गर्भाधान (garbhAdhAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishगर्भाधान - garbhAdhAna - - ceremony performed before conception or after menstruation to ensure conception
गर्भाधान - garbhAdhAna - - impregnation-rite
गर्भाधान - garbhAdhAna - - insemination
गर्भाधान - garbhAdhAna - - fertilization
गर्भाधान - garbhAdhAna - - impregnation
गर्भाधान - garbhAdhAna - - ceremony performed before conception or after menstruation to ensure conception
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiगर्भाधानम्
गर्भ-आधानम् -
"गर्भ रहना, गर्भधारण"
गर्भाधानम्
गर्भ-आधानम् -
"एक संस्कार, ऋतु-स्नान के पश्चात एक शुद्धिसंस्कार"
Shabdartha Kaustubha
Kannadaगर्भाधान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗರ್ಭವನ್ನು ಇಡುವುದು /ಗರ್ಭಕೋಶದಲ್ಲಿ ವೀರ್ಯವನ್ನು ಸೇರಿಸುವುದು /ಬಸಿರು ಮಾಡುವುದು
गर्भाधान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮನುಷ್ಯನ ದೇಹಕ್ಕೆ ಆಗಬೇಕಾದ ೧೬ ವಿಧ ಸಂಸ್ಕಾರಗಳಲ್ಲೊಂದು
निष्पत्तिः - > डुधाञ् (धारणपोषणयोः) - "ल्युट्" (३-३-११७)
व्युत्पत्तिः - > गर्भं आधीयतेऽनेन
प्रयोगाः - > "गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः"
उल्लेखाः - > मेघ० १-९
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritगर्भाधानं, (गर्भ आधीयतेऽनेनेति । आ +धा + करणे ल्युट् ।) दशसंस्कारान्तर्गतप्रथम-संस्कारः । यथा, --“गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।ऋतौ ऋतुकाले । स च कालो याज्ञवल्क्येनोक्तः ।षोडशत्तनिशाः स्त्रीणां तासु युग्मासु संविशेत् ।”इति मलमासतत्त्वम् ॥
तत्र क्रमः । “ऋतुस्नानादूर्द्धंनिषेकदिवसे सायं सन्ध्यायामतीतायां पतिः शुचिःसुगन्धिः सुवेशः मन्त्रेण सूर्य्यार्ध्यं दत्त्वा पूर्व्वाभि-मुखोपविष्टायाश्च बध्वा दक्षिणहस्तेनोपस्थंस्पृशन् मन्त्रं जपेत् ततः पुनरपि उपस्थं स्पृशन्मन्त्रं जपेत् । ततो भार्य्यामुपेयात् ।” इति भव-देवभट्टः ॥
तद्विहितनिषिद्धनक्षत्रादि यथा, --“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाश्विनी ।उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ ॥
”पर्व्वाण्याह विष्णुपुराणम् ।“चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
”शौनकः ।“पुंनक्षत्राणि चैतानि तिष्यो हस्तः पुनर्व्वसुः ।अभिजित् प्रौष्ठपच्चैवानुराघाषाढश्चाश्वयुक् ॥
”अन्यश्च ।“हस्तो मूलं श्रवणः पुनर्व्वसुर्मृगशिरस्तथा पुष्यश्च ।गर्भाघानादिकार्य्येषु पुंनामायं गणः शुभदः ॥
रोहिण्यन्तकचित्राहिविशाखशतवर्ज्जिते ।भे पुंग्रहाहे स्त्रीशुद्ध्या फलबन्धनमिष्यते ॥
पुष्यार्कचन्द्रशिवमूलपुनर्व्वसुः स्या-दाषाढयुग्महरिभाद्रपदद्बयञ्च ।एतानि पुंसि कथितानि शुभानि भानिचान्येषु गर्भपतनादिभयञ्च भेषु ॥
नन्दा भद्रा भवेत् पुंसि स्त्रीषु पूर्णा जया स्मृता ।रिक्ता नपुंसके त्वाहुस्तस्मात्तां परिवर्ज्जयेत् ॥
स्त्रीणामृतुर्भवति षोडशवासराणितत्रादितः परिहरेच्च निशाश्चतस्रः ।युग्मासु रात्रिषु नरा विषमासु नार्य्यःकुर्य्यान्निषेकमथ तास्वपि पर्व्ववर्ज्जम् ॥
मूलर्क्षं स्मृतिदुष्टत्वाद्गर्भाधानेषु नेष्यते ।तस्य पुंसवनादौ तु पुंसंज्ञत्वे प्रयोजनम् ॥
(मतान्तरे तु चतुर्थेऽहनि स्नानानन्तरं नार्य्यःशुध्यन्ति । यथाह भरद्बाजः ।“प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥
”एवं धर्म्मशास्त्रेऽपि । यथा, --“भर्त्तुः स्पृस्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।पञ्चमेऽहनि योग्या स्याद्दैवे पित्र्ये च कर्म्मणि ॥
”)यथा, याज्ञवल्क्यः ।“एवं गच्छन् स्त्रियं क्षामां मघां मूलाञ्च वर्ज्ज-येत् ।शस्त इन्दौ सकृत् पुत्त्रं लक्षण्यं जनयेत् पुमान् ॥
”क्षामां आहारलाचवादिना क्षीणाम् । फलञ्च ।“युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।तस्माद्युग्मासु पुत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।(समेऽपुमान् पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्ययः ॥
”इति मनुः । ३ । ४८--४९ ॥
)एवञ्च ।“युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं यदा ।कन्या च पुंवद्भवति शुक्राधिक्ये पुमान् भवेत् ॥
कन्यैवायुग्मरात्रौ च प्राधान्यं समवायिनोः ।निमित्तकारणात् कालात् शुक्रशोणितयोर्यतः ॥
पीडा राशौ भौमदृष्टे शशाङ्केमासं मासं योषितामार्त्तवं स्यात् ।त्र्यंशे शान्तं यच्च रक्तं जवाभंतद्गर्भार्थं वेदनागन्धहीनम् ॥
”गर्भयोग्यर्त्तुनिरूपणम् ॥
“पापासंयुतमध्यगेषु दिनकृत्लग्नक्षपास्वामिषुतद्द्यूनेषु शुभोज्झितेषु विकुजे छिद्रे विपापे सुखे ।सद्युक्तेषु त्रिकोणकण्टकविधुष्वायत्रिषष्ठान्वितेपापे युग्मनिशास्वगण्डसमये पुंशुद्धितः सङ्गमः ॥
मूलमघाश्विनीनामाद्यं ज्येष्ठान्त्यसर्पाणामन्त्यम् ।चतुर्थांशं गण्डपदं त्यक्त्वा षोडशाहे ऋतौ व्रजेत् ॥
”अशक्तौ तु भुजबलभीमे ।“अन्त्यं पौष्णेन्द्रसर्पाणामाद्यं पित्रश्विमूलगम् ।गण्डं दण्डत्रयं ख्यातं सर्व्वकार्य्येषु कल्पितम् ॥
पुमान् विंशतिवर्षश्चेत् पूर्णषोडशवर्षया ।स्त्रिया सङ्गच्छते गर्भाशये शुद्धे रजस्यपि ॥
अपत्यं जायते भद्रं तयोर्न्यूनेऽधमं स्मृतम् ।मासेशैःसितकुजगुरुरविशनिसौम्यलग्नपशशीनैः ।कलुषैः पीडा गर्भस्य पीडितैः पंतनमन्यथा पुष्टिः ॥
कालुष्यं मासेशेन पापग्रहयोगशत्रुगृहस्थिति-नीचगृहयोगोपग्रहयोगादि । मासेशजन्मनक्षत्रेपापग्रहयोगः पीडा येषां जन्मर्क्षाणि । १६ ।३ । २० । २२ । ११ । ८ । २७ । २ । ९ ।मासेशशान्त्यादौ कृते न गर्भपीडा ॥
अथ प्रश्नात् पुत्त्रादिज्ञानम् ।“विवाहलग्नं विषमर्क्षसंस्थःसौरोऽपि पुंजन्मकरो विलग्नात् ।स्त्र्यादिग्रहाणामवलोक्य वीर्य्यंवाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥
”इति ज्योतिस्तत्त्वम् ॥
* ॥
अपि च । गोभिलः ।“यदा ऋतुमती भवति उपरतशोणिता तदासम्भवकालः । ऋतुः प्रजाजननयोग्यकालः ।तन्निमित्तेन नैमित्तिकं गमनं कार्य्यं अकुर्व्वतःप्रत्यवायान्नियमः । यदुक्तं स्मृतेः ॥
“ऋतुमतीन्तु यो भार्य्यां सन्निधौ नोपसर्पति ।अवाप्नोति स मन्दात्मा भ्रूणहत्यामृतावृतौ ॥
”ज्योतिषे ।“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाश्विनी ।उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ ॥
”विष्णुपुराणम् ।“चतुर्द्दश्यष्टमी चैव अमावस्याथ पूर्णिमा ।पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
”याज्ञवल्क्यः ।“षोडशर्त्तुनिशा स्त्रीणां तासु युग्मासु संविशेत् ।अत्र षोडशाहो रात्रात्मककालस्य सावनत्वात्पुंसवननामकरणयोरपि सावनगणनाया युक्त-त्वाच्च संस्कारमात्रे सावनगणनया व्यवहारः ॥
तथा च याज्ञवल्क्यः ।“गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।षष्ठेऽन्नप्राशनं मासि चूडा कार्य्या यथाकुलम् ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥
”चतुर्थे स्पन्दते ततः इति वचनात् स्पन्दनात् पूर्व्वंतृतीयमासः पुंसवनकालः । अत्र चतुर्थमासस्यसौरत्वे चान्द्रत्वे वा निषेकमासस्यापि तथात्वेतदाद्यन्तदिननिषेके सति अधिकन्यूनकालयोर्गर्भ-स्पन्दनमनियतमापद्येत सावने तु नियतम् ।तेनात्र सावनगणना युक्ता योषिद्व्यवहारसिद्धाच । अहन्येकादशे नाम इत्यत्रापि अशौच-व्यपगमे नामधेयमिति विष्णुसूत्रात् सूतकोत्तर-दिनपरमेकादशपदम् ।“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥
”इति सूर्य्यसिद्धान्तवचनेन सूतकस्य सावनदिन-घटितत्वात् तदुत्तरदिनस्यापि तथात्वम् । अतोदिनमासवर्षगणना सावनेनेति । शुभाशुभविवे-चनन्तु सौरेण ज्योतिःशास्त्रात् । अतएव पिता-महः ।“विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ।”अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः ।“गर्भाधाने सदा ग्राह्या वारा भौमरवीज्यकाः ।”गोभिलः । दक्षिणेन पाणिना उपस्थमभिस्पृशेत्विष्णुर्योनिं कल्पयत्वेतया ऋचा । गर्भं धेहि सिनीच समाप्य ऋचौ सम्भवतः ॥
कुत्सितदेशस्यसव्येन पाणिना शौचदर्शनात् तद्वारणायदक्षिणेनेति । उपस्थं योनिं स्पृशेत् विष्णुरितिमन्त्रेण प्रथमं ततो गर्भं धेहि सिनीवालीत्यादि-मन्त्रेण च । मन्त्रान्ते कर्म्मादिसन्निपात इतिन्यायात् पाठानन्तरं स्पंर्शः । न तु भवदेव-भट्टोक्तं स्पृशन् जपतीति । ऋचौ समाप्यैवसंयोगं कुरुतः न मध्ये वामदेव्यजपः । देवलः ।‘सकृच्च संस्कृता नारी सर्व्वगर्भेषु संस्कृता ।’तेन गर्भाधानपुंसवनसीमन्तोन्नयनानि सकृदेवकर्त्तव्यानि । छन्दोगपरिशिष्टम् ।“विवाहादिः कर्म्मगणो य उक्तोगर्भाधानं शुश्रुम यस्य चान्ते ।विवाहादावेकमेवात्र कुर्य्यात्श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात् ॥
”विवाहादिगर्भाधानान्तकर्म्मसु एकमेव श्राद्धंन तु प्रतिकर्म्मादौ एकेनैव श्राद्धेन कृतेन सर्व्वाणिश्राद्धवन्तीति । अन्तशब्दोऽत्रावयवार्थः दशान्तःपट इतिवत् । समीपार्थत्वे उपलक्षणं स्यात् ।ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्वेनग्रहणं कार्य्यान्वितत्वात् । यत्तु ।“निषेककाले सोमे च सीमन्तोन्नयने तथा ।ज्ञेयं पुंसवने चैव श्राद्धं कर्म्माङ्गमेव च ॥
”इत्यनेन भविष्यपुराणेन श्राद्धं कर्म्माङ्गत्वनविहितं तच्छन्दोगेतरपरं अतएव भवदेवभट्टे-नापि न लिखितम् । अत्र श्राद्धोत्तरगमनेऽपिन दोषः । उक्तभविष्यपुराणात् । नित्ये नान्दी-मुखश्राद्धे कृते दाराद्यवर्ज्जनम् । इति वचनान्त-राच्च ।” इति संस्कारतत्त्वम् ॥
* ॥
(निषेकादनन्तरंयदयन्मासि मिश्रितशुक्रशोणितस्य यद्यद्रूपंभवति तदुर्क्त यथा, बृहज्जातके निषेकाध्याये ।“कलनं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः ।अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी ॥
भृग्वारेज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः ।मासेशे पीडिते गर्भरोगः पुष्टिश्च सद्बले ॥
”अस्यार्थः । प्रथमे मासि कलनं शुक्रशोणित-मिश्रणरूपं तत्र अधिपः शुक्रः । द्वितीये कठिनंमिश्रितशुक्रशोणितयोः काठिन्यं तत्राधिपतिःकुजः । तृतीये हस्ताद्युत्पत्तिस्तत्राधिपो गुरुः ।चतुर्थे अस्थ्युत्पत्तिस्तत्राधिपः सूर्य्यः । पञ्चमेत्वच उत्पत्तिस्तत्रेशश्चन्द्रः । षष्ठे रोमोत्पत्ति-स्तत्राधिपः शनिः । सप्तमे चैतन्यं तत्राधिपोबुधः । अष्टमे भोजनशक्तिस्तत्र गर्भाधानलग्न-पतिः स्वामी । नवमे उद्वेगस्तत्राधीशश्चन्द्रः ।दशमे प्रसवस्तत्राधीशो दिवाकरः । आधान-काले उक्तग्रहे पीडिते तत्तुल्यमासे गर्भ-पातादि । बलवति च तत्तन्मासे गर्भपुष्टिः ॥
“ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् ।यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ॥
जातो वा न चिरं जीवेज्जीवेद्वा दुर्ब्बलेन्द्रियः ।तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥
अतिवृद्धायां दीर्घरोगिण्यां अन्येन वा विका-रेणोपसृष्टायां गर्भाधानं नैव कुर्व्वीत । पुरु-षस्याप्येवंविधस्य त एव दोषाः सम्भवन्ति ॥
”इति सुश्रुते शारीरस्थाने दशमेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritगर्भाधान गर्भ आधीयतेऽनेन कर्भणा आ + धा-करणे ल्युट् । गर्भरूपपात्रसस्कारकर्म्मणि तत्र विहित-नक्षत्रादिकालभेदास्तद्विधानानि च स० त० उक्तानि यथा“अथ गर्भाधानम् । गोभिलः “यदा ऋतुमती भवतिउपरतशोणिता तदा सम्भवकालः” ऋतुः प्रजाजनन-योग्यकालः तन्निमित्तेन नैमित्तिकं गमनं कार्य्यम् अकु-र्वतः प्रत्यवायान्नियमः “ऋतुमतीन्तु यो भार्य्यां सन्निधौनोपसर्पति । अवाप्नोति स मन्दात्मा भ्रूणहत्यामृता-वृतौ” इति स्मृतेः । ज्योतिषे “ज्येष्ठा मूला मघाश्लेषा रेवतीकृत्तिकाश्विनी । उत्तरात्रितर्यत्यक्त्वा पर्ववर्जं व्रजेदृतौ”विष्णुपु० “चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।पर्वाण्येतानि राजेन्द्र! रविसंक्रान्तिरेव च । स्त्रीतैलमां-ससंभोगी विण्म्त्रनरकं व्रजेत्” । याज्ञ० “षोडशर्त्तु-र्निशास्त्रीणां तासु युम्मासु संविशेत् । अत्र षोडशाहो-रावात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपिसावनगणनायायुक्तत्वाच्च संस्कारमात्रे सावनगणना ।तथा व्यवहारश्च तथा च याज्ञवल्क्यः “गर्भाधानमृतौपुंसः सवनं स्यन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः प्रसवेजातकर्म च । अहन्येकादशे नाम चतुर्थे मासि नि-ष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।एवमेनः शमं याति वीजगर्भसमुद्भवम्” । चतुर्थे स्प-न्दते ततः” इति वचनात् स्पन्दनात् पूर्वमासत्रयं पुं-सवनकालः । अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वानिषेकमासस्यापि तथात्वे तदाद्यन्तदिननिषेके सति अ-धिकन्यूनकालयोर्गर्भस्पन्दनमनियतमापद्येत सावने तुनियतं तेनात्र सावनगणना युक्ता योषिद्व्यवहारप्रसिद्धाच । “अहन्येकादशे नाम” इत्यत्रापि “अशौचव्यपगमेनामधेयमिति” विष्णुसूत्रात् सूतकोत्तरदिनपरमेकादश-दिनपदम् सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा ।मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता” सूर्यसिद्धा-न्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदि-नस्यापि तथात्वम् । अतो दिनमासवर्षगणन सावनेनेति ।शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात् । अतएवपितामहः “विवाहादौ स्मृतः सौरो यज्ञादौ सावनोमतः” । अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः । “गर्भा-धाने सदा ग्राह्याः वारा भौमरवीज्यकाः” इति । गोभिलः“दक्षिणेन पाणिना उषस्थमभिस्पृशेत्” विष्णुर्योनिं कल्प-यत्वेतयर्च्चा “गर्भं धेहि सिनीवालीति च” समाप्यर्च्चौसम्भवतः” । कुत्सितदेशस्य सव्येन पाणिना शौचदर्शनात्तद्वारणाय दक्षिणेनेति । उपस्थं योनिं स्पृशेत् विष्णुरितिमन्त्रेण प्रथमं, ततो “गर्भं धेहिसिनीबालीत्यादि” मन्त्रेणच । “मन्त्रान्ते कर्मादिसन्निपातः” इति न्यायात् पाठान-न्तरं स्पर्शः न तु भवदेवभट्टीक्तं स्पृशन् जपतीति ऋचौसमाप्यैव संयेगं कुरुतः न मध्ये वामदेव्यजपः ।देवलः “सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता” ।तेन गर्प्राधानपुं सवनसीमन्तोन्नयनानि सकृदेव कर्त्त-व्यानि । छन्दोगपरिशिष्टभ् “विवाहादिकभगणोय उक्तेगर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावेकमेवात्रकुर्यात् श्राद्धं नादौ कर्मणः कर्मणः स्यात्” । विवाहा-दिगर्भाधानान्तकर्मसु एकमेव श्राद्धं न तु प्रतिकर्मादौ, एकेनैव श्राद्धेन कृतेन सर्वाणि श्राद्धवन्तीति । अन्त-शब्दोऽत्रावयवार्थः दशान्तः पट इति वत् समीपार्थेउपलक्षणं स्यात् । ततश्च विशेषणोपलक्षणसन्देहे वि-शेषणत्वेन ग्रहणं कार्य्यान्वितत्वात् । यत्तु “निषेककालेसोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धंकर्माङ्गमेव च” इत्यनेन भविष्यपुराणे श्राद्धं कर्माङ्गत्वेनविहितं तच्छन्दोगेतरपरम् । अत एव भवदेवभर्ट्टनापितथा लिखितम् । अत्र श्राद्धोत्तरगमनेऽपि न दोषः उक्तभविष्यपुराणात् “नित्ये नान्दीमुखश्राद्धे कृते दानाद्य-वर्जनम्” इति वचनान्तराच्च” ।मु० चि० पीय० धा० विस्तरेण विहितनिषद्धकालादिकमुक्तंयथा “गण्डान्तं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलान्तकंदास्रं पौष्णमथोपरागदिवसं पातं तथा वैधृतिम् ।पित्रोः श्राद्धदिनं दिवा च परिघाद्यार्धं स्वपत्नीगमेभान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम्” मु० चि०“गण्डान्तमिति । अत्र यदि दुष्टफलतिथ्यादिषु रजो-दर्शनमुद्भूतं तत्र चतुर्थदिनानन्तरं शान्तिकं विधेयंयदाह वसिष्ठः “प्रभूतदोषं यदि दृश्यते तत्पुष्पंततः शान्तिककर्म कार्यम् “विवर्ज्जयेदेव तदैकशय्यां याव-द्रजो दर्शनमन्यघस्र । ईशानतो गोमयमण्डलेन परि-स्तृतेऽग्नौ जुहुयात्सदूर्वाम् । युग्मां घृताक्ताञ्च समित्-प्रमाणां गायत्रिकां साष्टसहस्रसंख्याम् । शतप्रमाणा-मथवाघहन्त्रीं शुभैर्यवैर्व्याहृतिभिस्तिलैश्च । ततःसुरान् भूमिसुरान् पितॄंश्च सन्तर्पयेदन्नसुवर्णवस्त्रै-रिति” । शान्तिकप्रकारस्तु शान्तिपद्धत्यादौ द्रष्टव्यः ।एवं शान्तिकं विधाय गर्भाधानं विधेयम् । तत्र स्वपत्नीगमे स्वपत्नीगमने एतान् दोषान् त्यजेदिति सर्वत्रसम्बन्धः । एतान् कान्? त्रिविधं गण्डान्तं गण्डात्त-लक्षणं रत्नमालायाम् “नक्षत्रतिथिलग्नानां गण्डान्तंत्रिविधं स्मृतम् । नवपञ्चचतुर्थानां द्व्येकार्द्धघटिकामित-मिति” निधनं जन्मर्क्षात् सुप्तम बधतारां, जन्मनक्षमूलम् अन्तकं भरणीं दास्रमश्विनीम् । पौष्णं रेवतींमघाम् उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातम्महापातं च, वैधृतिं योगं, पित्रोर्मातापित्रोः श्राद्ध-दिनं, दिवा सूर्यावच्छिन्नकालं परिधयोगस्य पूर्वार्द्वम् ।तथोत्पातैर्दित्यान्तरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं, जन्मर्क्षतः जन्मलग्नाज्जन्मराशेर्वा मृत्युभवनमष्टमं लग्नंपापभं पापग्रहयुक्तं भं नक्षत्रं लग्नं वा इति” पी० धा०“भद्राषष्ठीपर्वरिक्ताश्च सन्ध्यां भौमार्कार्कीनाद्यरात्रीश्चतस्रः । गर्भाधानं त्र्युत्तरेन्द्वर्कमैत्रब्राह्मस्वातीविष्णुवस्वम्बुपे सत्” मु० चि० । “भद्रेति भद्रा प्रसिद्धाषष्ठी तिथिश्च पर्वाणि चतुर्दश्यष्टम्यमावास्या पूर्णिमासक्रमणानि उक्तञ्च विष्णुपुराणे “चतुर्दश्यष्टमी चैवअमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र! रविसं-क्रान्तिरेव चेति” रिक्ताश्चतुर्थीनवमीचतुर्दशीः, सन्ध्यांप्रातःसन्ध्यां सायम् सन्ध्याञ्च । भौमं मङ्गलवारम् अर्क-मादित्यवारम् आर्किं शनैश्चरवारं, चतस्रः आद्यरात्रीःरजोदर्शनदिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः । तद-नन्तरमपि पुत्रार्थी रजोदर्शनात् विषमदिवसं त्यजेत् ।उक्तञ्चाधानाध्याये वसिष्ठेन निषेधजातं “पौष्णद्वये पि-त्र्यभयाम्यसार्पविष्णुद्वये नैधनजन्मभेषु । उत्पात-धापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने । उपप्लवेवैधृतपातयोश्च विष्ट्यां दिवा पारिघपूर्वभागे । सन्ध्यासुपर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् ।दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपे-यात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गण्डांस्तिथिलग्नभानामिति” वक्ष्यमाणयोगैः पुंयोगैः स्त्रीयो-गैश्च । अत्र ग्रन्थकृता श्रवणधनिष्ठयोर्न निषेधः कृतः ।वार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात् । तद्व-चनमधुनैव वक्ष्यते । ननु षोडशिग्रहणाग्रहणवत् विहि-तप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति? सत्यम् बहूना-मनुरोधोन्याय्य इति विधिरेबोचितः । अतएवोक्तंनारदेन “शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत् स्त्रियम् ।पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभमिति”“त्यक्त्वा पर्वतिथिं मूलभश्लेषां पैत्रभन्त्विति” काश्य-पोक्तेः । तिथ्यादयः कश्यपेन कालविधाने उक्ताः ।“षष्ठ्यष्टमा पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्रहित्वा । शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशा-ङ्कार्यसितेन्दुजानामिति” अत्र वाक्ये चन्द्रबुधगुरुशुक्र-वारा निषेककार्ये शुभा उक्ताः । अर्थादन्ये सूर्यभौयशनिवारा निषिद्धाः । उक्तञ्च कालनिर्णये “रिक्तापर्वाष्टमी षष्ठी दिवा जन्मत्रयं तथा । पापग्रहाणांवाराश्च त्याज्याश्चैवानृतौ गतिरिति” । अतएव वृह-स्पतिसंहितायाम् “शेषाण्यृक्षाणि दुष्टानि स्युर्निषे-काख्यकर्मणीत्युक्तं “सोमज्ञगुरुशुक्राणां वारा वर्गोदयाःशुभाः । तेषाञ्च दृष्टयश्चैव नेतरेषां कदाचनेति” अत्रकेचिन्निषेके पुंवारा उत्तमाः स्त्रीवारौ मध्यमौ नपुंस-कवारौ निषिद्धौ उक्तञ्च व्यासेन “पुरुषग्रहवाराःस्युः शुभाः सीमन्तकर्मणि । मध्यौ स्त्रीग्रहवारौतु वर्ज्जयेत्तु नपुंसकाविति” अत्र सीमन्तग्रहणमुपलक्षणंगर्भाधानस्येत्याहुः । युक्तञ्चैतत् पुंस्त्रीवारेषु स्त्रीगमने पुरुषाः स्त्रियो वोत्पद्यन्ते इति तावदिष्टम् ।नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यान्न हिसा कस्यचिदिष्टा भवेदिति नपुंसकबुधवारनिषेध एवो-चितः । शनिनिषेधस्तूभयवादिसिद्ध एव दाक्षि-णात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषांग्रहणमिनि प्रतीमः । प्राच्य स्तु नैतत्सहन्ते तन्मतेतु सूर्यभौमशनीनामेव निषेधः । नारदः “रजोद-र्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रियास्वेताः सर्ववर्णेष्वयं विधिः” । अत्रार्थवादमाह भर-द्वाजः “प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।तृतीये रजकी प्रोक्ता चतुर्थेऽहनिं शुध्यति” । धर्म-शास्त्रेऽपि “भर्त्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्रीरजस्वला । पञ्चमऽहनि योग्या स्याद्देवे पित्र्ये च क-र्मणि” । तस्मादेतावतो दोषांस्त्यक्त्वा स्त्रागमनं हितमिति ।ऋतुकालावधिमाह याज्ञवल्क्यः “षोडशर्त्तुर्निशाःस्त्रीणां तस्मिन् युग्मासु सविशेत् । युग्मासु पुत्रा जायन्तेस्त्रियोऽयुग्मासु रात्रिषु” अतः षोडशदिनमध्ये गर्भाघानंविधेयम् तत्रैव गर्भसम्भवात्तत्र वाराः समीचीनाःप्रागक्ता एवाधुना नक्षत्राण्याह गर्भाधानमिति । उ-त्तरात्रयमृगहस्तानुराधाराहिणीस्वातिश्रवणाधणिष्ठाश-ततारकासु गर्भाधानं सत् शुभदम उक्तञ्च वार्हस्पत्य-संहितायाम “हरिहस्तानुराधाश्च स्वातीवारुणवा-सवम् उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः ।आधाने मूलसार्पान्त्यमशुभं सममन्यभमिति” एवं विहि-तनक्षत्रे सात चन्द्रवले गर्भाधानार्थं सकृदव पत्नीगमनं-कार्यमित्याह “याज्ञवल्क्यः । “एवं गच्छेत् स्त्रियक्षामां मवां मूलं च वर्जयेत् । सुस्थिरेन्दौ सकृत् पुत्रंलक्षण्यं जनयेत् पुमान्” चकाराद्रेवतीम् । भीमपरा-क्रमोऽपि “पित्र्यं पौष्णं नैरृतं चापि धिष्ण्यं त्य-क्त्वा नारीं सुप्रसन्नः प्रसन्नाम् । पुष्टः क्षामां पुत्रकामोऽभिगच्छन् सल्लक्षण्यं पुत्रमाप्नोति पुण्यमिति” । तच्चगमनं मन्त्रपूर्वकम् । तदुक्तं विष्णुपुराणे “ऋतावुष-गमः शस्तः स्वपत्न्यां मन्त्रतो द्विजेत्युक्तेः” इदन्त्रैवर्णिक-विषयं प्रतीयते । मन्त्रास्तु “विष्णुर्योनिं कल्पयत्वित्येवमादयः । “एतैर्मन्त्रैर्दक्षिणेन पाणिना पत्न्यमभिमृशे-दिति गोभिलोक्तेः” पी० धा० । “केन्द्रत्रिकोणेषुशुभैश्च पापैस्त्र्यायारिगैः पुंग्रहदृष्टलग्ने । ओजां-शगेऽब्जेऽपि च युग्मरात्रौ चित्रादितीज्यातिइषु मध्यमंस्यात्” मु० चि० । अथ गर्भाधाने लग्नबलमिन्द्रवज्रयाह । केन्द्रेति अथ सामान्यतः शुभलग्नानि वसि-ष्ठोक्तानि वृषमिथुनकर्कसिंहकन्यातुलाधरचापझषाः शुभाभवन्ति । यदि शुभफलशालिनोऽनुकूला निधनविशुद्धि-युता निषेककाले” इति । तत्र केन्द्रत्रिकोणेषु लग्न-चतुर्थसप्तमदशमपञ्चमनवमस्थानेषु स्थितैः शुभग्रहैस्तथात्र्ययारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपल-क्षिते पुंग्रहैः सूर्यभौमगुरुभिर्दृष्टे लग्ने तथौजांश-गेन्दौ विषमराशिर्मेषमिथुनादिरंशोऽजादिरेव तत्रस्थिते चन्द्रे सति युग्मरात्रौ समरात्रौ गर्भाधानंकार्यम् यदाह जगन्मोहने वसिष्ठः “केन्द्रत्रिकोणेषु शुभाश्रितेषु लग्ने शशाङ्के च शुभैः समेते । पापैस्त्रिलाभा-रिगतैश्च यायात् पुंजन्मयागेषु च संप्रयोगम्” नारदः“आजराश्यंशगे चन्द्रे लग्ने पुंग्रहर्वा क्षत । शुचिर्भू-त्वा युग्मतिथौ ह्यनग्नां कामयेत् स्त्रियमिति । पुंग्रहादी-नाह नारदः “पुंग्रहाः सूर्यजीवाराः स्त्रीग्रहौ शशिभार्गवौ । नपुंसकौ सौम्यसौरी शिरोमात्रं विधुन्तुदः”इति । अत्र पुंनपुंसकादियोगावशिष्ठेनोक्ताः “आधान-लग्ने विषमांशराशौ जीवेन्दुजाभ्यां युतवीक्षिते वा ।नान्येः सुपुत्रस्त्वथ पापखेटैः पापी च मिश्रैर्बलिभिश्चमिश्रः । ओजक्षांशे लग्नगे वीर्युयुक्ते जीवेन्घर्कैरोज-राश्यंशसंस्थैः । पुंजन्म स्याद्व्यत्यये कन्यका स्यान्-मिश्रैः षण्ढोद्व्यङ्गगैर्द्वित्रिजन्म । षण्ढो नपुंसकः“ओजांशकक्षाद्विषमर्क्षसंस्थः पुंजन्मकारी रविसूनुरेकः ।विचार्य वीर्यं पुरुषग्रहाणां वाच्योऽत्र पुत्रस्त्वथ पुत्रिका वा । पापैश्च शेषं सुविचिन्त्य वाच्यमिति” । एवस-न्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः । एषुयस्मिन् कस्मिंश्चित् पुंजन्मयोगे पुत्रार्थी युग्मर्तौ पत्नीं ग-च्छेत् । कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नींगच्छेत् इति फलितोऽर्थः । अथ गर्भाधाने विहितनक्ष-त्राप्राप्तौ मध्यमनक्षत्राण्याह । चित्रेति चित्रापुनर्व-सुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः ।यदाह वृहस्पतिः “चित्रादित्ये तथा तिष्यतुरगौ चेतिमध्यमाः । शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीति”अत्र केचित् दैवान्मानुषाद्वा प्रतिबन्धाद्भर्त्तुरसन्निधानेअनेकेषु ऋतुषु व्यतीतेषु यदि गर्भाधानाख्यः संस्कारोनाभूत्तदानीं दैवान्मध्ये भर्त्ता सुमागतश्चेत्तदा दक्षिणा-यने शुक्रास्तगुर्वस्तन्यूनाधिमासादिमहादोषरद्भावस्तदागर्भाधानं नैव भवतीत्याहुः अतीतकालत्वात् यथा का-लातीतेषु जातकर्म नामकर्मान्नप्राशनचौलादिसंस्काराःपूर्वोक्तदोषसद्भावे नैव भवन्ति । उक्तञ्च वसिष्ठेन “अतीत-कालान्यखिलानि यानि कार्याणि सौम्यायनुगे दिनेशे ।गुरौ भृगौ वाप्यथदृश्यमाने तदुक्तपञ्चाङ्गदिनेऽप्यखण्डे”इति सत्यम् । सत्यपि नॄणामतिक्रमे निमित्तानन्तर-मेव नैमित्तिकमिति” न्यायेन “षोडशर्तुनिशाः स्त्रीणांतस्मित् युग्माशु संविशेत्” इति याज्ञवल्क्यवचसा षो-डशदिनातिक्रमे ऋत्वन्तरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिंविचार्य कार्यलेव । तदा बहुकालव्यापिनी कालशद्धिरुपे-क्ष्यैव यतो विज्ञानेश्वरेण “तस्मिन् युग्मासु संविशेदिति”व्याख्यावसरे किमयं विधिर्नियमः परिसंख्या वेति त्रयःपक्षा उप्रन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेर्नियमएवायमिति सिद्धान्तितमतो गच्छेदेवेति नियमस्मरणात्ऋतावुपेयात् सर्वत्र वा प्रतिषेधवर्जमिति” गौतमस्मर-रणात् ऋत्वगमने प्रत्यवायोऽपि स्मर्यते “ऋतुस्नातां तुयो भार्य्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणह-त्यायां युज्यते नात्र शंशयः” इति शातातपोक्तेः ।“अथ गर्भाधानं विघाय पुंसानिद्रासमये किं कार्य-मित्याह विष्णुः । “गिद्रासमयमासाद्य ताम्बूलं वदनात्त्यजेत् । पर्य्यङ्कात् प्रमदां मालां पुण्ड्रपुष्पाणि मस्त-कात्” इति” । पी० धा० । निषेकोत्तरं कार्य्यमाहआ० त० । “अत्र सम्यगाधा नहेतुतया उत्तानकरचर-णामेव कुर्व्वीत नातिर्य्यगाहितकरचरणां स्त्रियं ऋ-त्वभिगमनानन्तरं दक्षिणपार्श्वेन स्वापयेत् । पुरुषयितेंतु गर्भानुत्पत्तिरिति विशेषः । गर्भाधानञ्च गर्गस्थ-बालस्य तदाधारपात्रस्य च सीमन्तोन्नयनवत् संस्कारः“सीमन्तोन्नयनसंस्कारो गार्भपात्रसंस्कारः” इति श्रुतेःगर्भपात्रयोरयं संस्कार इति गार्भपात्रः गर्भस्य उदर-स्थस्य, पात्रस्य तदाधारस्त्रियश्च । सीमन्तोनयनपदमुप-लक्षणार्थम् । यदि दैवात् गर्भाधानादिसंस्कारा-यथाकाले न कृतास्तदा प्रसवकालोत्तरं जातकर्मा-द्युत्तरसंस्कारकाले “अङ्के बालकं निधाय संस्कारः कार्य्यःयथाह राजमार्त्तण्डे “यं नार्य्यकृतसीमन्ता सूयते चकथञ्चन । अङ्के निधाय तं बालं पुनः संस्कारमर्हति” ।तेन संस्कारेण च तदाधारे उत्पन्नानामपि संस्कारसिद्धिः“सकृच्च कृतसंस्काराः सीमन्ते न कुलस्त्रियः । यं यं गर्भंप्रसूयन्ते स गर्भः संस्कृतो भवेत्” राजमार्त्तण्डात् ।लग्नभेदेन गर्भाधाने शुभाशुभं वृहज्जातके ४ अ० निषेका-ध्याये विस्तरेणोक्तं जातकपद्धतौ तु किञ्चित् संक्षिप्योक्तंयथा “आधानाङ्गात् सप्तमभे यादृशं कुरुते रतम् ।करोति तादृक् पुरुषसमुत्पत्तिं बलान्विताम् । रवीन्दु-शुक्रभौमाश्चेत् स्वांशे वाथ गुरौ तनौ । नवमे पञ्चमे वास्यादपत्यं पुंस्त्वशालि तत् । वलिष्ठौ स्वगृहांशेऽर्कशु-क्रावुपचयर्क्षगौ । पुंसां, स्त्रीणां कुजेन्दू चेत् तदा गर्भस्यसम्भवः । भौमार्की सप्तमेऽर्कात् स्तो रुजे पुंसः, स्त्रियाविध्रोः । भौमाकिर्मध्ये सूर्येन्दू पुंस्त्रियोर्मृत्यवेक्रमात् । भौमार्क्यन्यतयेणार्कचन्द्रौ युक्तेक्षितौ क्रमात् ।पुंस्त्रियोर्मृत्युदौ प्रोक्तौ प्राक् सूतेः प्राक्तनैर्बुधैः ।लग्ने वेन्दौ पापमध्ये शुभदृष्टिविवर्जिते । सगर्भस्त्री-मृतिः स्याद्वा यथा वामनभाषितम् । दिवा सूर्यशुक्रौ, शनीन्दू च रात्रौ, ४ जले तातमातृग्रहौ व्यस्ततस्तौ ।तयोः सोदरस्वसृसंज्ञौ क्रमात्तु तयोरोजयुग्मर्क्षगौसौख्यहेतू । कललं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः ।अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी । भृग्वारे-ज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः । मासेशे पीडितेगर्भरोगः पुष्टिश्च सद्बले । (प्रथममासे कललं शुक्रशो-णितमिश्रणरूपं तत्र शुक्रोऽधिपः । द्वितीये काठिन्यंतदीशः कुजः । तृतीयमासे हस्ताद्युत्पत्तिः गुरुस्तदीशः ।चतुर्थेऽस्त्युत्पत्तिः सूर्य्यस्तदीशः । पञ्चममासे चर्म्मोत्-पत्तिश्चन्द्रोऽधिपः । षष्ठे रोमोत्पत्तिः शनिरधीशः ।सप्तमे चैतन्यं बुघोऽधिपः । अष्टमे मात्राभुक्तान्नादेर्नाडीद्वारेणाशनम्, तत्र गर्भाधानलग्नेशः स्वामी । नवमेउद्वेगः चन्द्रोऽधीशः । दशमे प्रसवः, सूर्य्यस्तदीशःआधानकाले उक्तग्रहे पीडिते तत्तुल्यमासे गर्भपातादिवलयुक्ते तत्तन्मासे पुष्टिः) । विषमर्क्षनवांशेषुगुरुचन्द्राङ्गभानुषु । पुंजन्म समभांशेषु, स्त्रियस्तेघुसमादिशेत् । सूर्य्येज्यौ विषमेऽंशे चेत् सबलौ पुं-जनिप्रदौ । स्त्रियाः समांशे शुक्रेन्दू, कुजाद्द्व्यङ्गांशकेयमम् । भानुमन्दज्ञदृष्टाच्चेत् पुंस्त्रीयुग्मं नवांशकात् ।विषमर्क्षे शनिर्लग्नाल्लग्नं त्यक्त्वा नृजन्मदः । इन्दुर्वृषेभसन्धिस्थैरशुभैर्मूकजन्मदः । व्ययेऽर्केन्दू दक्षवामनेत्र-नाशकरौ मतौ । शनिभांशे तनौ, मन्दे सप्तमेऽब्दत्रयात्शवः । स्वांशे कर्कतनौ चन्द्रे द्यूने द्वादशवर्षतः । यत्संख्येद्वादशांशे स्याच्चन्द्रः प्रश्नेततःपरम् । तत्तुल्यराशिसहितेचन्द्रे सूतिं वदेत् सुधीः” आधानाध्यायः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
