| YouTube Channel

गर्भाशयः (garbhAzayaH)

 
Apte Hindi
Hindi
गर्भाशयः
पुं*
गर्भ-आशयः -
"योनि, बच्चेदानी"
Wordnet
Sanskrit
Synonyms:
योनिः, गर्भकोशः, गर्भाशयः, गर्भस्थानम्, योनी, धरा, जरायुः, गर्भः, कोषः, मातृकुक्षिः, उल्वम्, कललः, कललम्, चत्वालः
noun
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
"जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।"
शब्दकल्पद्रुमः
Sanskrit
गर्भाशयः,
पुं,
(आशेतेऽस्मिन्निति + शी +अघिकरणे अप् गर्भस्य भ्रूणस्य आशयःशय्यावदाश्रयस्थानम् ।) जरायुः येन वेष्टितोगर्भः कुक्षौ तिष्ठति सः इत्यमरः ३८
गर्भशय्या इति भावप्रकाशः
(यथा, महा-भारते १४ १८ ।“शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।क्षेत्रं कर्म्मजमाप्नोति शुभं वा यदि वाऽशुभम्
”“पूर्णषोडशवर्षा स्त्री पूर्णत्रिंशेन सङ्गता ।शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि
वीर्य्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा
”इति वाभटे शारीरस्थाने प्रथमेऽध्याये
)