| YouTube Channel

गर्द्दभाण्डः (garddabhANDaH)

 
शब्दकल्पद्रुमः
Sanskrit
गर्द्दभाण्डः,
पुं,
(गर्द्दभं गन्धविशेषं अमति गच्छतिप्राप्नोतीत्यर्थः अम गत्याम् + “ञमन्ताड्डः ।”उणां ११३ इति डप्रत्ययः ।) वृक्षविशेषः ।गान्धिभाट इति ख्यातः अयं पत्रकाण्ड-फलादिभिरश्वत्थाकारः गन्धपिप्पलः इतिकेचित् इति भरतः
गर्द्दपिप्पली इतिख्यातः इति सारसुन्दरी
तत्पर्य्यायः कन्द-रालः कपीतनः सुपार्श्वकः प्लक्षः ।इत्यमरः ४२
शुङ्गी प्लवः ७कमण्डलुः इति जटाधरः
गर्द्धभाण्डः ९प्लक्षेशः १० कन्दरालकः ११ इति शब्दरत्ना-वली
प्लक्षवृक्षः इति राजनिर्घण्टः
पाकुडइति भाषा
(कपीतनाश्वत्थशब्दयोरस्य विवृति-र्ज्ञेया
)