर्वी स्यादन्तर्वत्नी च गर्भिणी ।
verse 2.1.1.498
page 0057
भ्रूण
भ्रूण, गर्भिणी
भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
verse 5.1.1.809
page 0093
अमरकोशः
SanskritWord: गर्भिणी
Root: गर्भिणी
Gender: स्त्री
Number: all
Meaning(s):
⇒
Shloka(s):
2|6|22|1 ► आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी। (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|22|1 ⇢ आपन्नसत्त्वा (आपन्नसत्त्वा) (स्त्री)
➠ 2|6|22|1 ⇢ गुर्विणी (गुर्विणी) (स्त्री)
➠ 2|6|22|1 ⇢ अन्तर्वत्नी (अन्तर्वत्नी) (स्त्री)
➠ 2|6|22|1 ⇢ गर्भिणी (गर्भिणी) (स्त्री)
Related word(s):
अवयव_अवयवीसंबन्धः ➡ गर्भिणीसमूहः
परा_अपरासंबन्धः ➡ स्त्री
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritगर्भिणी, (गर्भोऽस्त्यस्याम् । गर्भ + “अतइनिठनौ ।” ५ । २ । ११५ । इति इनि ततोङीप् ।) गर्भवती । इत्यमरः । २ । ६ । २२ ॥
पोयाति इति भाषा ॥
(यथा, मनुः । ३ । ११४ ।“सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा ।अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥
”अस्याः कर्त्तव्यतामाह कश्यपः । यथा, --“गर्भिणी कुञ्जराश्वादिशैलहर्म्म्यादिरोहणम् ।व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥
शोकं रक्तविमोक्षञ्च साध्वसं कुक्कुटाशनम् ।व्यवायञ्च दिवास्वप्नं रात्रौ जागरणं त्यजेत् ॥
”तथा, मदनरत्ने स्कान्दे ।“हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा ।कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् ॥
केशसंस्कारकवरीकरकर्णविभूषणम् ।भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्गर्भिणी न हि ॥
”बृहस्पतिरप्याह ।“चतुर्थे मासि षष्ठे वाप्यष्टमे गर्भिणी यदा ।यात्रा तया विर्वज्या स्यादाषाढे तु विशेषतः ॥
”गर्भिणीपतिकरणीयतामाह याज्ञवल्क्यः ।“दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।वैरूप्यं मरणं वापि तस्माद्कार्य्यं प्रियं स्त्रियाः ॥
”आश्वलायनः ।“वपनं मैथुनं तीर्थं वर्ज्जयेद्गर्भिणीपतिः ।श्राद्धञ्च सप्तमान्मासादूर्द्धं चान्यत्र वेदवित् ॥
”कालविधाने मुहूर्त्तदीपिकायाम् ।“क्षौरं शवानुगमनं नखकृन्तनञ्चयुद्धादिवास्तुकरणं त्वतिदूरयानम् ।उद्वाहमौपनयनं जलधेश्च गाह-मायुः क्षयार्थमिति गर्भिणिकापतीनाम् ॥
”रत्नसंग्रहे गालवोऽपि ।“दहनं वपनञ्चैव चौलं वै गिरिरोहणम् ।नाव आरोहणञ्चैव वर्ज्जयेद्गर्भिणीपतिः ॥
”गर्भिण्या यदयत् लक्षणं जायते तदाह, --“क्षामता गरिमा कुक्षौ मूर्च्छा च्छर्द्दिररोचकः ।जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम् ॥
अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ ।पादशोफो विदाहोऽन्ये श्रद्धाश्च विविघात्मिकाः ॥
मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत् ।सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविधारणम् ॥
”इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥
“समानयोगक्षेमा हि माता तदा गर्भेण केषु-चिदर्थेषु तस्मात् प्रियहिताभ्यां गर्भिणीं विशे-षेणोपचरन्ति कुशलाः ।तस्यागर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानिसमासेनोपदेक्ष्यामः । उपचारासम्बाधनं ह्यस्याज्ञाने दोषज्ञानञ्च लिङ्गतस्तस्मादिष्टो लिङ्गोप-देशस्तद्यथार्त्तवादर्शनमास्यसंस्रवणमनन्नाभि-लाषः छर्द्दिररोचकोऽम्लकामता विशेषेण ।श्रद्धाप्रणयनञ्चोच्चावचेषु भावेषु गुरुगात्रत्वंचक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तन-मण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीष-ल्लोमराज्या योन्याश्च जालत्वमिति गर्भे पर्य्या-गते रूपाणि भवन्ति । सा यद्यदिच्छेत्तत्तस्यैदद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः । गर्भोप-घातकरास्त्विमे भावास्तद्यथा, -- सर्व्वमतिगुरूष्णतीक्ष्णदारुणाश्च चेष्टा इमांश्चान्यानुप-दिशन्ति वृद्धाः । देवतारक्षोऽनुचरपरिरक्षणार्थंन रक्तानि वासांसि विभृयान्न मदकराणि चाद्या-न्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्व्वे-न्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्ज्जयेत् ।”चतुर्थे मासि स्थिरत्वमापद्यते गर्भस्तस्मात्तदागर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण ।पञ्चमे मासि गर्भस्य मांसशोणितोपचयोभवत्यधिकमन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणीकार्श्यमापद्यते विशेषेण ।षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिक-मन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणी बलवर्ण-हानिमापद्यते विशेषेण ।सप्तमे मासि गर्भः सर्व्वभावैराप्यायते सहसातस्मात्तदा गर्भिणी सर्व्वाकारैः क्लान्ततमाभवति ।अष्टमे मासि गर्भश्च मातृतो गर्भतश्च मातारसग्रहणीभिः संवाहिनीभिर्मुहुर्मुहुरोजः पर-स्परत आददाते गर्भस्य सम्पूर्णत्वात् तस्मात्तदागर्भिणी मुहुर्मुदा युक्ता भवति मुहुर्मुहुश्चग्लाना तस्मात्तदा गर्भस्य जन्मव्यापद्भवत्योजसो-ऽनवस्थितत्वात् तञ्चैवमभिसमीक्ष्याष्टमं मासम-गर्भिण्यमित्याचक्षते कुशलाः ।” इति चरकेशारीरस्थाने चतुर्थेऽध्याये ॥
“स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा ।अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ॥
अकामतश्छर्द्दयति गन्धादुद्बिजतेऽशुभात् ।प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते ॥
तदा प्रभृत्येव व्यायामं व्यवायमपतर्पणमति-कर्षणं दिवास्वप्नं रात्रिजागरणं शोकं यानाव-रोहणं भयसुत्कटकासनं चैकान्ततः स्नेहादि-क्रियां शोणितमोक्षणञ्चाकाले वेगविधारणञ्चन सेवेत ।दोषाभिघातैर्गर्भिण्यांयो यो भागः प्रपीड्यते ।स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥
”“इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छतिगर्भिणी ।गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ॥
सा प्राप्तदौहृदा पुत्त्रं जनयेत् गुणान्वितम् ।अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥
येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना ।प्रजायेत सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥
राजसन्दर्शने यस्या दौहृदं जायते स्त्रियाः ।अर्थवन्तं महाभागं कुमारं सा प्रसूयत ॥
दुकूलपट्टकौशेयभूषणादिषु दौहृदात् ।अलङ्का षणं पुत्त्रं ललितं सा प्रसूयते ॥
आश्रमे संयतात्मानं धर्म्मशीलं प्रसूयते ॥
देवताप्रतिमायान्तु प्रसूते पार्षदोपमम् ।दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ॥
गोधामांसाशने पुत्त्रं सुषुप्सुं धारणात्मकम् ।गवां मांसे च बलिनं सर्व्वक्लेशसहन्तथा ॥
माहिषे दौहृदाच्छूरं रक्ताक्षं लोमसंयुतम् ।वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ॥
मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् ।सृमराद्विग्नमनसं नित्यभीतञ्च तैत्तिरात् ॥
अतोऽनुक्तेषु या नारी समभिध्याति दौहृदम् ।शरीराचारशीलैः सा समानं जनयिष्यति ॥
कर्म्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।यथा यथा दैवयोगाद्दौहृदं जनयेद्धृदि ॥
”इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥
)क्षीरावीवृक्षः । इति शब्दचन्द्रिका ॥
क्षीराइइति भाषा ॥
वाचस्पत्यम्
Sanskritगर्भिणी स्त्री गर्भोऽस्त्यस्याः इनि ङीप् । गर्गवत्यां सगमोयांस्त्रियाम् अमरः । गर्भिणीलिङ्गं गर्भवतीशब्देउक्तम् । गर्भिणीतत्पतिकृत्याकृत्यादि नि० सि० उक्तं यथा“गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् । व्या-यामं शीघ्रगमनं शकटारोहणं त्यजेत् । शोकं रक्तवि-विमोक्षं च साध्वसं कुक्कुटाशनम् । व्यवायं च दिवा-स्वप्नं रात्रौ जागरणं त्थजेत्” कश्य० । मदनरत्ने स्कान्दे“हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा । कूर्पा-सकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसस्कारक-बरोकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्ग-र्भिणी न हि” वृहस्पतिः “चतुर्थे मासि षष्ठे वाप्य-ष्टमे गर्भिणी यदा । यात्रा तया विवर्ज्या स्यादाषा-ढे तु विशेषतः” याज्ञवल्क्यः “दौहदस्याप्रदानेनगर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम् । त-त्रैवाश्वलायनः “वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः । श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित् ।श्राद्धं तद्भोजनमिति । प्रयोगपारिजातः । कालविधानेमूहूर्त्तदीपिकायाञ्च “क्षौरं शवानुगमनं नखकृन्तनं चयुद्धादि वास्तुकरणं त्वतिदूरयानम् । उद्वाहमौपनयनंजलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापती-नाम्” रत्नसंग्रहे गालवः “दहनं वपनञ्चैव चौलंवै गिरिरोहणम् । नाव आरोहणं चैव वर्जयेद्गर्भि-णीपतिः” अन्यत्रापि “प्रव्यक्तगर्भापतिरब्धियानं मृतस्यबाहं क्षुरकर्मसङ्गम् । तस्यानुयत्नेन गयादितीर्थं या-गादिकं वास्तुविधिं न कुर्य्यात्” । प्रव्यक्तगर्भा वनिताभवेन्मासत्रयात् परम् । (मासत्रयादूर्द्धम्) षण्मासात् परतःसूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः “रोहि-ण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि । पुनर्वसौ पुष्यहस्त-धनिष्ठात्र्युत्तरासु च । मैत्रे त्वाषट्रे तथाश्विन्यां सूति-कागारवेशनम्” एतच्च सम्भवे “प्रसूतिसमये काले सद्यएव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम्“वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेःविष्णुधर्मे “दशाहं सूतिकागारमायुधैश्च विशेषतः ।वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः । सुयत्नेनतथा वारिवर्णक्वैश्चित्रितेन चेति” ।“गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः”मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम् ।अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा “सुवासिनीःकुमारांश्च रोगिणोगर्भिणीस्तथा । अतिथिभ्योऽग्रएवैतान् भोजयेदविचारयत्” । “बालं सुवासिनीवृद्ध-गर्भिण्यातुरकांस्तथा । “संभोज्यातिथिभृत्यांश्च दम्पत्योशेषभोजनम्” याज्ञ० । जात्या सह क्वर्म्म० अस्य परनि-पातः । गोगर्भिणी ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
