| YouTube Channel

गर्द्दभः (garddabhaH)

 
शब्दकल्पद्रुमः
Sanskrit
गर्द्दभः,
पुं,
(गर्द्दति गर्द्दयति वा कर्कशशब्दं करो-तीत्यर्थः गर्द्द कि रवे + “कशॄशलिकलीति ।”उणां १२२ इति अभच् ।) पशुविशेषः ।गाधा इति भाषा (यथा, मनौ २९८ ।“गर्द्दभाजाविकानान्तु दण्डः स्यात् पञ्चमाषिकः
”)तत्पर्य्यायः चक्रीवान् बालेयः रासभः ४खरः इत्यमरः ७७
राशभः ।इति तट्टीका
शङ्ककर्णः भारगः भूरि-गमः धूसराह्वयः १० वेशवः ११ धूसरः १२ ।इति जटाधरः
स्मरसूर्य्यः १३ चिरमेही १४पशुचरिः १५ चारपुङ्खः १६ चारटः १७ग्राम्याश्वः १८ इति शब्दरत्नावली
*
अस्यमांसस्य गुणः किञ्चित् गुरुत्वं बलप्रदत्वञ्च ।मूत्रस्य गुणाः कटुत्वम् उष्णत्वम् तिक्त-त्वम् क्षारत्वम् कफमहावातभूतकम्पोन्माद-हरत्वञ्च इति राजनिर्घण्टः
(तथा ।“गार्द्दभं वा घंनं मूत्रं तैलयोग्यं क्वचिद्भवेत् ।सक्षारं तिक्तकटुकमुन्मादकुष्ठरोगजित्
”इति हारीते प्रथमे स्थाने नवमेऽध्याये
“गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।दीपनं गार्द्दभं मूत्रं कृमिवातकफापहम्
”इति सुश्रुते सूत्रस्थाने ५४ अध्याये
)तस्मात् गुणशिक्षा यथा, --“अविश्रामं वहेद्भारं शीतोष्णञ्च विन्दति ।ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात्
”इति चाणक्यम् ७०