| YouTube Channel

गरुत्मन् (garutman)

 
वाचस्पत्यम्
Sanskrit
गरुत्मन्
पु०
प्रशस्तौ गरुतौ स्तोऽस्य मतुप् यवादि० मस्यन वः गरुडे अमरः “सुपर्ण्णोऽसि गरुत्मान्”यजु० १२ “अङ्ग सवितुर्गरुत्मान् पूर्व्वो जातः”ऋ० १० १४९ हविर्भक्षणवति वह्नौ “सुपर्ण्णो-ऽसि गरुत्मान् पृष्ठे” यजु० १७ ७२ “अग्ने!त्वं सुपर्ण्णोऽसि सुपर्ण्णपक्ष्याकारो गरुड इवासि ।गरुत्मान् गरुत् गरणं गिलनं भक्षणमस्यास्तीति गरु-त्मान् अशनायावानित्यर्थः” वेददी० पक्षिमात्रे