| YouTube Channel

गर्धनीयम् (gardhanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गृधु अभिकाङ्क्षायाम्”@} 2 ‘गृधेर्गृध्यति काङ्क्षायां, गर्धेस्तत्रैव गर्धयेत्।’ 3 इति देवः।
गर्धकः-र्धिका, गर्धकः-र्धिका, 4 जिगर्धिषकः-षिका, 5 जरीगृधकः-धिका
गर्धिता-त्री, गर्धयिता-त्री, जिगर्धिषिता-त्री, जरीगृधिता-त्री
6 गृध्यन्-न्ती, 7 गर्धयन्-न्ती, जिगर्धिषन्-न्ती
-- गर्धिष्यन्-न्ती-ती, गर्धयिष्यन्-न्ती-ती, जिगर्धिषिष्यन्-न्ती-ती
-- 8 व्यतिगृध्यमानः, गर्धयमानः, -- जरीगृध्यमानः
व्यतिगर्धिष्यमाणः, गर्धयिष्यमाणः, -- जरीगृधिष्यमाणः
9 सङ्घृत्-सङ्घृद्-सङ्गृधौ-सङूगृधः
-- -- 10 गृद्धम्-गृद्धः-गृद्धवान्, गर्धितः, जिगर्धिषितः, जरीगृधितः-तवान्
गृधः, 11 धनगर्धी, 12 गर्धनः, 13 14 गृध्नुः, 15 गर्धः, जिगर्धिषुः, जरीगृधः
16 गर्धितव्यम्, गर्धयितव्यम्, जिगर्धिषितव्यम्, जरीगृधितव्यम्
गर्धनीयम्, गर्धनीयम्, जिगर्धिषणीयम्, जरीगृधनीयम्
17 गृध्यम्, 18 गर्ध्यम्, जिगर्धिष्यम्, जरीगृध्यम्
ईषद्गर्धः-दुर्गर्धः-सुगर्धः
-- -- गृध्यमानः, गर्ध्यमानः, जिगर्धिष्यमाणः, जरीगृध्यमानः
गर्धः, गर्धः, जिगर्धिषः, जरीगृधः
गर्धितुम्, गर्धयितुम्, जिगर्धिषितुम्, जरीगृधितुम्
गृद्धिः, गर्धना, जिगर्धिषा, जरीगृधा
गर्धनम्, गर्धनम्, जिगर्धिषणम्, जरीगृधनम्
19 गर्धित्वा-गृद्ध्वा, गर्धयित्वा, जिगर्धिषित्वा, जरीगृधित्वा
प्रगृध्य, प्रगर्ध्य, प्रजिगर्धिष्य, प्रजरीगृध्य
गर्धम् २, गर्धित्वा २, 20 गृद्ध्रः।
गर्धम् २, गर्धयित्वा २, जिगर्धिषम् २, जिगर्धिषित्वा २, जरीगृधम्
जरीगृधित्वा
प्रासङ्गिक्यः
01
=>
(४२४)
02
=>
(४-दिवादिः-१२४६। सक। सेट्। पर।)
03
=>
(श्लो। १२३)
04
=>
[[१। अस्य धातोः सेट्कत्वात् सनि ‘जिगर्धिषकः’ इति रूपमेव साधु। क्षीर- तरङ्गिण्यां इडभावघटितप्रयोगो दृश्यते ‘जिघृत्सति’ इति
\n\n तत्र प्रमाणं नोपलभ्यते।]]
05
=>
[[२। ‘रीगृदुपधस्य च’ (७-४-९०) इति यङ्न्ते सर्वत्र अभ्यासस्य रीगागमः।]]
06
=>
[[३। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावात् अङ्गस्य गुणो न।]]
07
=>
[[४। गर्धयन् माणवकम्। प्रतारयन् इत्यर्थः। ‘गृधिवञ्च्योः प्रलम्भने’ (१-३-६९) इति ण्यन्ताद् गृधेः परस्मैपदमेव। अन्यत्र, ‘श्वानं गर्धयन् गर्धयमानः’ इति भवति। स्पृहामुत्पादयन् इत्यर्थः।]]
08
=>
[[५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
09
=>
[[६। पदान्ते ‘एकाचो बशो भष् झषन्तस्य स्घ्वोः’ (८-२-३७) इति भष्भावः। जश्त्वं चर्त्वञ्च।]]
10
=>
[[७। उदित्त्वेन क्त्वायामिटो विकल्पनात् ‘यस्य विभाषा’ (७-२-१५) इत्यनेन निष्ठायाम् इण्णिषेधः।]]
11
=>
[[८। ‘सुष्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः। ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वम्।]]
12
=>
[[९। ‘जुचङ्क्रम्यदन्द्रम्यसृगृधि--’ (३-२-१५०) इत्यादिना ताच्छीलिको युच्।]]
13
=>
[[आ। ‘कपिश्चङ्क्रमणोऽद्यापि नासौ भवति गर्धनः। कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्।।’ भ। का। ७-१६।]]
14
=>
[[१०। ‘त्रसिगृधिधृषिक्षिपेः--’ (३-२-१४०) इति क्रुः ताच्छीलिकः। ‘नेड् वशि कृति’ (७-२-८) इति इण्णिषेधः।]]
15
=>
[[B। ‘नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्यद्रुजं क्ष्विद्यन् ऋद्धिमगृध्नवेऽपि विमृश्याक्षीयमाणां ददौ।।’ धा। का। २-६७।]]
16
=>
[पृष्ठम्०४१५+ २१]
17
=>
[[१। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
18
=>
[[आ। ‘इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि।।’ भ। का। ६-५५।]]
19
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणो भवति।]]
20
=>
[[३। ‘सुसूधाञ्गृधिभ्यः क्रन्’ (द। उ। ८-४२) इति क्रन् प्रत्ययः। गृध्रः = लुब्धकः, श्येनो वा।]]