| YouTube Channel

गर्ज्जरं (garjjaraM)

 
शब्दकल्पद्रुमः
Sanskrit
गर्ज्जरं,
क्ली,
मूलविशेषः गाजर इति भाषा
तत्पर्य्यायः पिण्डमूलम् पीतकन्दम् ३सुमूलकम् स्वादुमूलम् सुपीतम् नार-ङ्गम् पीतमूलकम् अस्य गुणाः मधुर-त्वम् रुचिकारित्वम् किञ्चित् कटुत्वम् ।कफाघ्मानक्रिमिशूलदाहपित्ततृष्णानाशित्वञ्च ।इति राजनिर्घण्टः
तत्पर्य्यायगुणाः ।“गाजरं गृञ्जनं प्रोक्तं तथा नारङ्गवर्णकम् ।गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु
संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित्
”इति भावप्रकाशः