गर्भस्रावः (garbhasrAvaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiगर्भस्रावः
गर्भ-स्रावः -
"गर्भ गिर जाना, गर्भ का कच्ची अवस्था में बह जाना"
शब्दकल्पद्रुमः
Sanskritगर्भस्रावः, (गर्भस्य स्रावश्च्युतिः पात इत्यर्थः ।)गर्भपातः । त्ततुर्थमासपर्य्यन्तं शोणितरूप-गर्भस्य स्रवणम् । पेटखसा इति भाषा ॥
तस्या-शौचं यथा, --“यदि गर्भो विपद्येत स्रवते वापि योषितः ।यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम् ॥
”इति गारुडे १०७ अध्यायः ॥
“रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।”इति मनुः । ५ । ६६ ॥
* ॥
“अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ-संस्रवः ।तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥
अत ऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः ॥
”इति कूर्म्मपूराणम् ॥
* ॥
(“अन्तराजन्ममरणे शेषाहोभिर्विशुध्यति ।गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥
”इति याज्ञकल्क्यः । ३ । २० ॥
)अन्यत् अशौचशब्दे द्रष्टव्यम् ॥
* ॥
* ॥
अथ गर्भस्रावनिदानलक्षणे ।“भयाभिघाततीक्ष्णोष्णपानाशननिषेवणात् ।गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥
आ चतुर्थात् ततो मासात् प्रस्रवेद्गर्भविद्रवः ।ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥
गर्भोऽभि वातविषमाशनपीडनाद्यैःपक्वं द्रुमादिव फलं पतति क्षणेन ।मूढः करोति पवनः खलु मूढगर्भंशूलञ्च योनिजठरादिषु मूत्रसङ्गम् ॥
”इति माधवकरः ॥
अथ गर्भस्रावपातयोर्न्निदानमाह ।“ग्राम्यधर्म्माध्वगमनयानस्खलनपीडनैः ।ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः ॥
वमनाच्च विरेकाच्च कुन्थनाद्गर्भपातनात् ।तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात् ॥
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् ।गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥
”गर्भपातनात् नियमेन गर्भपातनशीलं द्रव्यंतस्मात् ॥
गर्भस्य स्रावपातयोः पूर्व्वरूपमाह ।गर्भेपततीत्यादि । पतति स्रावेण पातेन वापतिष्यति ॥
* ॥
स्रावपातयोरवधिमाह ।आ चतुर्थात्ततो मासात् प्रस्रवेद्गर्भविद्रवः ।ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥
आ चतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् ।गर्भस्य विद्रवः शोणितरूपः । गर्भः स्रवतिशोणितमिति भोजवचनात् । स्थिरशरीरस्यकठिनशरीरस्य गर्भस्य । गर्भपातस्य दृष्टान्तंदर्शयति ।गर्भोऽमिघातविषमासनपीडनाद्यैःपक्वं द्रुमादिव फलं पतति क्षणेन ।यंथा वृन्तलग्नं पक्वं फलं अभिघातेनाकालएव पतति तथा गर्भोऽप्यभिघातादिनाऽकालेऽपिपतति ॥
* ॥
अथ गर्भस्रावस्य चिकित्सा ।गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः ।तन्निरोधाय सुस्निग्धमुत्पलादि शृतं पिबेत् ॥
उत्पलादिगणमाह ।उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा ।श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ॥
संशीलितो हरत्येव दाहं तृष्णां हृदामयम् ।रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्दिमरोचकम् ॥
* ॥
अथ गर्भपातस्योपद्रवानाह ।प्रस्रंसमाने गर्भे स्याद्दाहं शूलञ्च पार्श्वयोः ।पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते ॥
प्रस्रंसमाने पतति ॥
* ॥
अथ गर्भस्य स्थाना-न्तरगमने चोपद्रवानाह ।स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि च जायते ।आमपक्वाशयादौ तु क्षोभः पूर्व्वेऽप्युपद्रवाः ॥
पूर्व्वेऽप्युपद्रवाः पार्श्वे शूलादयः ॥
* ॥
तच्चिकित्सामाह ।स्निग्धाः शीताः क्रियास्तेषु दाहादिषु समाचरेत् ।कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च ॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् ।श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत् ॥
शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम् ।अम्लानः पुष्पजातिः । अयं वाणपुष्पं इतिगौडादौ प्रसिद्धः ।” इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
