| YouTube Channel

गर्भागारं (garbhAgAraM)

 
शब्दकल्पद्रुमः
Sanskrit
गर्भागारं,
क्ली,
(गर्भ इव आगारं गृहम् गृहाभ्य-न्तरवर्त्तित्वात् तथात्वम् ।) गृहमध्यभागः ।शयनगृहम् गृहान्तर्गृहं इत्येके इति भरतः
तत्पर्य्यायः वासगृहम् इत्यमरः ।२ २८
(यथा, कथासरित्सागरे ७१ ।“साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ ।एकैव देवं द्रष्टुञ्च गर्भागारादथाविशत्
*
गर्भः कुक्षिः आगारं गृहमिव शिशोराश्रय-भूमेस्तथात्वम् यद्बा, गर्भस्य उदरस्थ-शिशोरागारम् ।) गर्भाशयः इति राज-निर्घण्टः