| YouTube Channel

गर्द्दभयाग (garddabhayAga)

 
वाचस्पत्यम्
Sanskrit
गर्द्दभयाग
पु०
गर्दभेन यागः अवकीर्ण्णिनः पाप-क्षयार्थे नैरृतदेवताककाणगर्दभपश्वालम्भनेन कर्त्तव्येयागभेदे तद्विधिर्मनुनोक्तो यथा“अवकीर्णी तु काणेन गर्दभेन चतुष्पथे पाक-यज्ञविधानेन यजेत निरृतिन्निशि हुत्वाग्नौ विधि-बद्धोमानन्ततर्श्च समेत्यृ चा वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाऽऽहुतीः कामतो रेलसः सेकं व्रतस्थस्य द्विजन्मनः ।अतिक्रमं व्रतस्याहुर्द्धर्मज्ञा ब्रह्मवादिनः मारुतं पुरु-हूतञ्च गुरुं पावकमेव चतुरो व्रतिनोऽप्येतिब्राह्मन्ते जोऽवकीर्णिनः” ।गर्दभयज्ञ गर्दभेज्यादयोऽप्यत्र तत्र विशेषः कात्या० श्रौ०सूत्रे उक्तो यथा ।“वाऽवकोर्णिनो गर्दभेज्या” सू० १३ “यो ब्रह्मचारीसन् स्त्रियं गच्छति सोऽवकीर्णी तस्यावकीर्णिनः स्खलित-ब्रह्मचर्यस्य गर्दभेज्या गर्दभेनेज्या यागो गर्दभेज्या प्राय-श्चित्तार्था भवति वाशब्दो विकल्पार्थः तेन गृह्योक्तमपिप्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विकल्पेन भवति “अथाप-रमाज्याहुती जहोति कामावकीर्णोऽस्मीत्यादिना” (पार-स्कर) शाखान्तरे उभयस्य विकल्पेन श्रुतत्वात्अत्रैतद्विचार्य्यते किं स्थपतीष्टिरवकीर्णिपशुश्च तदुभय-साधनसंस्कृतेष्वाहवनीयादिषु भवति उत लौकिके इति ।तत्र प्रकृतित आहवनीवादिप्राप्रेराहवनीयादीनां चा-धाननिष्पाद्यत्वात् स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपिइष्टिपशू आधानं प्रयोजतः अत एतदर्थमेवाधानेनाऽऽ-हवनीयादीनुत्पाद्य तेष्वेतदुभयं कर्त्तध्यमिति प्राप्तेआह” कर्कः “लौकिके” १४ सू० “एतौ स्थपतीष्ट्यवकीर्णिपशूलौकिकेऽग्नौ भवतः हीमाविष्टिपशू आधानं प्रयोजयतःआभ्यां हि तदेव गृह्यते यद्दर्शपूर्ण्णमासाङ्गं भवति नचाधानं दर्शपूर्णमासाङ्गम् स्वकाले हि पुरुषसंस्कारकत्वेनतद्विहितमिति अतो लौकिकाग्नावेवैतावनुष्ठेयौ लौ-किकमेव गार्हपत्यस्थाने स्थापयित्वा तत आहवनीया-दिस्थानेषु विहृत्य स्थपतीष्ट्यवकीर्णिपशू दशपूर्णमासप-शुवत् कर्त्तव्यौ अत्र विशेषविधानार्थमाह” कर्कः “भूमौपशुपुरोडाशश्रपणम्” १५ सू० “अत्रावकीर्णिनो गर्दभपशुयागेपशुपुरोडाशस्य श्रपणं भूमावेव कर्त्तव्यम् तु कपालेलु”कर्कः “अप्स्ववदानहोमः” १६ सू० “अवदानानां हृदय-जिह्वाक्रोडादीनां होमोऽप्सु उदकेषु भवति नाग्नौ वच-नात् अवदानग्रहणाटन्यदाघाराज्यभागहोमादिकम-ग्नावेव कार्य्यम्” कर्कः “शिश्नात् प्राशित्रावदानम्” १७ सू० ।“गर्दभस्य शिश्नात् प्राशित्रावदानं कार्य्यम् वचनात्” कर्कः