| YouTube Channel

गर्ज्ज (garjja)

 
शब्दकल्पद्रुमः
Sanskrit
गर्ज्ज, ऊर्ज्जाशब्दे इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) ऊर्ज्जा बलम् सेमक्तात् सरोरितिअः तत्करणकशब्दः गर्ज्जति सिंहः इतिदुर्गादासः
गर्ज्ज, स्वने इति कविकल्पद्रुमः
(चुरां-परं-अकं-सेट् ।) क, गर्ज्जयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गर्ज्ज ऊर्ज्जाहेतुकशब्दे
भ्वा०
षर० अक० सेट् गर्ज्जति ।अगर्जीत् जगर्ज गर्जितम् गर्जनं गर्जः गर्जन् ।गर्ज्जा “गर्ज गर्जक्षणं मूढेति” देवीमाहात्म्यम् “शरदिगर्जति, वर्षति, वर्षति वर्षासु निःस्वनो मेघः” उद्भटः ।“कुम्भकर्ण स्ततोऽगर्जीत्” “गर्ज्जन् हरिः साम्भसिशैलकुञ्जे” भट्टिः “योधानां चैव गर्जताम्” भा०भी० ६७८ श्लो० “नाम संश्रावयामास जगर्ज चननाद च” रामा० सु० ८९ शीलार्थे चानश् ।गर्जमानः “तथात्र गर्जमाने तु मेघदुन्दुभिनिस्वनम्”भा० आ० २० अ० “सन्ध्ययां गर्जिते मेघे शास्त्रचिन्तांकरोति यः चत्वारि तस्य नश्यन्ति आयुर्विद्यायशो-बलम्” स्मृतिः “माधादिचतुरो मासान् गर्जमात्रंविवर्जयेत्” स्मृतिः ।अनु + गर्गनप्रतिरूपगर्जने “अनुगर्जितसन्दिग्धाः करणै-र्मुरजस्वना” कुमा० अनुरूपगर्जने “सोऽनुगर्जन्धनुष्पाणिः” भा० द्रो० ४० अ० ।अभि + अभिलक्ष्य गर्जने
सक०
“दुःशासनस्तामभिगर्ज-मानः” भा० स० ६५ अ० ताच्छील्ये चानश् “शार्दूलाविवचानन्योन्यमामिषार्थेऽभ्यगर्जताम्” भा० द्रो० १३३ अ० सम्य-ग्गर्जने अक० “शूराणाञ्चाभिगर्जताम्” भा० क० २१ अ०प्रति + प्रतिरूपगर्जने अक० “वलवच्चापि संक्रुद्धावन्योन्यंप्रतिगर्जताम्” भा० वि० २२ अ० आर्षः पदव्यत्ययः ।“प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः” भा०उ० ५० अ० “सुहृदयोहृदयः प्रतिगर्जताम्” रघुः ।प्रतिलक्ष्यीकृत्य गर्जने
सक०
“ऋषीणां कदनं कृत्वानामपि प्रतिगर्जति” हरिवं ४९ अ०
गर्ज्ज रवे चुरा०
उभ०
अक० सेट् गर्ज्जयति ते अजग-र्जत्--त! गर्जयां बभूब आस--चकार चक्रे गर्जयत्गर्जयमानः